Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 51
________________ मयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । इदमप्यत्र विचार्यते - द्वित्वादिकमपेक्षाबुद्धिजन्यं व्यङ्गयं वेति, तत्र जन्यमेवेति नैयायिकाः, व्यङ्गय• मिति प्राभाकराः । तत्र नैयायिकानामयमाशय:- द्वित्वस्य व्यङ्ग्यत्वनयेऽपेक्षा बुद्धेर्द्वित्वत्वप्रकार कलौकिकप्रत्यक्षत्वं कार्यतावच्छेकं वाच्यम्, , जन्यत्वनये तु द्वित्वत्वमेवेति लाघवम्। न च व्यङ्ग्यत्वनयेऽपि लौकिकप्रकारतासंबन्धेन द्वित्वत्वमेव तत्कार्यतावच्छेदकं वक्तुं शक्यम्, गुणत्व- संख्यात्व- तद्व्यक्तित्वादिना विनाऽप्यपेक्षा बुद्धिं तत्प्रत्यक्ष प्रसङ्गात् तेन रूपेण तत्प्रत्यक्षं प्रति तस्या हेतुत्वकल्पने चातिगौरवात् । न च स्वाश्रयविषयतया द्वित्वत्वस्य कार्यतावच्छेदकतया न दोष इति वाच्यम्, तथापि व्यङ्ग्यत्वनये स्वाश्रयविषयत्वं कार्यतावच्छेदकतावच्छेदकः संबन्धः, जन्यत्वनये तु समवाय इति जन्यत्वपक्ष एव लाघववान् । अथ द्वित्वप्रत्यक्षेऽपि प्रत्यक्षत्वमेव कार्यतावच्छेदकं द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदक २५ अत्र शिष्यबुद्धिवैशद्याय नैयायिक - प्रभाकरयोर्मन्तव्यभेदमुपदर्शयति- इदमपीति । अत्र द्वित्वादिस्वरूपपर्यालोचनायाम् । इदम् 'द्वित्वादिकम्' इत्याद्यनन्तरमेव वक्ष्यमाणम् । व्ययं वा अपेक्षाबुद्धिव्यङ्गयं वा । तत्र जन्य व्यङ्गघयोर्मध्ये । जन्यमेव अपेक्षावुद्धिजन्यमेव द्वित्वादिकम् । व्यङ्ग्यम् अपेक्षाबुद्धिव्याचं द्वित्वादिकम् । प्रथमं नैयायिकाभिप्रायं प्रकव्यति- तत्रेति- द्वित्वादेरपेक्षाबुद्धिव्यङ्ग्यत्वं नामापेक्षाबुद्धिजन्य प्रत्यक्षविषयत्वमिति द्वित्वत्वप्रकार कलौकिकप्रत्यक्षत्वा प्रत्यपेक्षाबुद्धेः कारणत्वम्, अतो द्वित्वस्यापेक्षबुद्धिव्यञ्जयत्वमिति प्रभाकरमते द्वित्वत्वप्रकारक लौकिकप्रत्यक्षत्वमपेक्षाबुद्धेः कार्यतावच्छेदकमुररीकरणीयम्, द्वित्वमपेक्षा बुद्धिजन्यमिति नैयायिकमते तु द्विवत्वावच्छिन्नं प्रत्यपेक्ष बुद्धेः कारणत्वमिति द्वित्वत्वमेवापेक्षाबुद्धेः कार्यतावच्छेदकमिति लाघवम्, अतो द्वित्त्रस्यापेक्षाबुद्धिजन्यत्वमेव स्वीकरणीयमित्याशयः । ननु लौकिकप्रकारतासम्बन्धेन द्वित्वत्वावच्छिन्नं प्रत्येवापेक्षा बुद्धेः कारणत्वं द्वित्वस्य व्यङ्गयत्वपक्षेऽपि वाच्यम्, तथा च मतद्वयेऽपि कार्यतावच्छेदकं द्विस्वत्वमेवेति न लाघवं न्यायमतेऽपि प्रकारतायाश्च संसर्गतानियामकः सम्बन्धो निरूपकत्वम्, तथा च लौकिकप्रकारतासम्बन्धेन द्वित्वत्वावच्छिन्नं द्वित्वत्वप्रकारक लौकिकप्रत्यक्षमिति तस्यापेक्षा बुद्धिकार्यतया तद्विषये द्वित्वेऽपेक्षा बुद्धिव्यक्तयत्वलाभ इत्याशङ्कय प्रतिक्षिपति न वेति- अस्य 'शक्यम्' इत्यनेनान्वयः । तत्कार्यतावच्छेदकम् अपेक्षाबुद्धिकार्यतावच्छेदकम् । निषेधे हेतुमाह - गुणत्वेति- लौकिकप्रकारता - सम्बन्धेन द्वित्वत्ववत्प्रत्यक्ष मपेक्षा बुद्धिकार्यमिति तदपेक्षा बुद्धिं विना मा भवतु, गुणत्वादिना तु द्वित्वप्रत्यक्षं नापेक्षाबुद्धिकार्यमिति तदपेक्षाबुद्धिं विनाऽप्यापद्येत, यदि च गुणत्वादिना द्वित्वप्रत्यक्षं प्रत्यप्यपेक्षाबुद्धेः कारणत्वं स्वीकृत्य तद्वारणं क्रियते तदाऽतिगौरवमित्यतो व्यञ्जयत्वपक्षो न समीचीन इत्यर्थः । तत्प्रत्यक्षति - द्वित्वप्रत्यक्षेत्यर्थः । तेन रूपेण गुणत्वादिरूपेण । तत्प्रत्यक्षं प्रति द्वित्वप्रत्यक्षं प्रति । तस्या: अपेक्षाबुद्धेः । ननु स्वाश्रयविषयतासम्बन्धेन द्वित्वत्वावच्छिन्नं प्रत्यपेक्षाबुद्धेः कारणत्वम्, द्वित्वत्वप्रकारकप्रत्यक्षं यथा स्वाश्रयविषयतासम्बन्धेन द्वित्वत्ववत् तथा गुणत्वादिना द्वित्वप्रत्यक्षमपि स्वाश्रयविषयतासम्बन्धेन द्वित्वत्ववद् भवतीति तदपि निरुक्तकार्यतावच्छेदकाक्रान्तमित्यपेक्षाबुद्धिं विना न तत्प्रसञ्जन सम्भव इत्याशङ्कय प्रतिक्षिपति - न वेति- अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । न्यायमते समवायेन द्वित्वत्वं कार्यतावच्छेदकमिति द्वित्वत्वनिष्टायाः कार्यतावच्छेदकताया अवच्छेदकः सम्बन्धः समवायः, स च व्यङ्गयत्वपक्षीय कार्यतानिरूपित द्वित्वत्व निष्टावच्छेदकतावच्छेदकस्वाश्रयविषयत्वसम्बन्धापेक्षया लघुभूत इत्येवं लाघवाद् व्ययत्वपक्षो न युक्त इति निषेधहेतुमुपदर्शयति- तथापीति- स्वाश्रयविषयत्वस्य द्वित्वत्वनिष्टकार्यतावच्छेदकतावच्छेदकसम्बन्धत्वमुपगम्यापेक्षा बुद्धिं विना गुणत्वादिना द्वित्वप्रत्यक्षापत्तेर्वारणेऽपीत्यर्थः । निषेधहेत्ववबोधाय 'लाघववान्' इति स्थाने 'लाघवात्' इति पाठो युक्तः । ननु नैयायिकमते यथा द्वित्वत्वमपेक्षाबुद्धेः कार्यतावच्छेदकं तथा प्रभाकरमते प्रत्यक्षत्वमेव तत्कार्यतावच्छेदकम् द्वित्ववृत्तिविषयता च कार्यतावच्छेदकसम्बन्धः तेन सम्बन्धेन द्वित्वप्रत्यक्षमेव द्वित्वे वर्तते नान्यप्रत्यक्षमिति तस्यैव प्रत्यक्षत्वेन रूपेणापेचाबुद्धिकार्यत्वमिति नातिप्रसङ्गो नवा गौरवमिति शङ्कते - अथेति । ४

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210