________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलङ्कतो नयोपदेशः । इह हि जिनप्रवचने सर्व वस्त्वनन्तधर्मात्मकतया संकीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनापि
मातिशयश्च प्रतिपादितो भवति; 'भारती जयति' इत्यनेन वचनातिशयः साक्षात् , तद्वचनस्य सर्वोत्कृष्टतया पूजनीयत्वेऽवगते तद्वक्तुर्विश्ववेदिनोऽपि सर्वपूजनीयत्वमर्थात् प्राप्तमेवेति पूजातिशयश्च प्रतिपाद्यत इत्येवं विशिष्टचतुर्विधज्ञानाद्यतिशयसम्पन्नं जिनं प्रत्यहं प्रणतोऽस्मीति व्यज्यते । सर्वोत्कृष्टत्वे सत्येव विश्ववैदिनो भारत्या वचनातिशयरूपता भवेद, नाम्ययेत्यतस्तां विशिष्टि-ऐन्दवीवेति- इन्दोश्चन्द्रस्येयमैन्दवी, चन्द्रसम्बन्धिनी, या विमला निर्मला, कला चन्द्रिका, इव तत्सदृशी । उपमानोपमेययोः साधारणधर्मवत्त्वे सत्येव सादृश्य चमत्कृति विधातुमलमित्यतः साधारणधर्म दर्शयतिअनिशं भव्यकैरवविकाशनोद्यतेति- अनिशम्- सर्वदा, उपमाने- भव्यम्- सुन्दरम् , यत् , कैरवम्- कुमुदम् , तद्विकाशने- तद्दलानामगावच्छेदेनान्योऽन्यं विभजने, उद्यता- सामर्थ्यवती, उपमेये- भव्यत्वम्- मुक्तिगमनयोग्यताऽवच्छेदको जीवगतो धर्मविशेषः तदान भन्यो जीवविशेषः स एव कैरवं तस्य विकाशने- सम्यकपदार्थतत्त्वावधो यथा चन्द्रिका सर्वैरपि कुसुमैः समम विशेषेण सम्बद्धाऽपि कुमुदमेव विकाशयति, न कमलम् , तथा विश्ववेदिनो भारती सर्वान् जन्तून् प्रत्यविशेषेण प्रवृत्ताऽपि भव्यजन्तूनेव विकाशयति, ततो भव्यजन्तूनामेव सम्यक्तत्त्वावबोधस्य भावात् , नाभव्यजन्तून् , ततस्तेषां सम्यक्तत्त्वानवाप्तेः, यद्यपि दिवा चन्द्रिका न कुमुदविकाशमुपजनयतीत्यनिशं भव्यकैरवविकाशनोद्यतत्वं तत्र न घटते, तथापि दिवा सूर्यकिरणप्रतिबद्धप्रकाशा चन्द्रिका न विमला, किन्तु रात्रावेव, तदानीं च कुमुदसम्बद्धा कुमुर्द प्रकाशयत्येव, तथाविधकालाविनामावित्वमेव 'अनिशम्' इत्यनेनाभिमतम्, जिनवचनमपि गुर्वाचायोंपाध्यायादिमुखाच्छ्रतिपय मुपगतमेव भव्यानां विकाशं सम्यक्तत्त्वावबोधलक्षणमुपजनयतीति तत्राप्यनिशत्वं कालविशेष. व्या पित्वमेवेति बोध्यम् । 'नयविवेकभारती तन्वती' इत्यपि साधारणधर्मप्रतिपादकमेव, तत्रोपमाने- नीयते-प्राप्यतेऽभीष्टगन्तव्यस्थानमनेनेति नयो मार्गः, तस्य विवेकः-'अयं मार्ग एतद्रामस्य, अयं पुनरन्यस्य' इत्येवं भेदः, तस्य, भाः--प्रकाशः, रतिः-अभिलाषः, तावुभौ, तन्वती- विस्तारयन्ती, चन्द्रिकातो गन्तुर्मार्गभेदप्रकाशो भवति, तथा गमनेच्छा समुल्लसतीति; उपमेये- नयानाम्-गमादीनाम् , यः, विवेक:-'अयं नयः सामान्य-विशेषोभयविषयकः, अयं नयः सामान्यमानविषयकः, अयं मयो विशेषमात्रविषयकः' इत्यादिः, तस्य, भा:-प्रकाशो विशिष्टज्ञानम् , रतिः--तत्सद्विषयकज्ञानसमीहा, तावुभौ विस्तारयन्तीत्यर्थः ॥ १॥
नयस्वरूपाचगतिफलकनयनिरूपणस्यावश्यकत्वं दर्शयति-इहेति- अस्मिन्, श्वेताम्बराऽस्मदाद्यध्ययना-ऽध्यापनादिप्रत्यक्ष. व्यवहारविषय इत्यर्थः, एतेन स्वतः प्रमाणसिद्धत्वं जिनप्रवचनस्यावेदितम् , परोक्षे हि वस्तुनि प्रमाणं मृग्यते, न प्रत्यक्ष इति । यद्यपि वस्तुनोऽनन्तधर्मात्मकतया सङ्कीर्णस्वभावत्वं लोकेऽपि. अन्यथाऽलौकिकपदार्थप्ररूपकं जिनप्रवचनं न लौकिकानामादेयं स्यात्, तथापि लोकव्यहारविषयीभूतमप्यनन्तधर्मात्मकं वस्तु यथावलोकव्यवहारस्वरूपाऽनभिज्ञैरकान्तवादिभिस्तदनुयायिभिश्च पामरैः स्वाग्रहग्रहावेशात् स्वाभिमतप्रतिनियततत्तद्धर्मात्मकतयैव वस्तु व्यवहियत इति कथात एवं लौकिकव्यवहारविषययाथाविधारणम् , अतो जिनप्रवचनादेव लौकिकव्यवहारोऽपि स्वस्वरूपेऽवस्थापितो भवतीत्यभिसन्धाय 'जिनप्रवचने' इत्युक्तम् , जिनस्य प्रकृष्टं वचनं यत्रेति व्युत्पत्त्या लौकिकपरीक्षकव्यवहारोऽपि जिनप्रवचनशब्दाभिधेयो भवति । अथवा 'जिनप्रवचने' इत्येतावन्मात्रोतो "सुमन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः" इति कोशाद् बुद्धोऽपि जिनशब्दाभिधेय इति वौद्धागमस्यापि 'जिनप्रवचने' इत्यनेन ग्रहणं स्यात् , न च बौद्धागमे एकान्तक्षणिकस्वरूपतया वस्तुनः प्रतिपादके अनन्तधर्मात्मकतया सङ्कीर्णस्वभावं वस्त्विति तद्व्यवच्छेदायोक्तम्-इहेति- अविच्छिन्नप्रवाहरूपेण सर्वदा व्यवस्थितत्वादिदानीमपि प्रत्यक्षविषय इत्यर्थः, बौद्धदर्शनं तु 'क्षणिक क्षणिकं शून्यं शून्यम्' इत्यायेकान्तविरुद्धप्रलापैः स्वयूथ्यरेव विभिन्नतामुपगतम्, न सर्वदा व्यवस्थितस्वरूपम् , अतो यथावत्प्रत्यक्षाविषयत्वाद् भवति 'इह' इत्यनेन तस्य व्यवच्छेदः । वस्तुतो बुद्धोऽन्वर्थजिनशब्दवाच्यो न भवति, 'राग द्वेषादीन् भावशत्रून् जितवन्त इति जिनाः' इति जिनशब्दनिर्वचनम् , तच्चासदभ्युपगते पुरुषधौरेये महावीरादावेव वचनातिशयतोऽवधृतात्यन्तराग-द्वेषविगमे घटते, न रूढिमात्रेणव तत्र
चता न तदागमो जिनप्रवचनशब्दप्रतिपायो भवति, अन्यथा रथ्यापुरुषादावपि कस्मिंश्चिजिनशब्दः सङ्केतित इति तद्वचनमपि जिनप्रवचनशब्दप्रतिपाद्यं स्यात् , तथा च 'जिनप्रवचने' इत्यत्र जिनशब्दो योगरूढ इत्येव प्रत्यक्षविषयावबोधकेन