Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
ननु सर्वत्र वास्तव्येवाऽपेक्षा नयप्रवृत्तिहेतुः ? उत वैज्ञानिक्यपि ? उच्यते-कचिद् वैज्ञानिक्यपि, यत्र मतभेदोऽध्यवसायः, तथा चाह--
नानानयमयो व्यको मतभेदो ह्यपेक्षया ।
कोट्यन्तरनिषेधस्तु प्रस्तुतोत्कटकोटिकृत् ॥ ४॥ नया०-नानेति । हि निश्चितम् , मतभेदः बौद्धौपनिषदादिदर्शनभेदः, नानानयमयः स्वेच्छानिवेशितत्वेनाऽनेकनयविकाररूपः, वस्तुतः प्रकृतिरूपो वा, अपेक्षया व्यक्तः, शुद्धपर्याय-विशुद्धद्रव्याद्यपेक्षयैव तत्तदर्थव्यवस्थितेः । नयविशेषतात्पर्यमेतद्, न त्वपेक्षेति चेत् ? न-तात्पर्यस्यापि वस्तुसंबन्धरूपापेक्षामालम्ब्य प्रवृत्तः, असति संबन्धे तात्पर्यस्य प्रामाण्याऽप्रसरात्, सा चेयमपेक्षा वैजातिकः संबन्धः, अत एव विकल्पसिद्धस्य धर्मिणः प्रतिषेधादिसाधनमामनन्ति सांप्रदायिकाः, 'ईश्वरो नास्ति, प्रकृतिर्नास्ति' इत्यादौ विशिष्टज्ञानाकारविषयत्वेन तत्र धर्मिणो विकल्पसिद्धत्वात् । विशिष्टवस्त्वसिद्धौ
तथा ब्रह्माद्वैतकान्तस्यैवाभावेन सत्र 'अमुकापेक्षया दृष्टिसृष्टिवाद एकजीववादानुगतः, व्यापकैजीववादः, परिच्छिन्नाऽनेकजीववादः' इत्यादेर्वास्तविकापेक्षाश्रितस्यासम्भवात्, किन्तु तत्र यथामतभेदः कल्पितस्तथाऽपेक्षाभेदोऽपि कल्पित एवेति वैज्ञानिक्यपेक्षा नयप्रवृत्तिहेतुरित्यभिसन्धिः ।।
विवृणोति-नानेतीति । एकनयसमुत्थमेव योकदर्शनं भवेत् तदा नानानयमयत्वं न स्याद्, अपि न चैवम्, किन्तु यस्य यद् यत् वरुचितं तत् तत् तत्र सन्निवेशितम् , अतोऽनेकनयविषयविषयकत्वामानानयमय इत्याह-स्वेच्छा . निवेशितत्वेनेति । प्रकृतिरूपो नानानयप्रकृतिरूपः, तस्मादपि मतभेदादवान्तरनयविशेषलक्षणमतभेदप्रवृत्तिसम्भवेन । प्रकृतिरूपत्वमपि बौद्धोपनिषदादिदर्शनभेदे सम्भवतीति । नन्वपेक्षामन्तरेणैव बौद्धादिदर्शनभेदो व्यक्त एवानुभूयत इति रिकमुच्यते 'अपेक्षया व्यक्तः' इत्यत आह-शुद्धति-मतभेदो हि तत्तदर्थविषयकतयैवावभासते, तत्तदर्थश्च यद्यव्यवस्थितरूपः स्यात् कथं व्यवस्थितरूपो नयभेदो भवेत् ? अव्यवस्थितरूपत्वे च संदिग्धस्वरूपतयाऽवभासमानो दर्शनभेदो व्यक्तः कथमिव भवेत् ? अतः शुद्धपर्यायापेक्षया क्षणिकत्वरूपार्थव्यवस्थित्या तद्विषयक बौद्धदर्शनं निर्णीतार्थकत्वान्नितिखरूपं व्यक्तम् , एवं विशुद्धद्रव्यापेक्षया नित्य-शुद्ध-सन्मानरूपब्रह्मार्थव्यवस्थित्या तद्विषयकं वेदान्तदर्शनं निर्णातार्थकत्वान्निगीतम्वरूप व्यक्तमिति 'अपेक्षया व्यक्तः' इति युज्यते । शङ्कते-नयविशेषेति- 'शुद्धपर्यायापेक्षया क्षणिक वस्तु' इत्यस्य ऋजुसूत्रनयतात्पर्येण वस्तु क्षणिकमित्यर्थ:, शुद्धद्रव्यापेक्षया 'सदद्वितीयं ब्रह्म' इत्यस्य सङ्ग्रहनयतात्पर्येण सन्मात्रस्वरूप ब्रह्मेत्यर्थः, इत्थं नय विशेषतात्पर्योपवर्णनमेवापेक्षाशब्देन क्रियते. न तु तात्पर्यविशेषातिरिक्तं किञ्चिदपेक्षावाच्यमिति शङ्कार्थः । प्रतिक्षिपति- नेति । सम्बन्धे वस्तुसम्बन्धे। 'वैजातिकः सम्बन्धः' इति स्थाने 'वैज्ञानिक: सम्बन्धः' इति पाठो युक्तः । अत एव वैज्ञानिकसम्बन्धस्यापेक्षाशब्दवाच्यस्य बलादेव । विकल्पसिद्धस्येति- विकल्पो विज्ञानविशेष एव, तत्सिद्धस्य, नामान्तरेण वैज्ञानिकसम्बन्धलक्षणापेक्षासिद्धस्येत्यर्थः । विकल्पसिद्धस्य धर्मिणः प्रतिषेधादिसाधनमुदाहरणोपदर्शनेन स्पष्टयति- ईश्वरो नास्तीति- ईश्वरो नाम जगत्कर्तृत्वविशिष्टात्मस्वरूपः, प्रकृतिम साम्यावस्थापनसत्त्व-रजस्तमोगुणत्रयस्वरूपा, तथा च ईश्वरो नास्ति' इत्यादौ धर्मिण ईश्वरस्य 'जगत्कत्मिा ' इति विशिष्ट कारज्ञानविषयत्वेन विकल्पसिद्धत्वात् , “प्रकृति स्ति' इत्यादौ च धर्मिणः प्रकृतेः ‘साम्यावस्थापन्नं सत्त्व-रजस्तमोगुणत्रयम् ' इति विशिष्टाकारज्ञानविषयत्वेन विकल्प सिद्धत्वात् , ईश्वर-प्रकृत्यादौ निरुक्तविशिष्टाकारज्ञान विषयत्वमेव विकल्पसिद्धत्वम्, तदेव चापेक्षा यतो वैज्ञानिकसम्बन्धोऽपेक्षा, विज्ञानं विशिष्टाकारज्ञानम्, तत्कृतो विषयत्वलक्षण: सम्बन्ध इति । ननु जगत्कर्तृत्वादिविशिष्टात्मस्वरूपं साम्यावस्थापनत्रिगुणस्वरूपं विशिष्टवस्त्वेवासिद्धमिति कुतस्तदाकारं ज्ञानम् ? येन तद्विषयत्वेन विकल्पसिद्धत्वं भवेदिति पृच्छति- विशिष्टवस्त्वसिद्धाविति । उत्तरयत्ति-यथेति । तव नैयायिकस्य, यथा नैयायिकस्य मते गुण-कर्मान्यत्वविशिष्टसत्त्वस्य शुद्धसत्त्वानतिरिक्तत्वमिति शुद्धातिरिक्तं विशिष्टं नाम नास्त्येव किञ्चित् , तथापि 'गुणे

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210