Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 41
________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। न तु बोध इति चेत् ? न- व्यवहर्तव्यज्ञाने सति सत्यां चेच्छायां व्यवहारे आधिक्यताऽनपेक्षणात् , अन्यथाऽभावज्ञानेऽपि प्रतियोग्यपेक्षा न स्यात् , तव्यवहार एव सप्रतियोगिकत्वस्थितेः । अथ 'दी? दण्डः' इति ज्ञानं चक्षुःसन्निकर्षमात्राज्जायत एव, 'अमुकापेक्षया दीर्घः' इति दीर्घत्वत्वावान्तरजात्यवगाहिज्ञान एव चावधिज्ञानापेक्षेति चेत् ? न- इस्वत्वेन ज्ञाने दीर्घत्वेन ज्ञानस्यैवापेक्षां विनाऽनुपपत्तिः, तद्वदिहापि परद्रव्यादिनाऽसत्त्वेन ज्ञाने स्वद्रव्याद्यपेक्षयैव सत्त्वज्ञानमिति प्रतिपत्तव्यम् । अवच्छेदकानवगाहिनस्तु अनवधारणरूपत्वादेवानुपयोगः । द्विहस्तादिमात्रेऽनावृतैकहस्तावच्छेदेन महत्त्व. ग्रहस्तु देशापेश्यैवेति न तस्य निरपेक्षत्वम् , अत एवाऽऽवरणापगमे स्कन्धापेक्षया परिमाणे द्विहस्तत्वग्रहेऽपि तावदवच्छेदेन हस्तत्वग्रहस्य नाप्रामाण्यम् , देश-स्कन्धभेदेनोमयोपपत्तेः । एतेन, भूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावान्नाईनिखातवंशादेर्द्विहस्तादिपरिमाणग्रह इति प्राच्यनैयायिकानां प्रलापो निरस्तः, यावति भागे नाऽऽवरणं तावति भागे परिमाणस्य महादेव, स्कन्धव्यवहर्तव्यज्ञानस्य सापेक्षत्वत एव व्यवहारस्य सापेक्षत्वं नान्यथेति समाधत्ते- नेति । 'आधिक्यतानपेक्षण!द्' इति स्थाने 'अधिकानपेक्षणाद्' इति पाठो युक्तः तस्य व्यवहर्तव्यज्ञान व्यवहारेच्छाव्यतिरिक्तान पेक्षणादित्यर्थः । अन्यथा व्यवहर्तव्यज्ञानस्यानपेक्षरवेऽपि व्यवहारस्य सापेक्षत्वाभ्युपगमे । तद्वयवहार एव अभावव्यवहार एव, अभावज्ञानं प्रतियोगिज्ञानमन्तरेणैव भवतीत्यभावो न सप्रतियोगिकः, किन्त्वभावव्यवहार एवं प्रतियोगिज्ञानमभावज्ञानं चापेक्षत इति तस्येव सप्रतियोगिकत्वं स्यादित्यर्थः । दीर्घत्वप्रकारकं ज्ञानं न नियतावध्यपेक्षम्, अवधिज्ञानमन्तरेणापि 'दी? दण्डः' इति ज्ञानस्य चक्षुस्सन्निकर्षमात्रादुत्पत्तेः, किन्त्वमुकापेक्षया यद् दीर्घत्वत्वं दीर्घत्वत्वव्याप्यसामान्यम् , तत्प्रकार कदीर्घत्वविशेषविशेष्यक ज्ञान एवावधिज्ञानं कारणमिति तत्रैवावधिज्ञानापेक्षेति शङ्कते-अथेति । ह्रस्वत्वस्य दीर्घत्वविरुद्धतया तद्रूपेण दण्डशाने सति नापेक्षामन्तरेण 'दीपों दण्डः' इति ज्ञानं सम्भवतीति दीर्घत्वप्रकारकज्ञानेपि नियतावधिज्ञानापेक्षत्वमेवेति समाधत्ते-नेति । तद्वत नियतावधिज्ञानापेक्षदीर्घत्वप्रकारकज्ञानवत् । इहाऽपि सदसदात्मकवस्तुज्ञानेपि । नन्ववच्छेदकानवगायपि वस्तुशानं भवत्येवेति न तत्रावधिज्ञानापेक्षेत्यत आह-अवच्छेदकानवगाहिनस्त्विति-तादृशज्ञानं भवतु नाम, न ततः सत्त्वादेरवधारणमिति न स्पष्टबोधः स इति स्पष्टबोधोऽपेक्षा विना न सम्भवतीति प्रतिज्ञायां न तेन किञ्चित् क्षुण्णमित्यभिसन्धिः । अनुपयोगः वस्तु सद्धाबुपयोगो न भवति, तत्तत्प्रकारेण वस्तुसिद्धयर्थं च यज्ज्ञानं मृग्यते तद् अवच्छेदकावगायव भवतीति । द्विहस्तादिमात्रे द्विहस्तादिप्रमाणे वस्तुनि, आदिपदात् त्रिहस्तादग्रहणम् । देशापक्षयैवेतीति-द्विहस्तप्रमाणे यादृशं महत्त्वं ततो विलक्षणमेवैकहस्तप्रमाणगत महत्त्वम् , तच्च देश-देशिनोः कथञ्चिद् भेदाद् देशे वर्तमानं देशिन्यपि वर्तत एव, परन्तु दशिन एकदेशावच्छेदेनाऽऽवरणमन्यदेशावच्छेदेनानावरणमित्यनावृतो य एकहस्तप्रमाणो देशस्तदवच्छेदेन ताशमहत्त्वग्रहणं देशापेक्षयैवेतीति । तस्य महत्त्वग्रहस्य त निरपेक्षत्वमित्यर्थः । अत एव द्विहस्तप्रमाणे वस्तुनि अनावृतकहस्तावच्छेदेन महत्त्वग्रहस्य सापेक्षत्वादेव । तावदवच्छेदेन एकहस्तमितदेशावच्छेदेन । देशेतिदेशापेक्षयकहस्तमितत्वं स्कन्धापेक्षया द्विहस्तमितत्वमित्येवं देश-स्कन्धभेदेनैकस्मिन् वस्तुन्येकहस्तत्व-द्विहस्तत्वोभयोरपि सम्भवेन तत्र द्विहस्तत्वग्रहस्यक हस्तस्वग्रहस्यापि प्रामाण्यसम्भवादित्यर्थः ।। ___ 'एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः, प्राच्यनैयायिकानां मते द्विहस्तमिते वस्तुनि द्विहस्तपरिमाणमेव, नैकहस्तपरिमाणम् , तद्गतद्विहस्तपरिमाणग्रहे च भूयोऽवयवावच्छेदेन चक्षुस्संयोगो हेतुरित्यर्द्धनिखातवंशादेरुक्तकारणाभावान द्विहस्तपरिमाणप्रहः एकहस्तपरिमाणं तु तत्र नास्त्येवेति न तद्गतपरिमाणग्रह इत्याशयः । एतेन इत्यतिदिष्टमेव निरासहेतुमाहयावति भाग इति । परिमाणस्य तद्वस्तुगतस्य निरावृतदेशावच्छिन्नस्यैक हस्तपरिमाणस्य । ननु भूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावेऽपि तत्परिमाणग्रहणं यापेयः तर्हि अर्द्धनिखातवंशादेरेकहस्तग्रहणवद् द्विहस्तपरिमाणग्रहणमपि स्यादित्यत आह-स्कन्धपर्याप्तेति । 'तत्पर्याप्तावच्छेदक' इति स्थाने 'तत्पर्यायवच्छेदक' इति पाठो युक्तः, स्कन्धे परिमाणस्य

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210