________________
मयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
इदमप्यत्र विचार्यते - द्वित्वादिकमपेक्षाबुद्धिजन्यं व्यङ्गयं वेति, तत्र जन्यमेवेति नैयायिकाः, व्यङ्गय• मिति प्राभाकराः । तत्र नैयायिकानामयमाशय:- द्वित्वस्य व्यङ्ग्यत्वनयेऽपेक्षा बुद्धेर्द्वित्वत्वप्रकार कलौकिकप्रत्यक्षत्वं कार्यतावच्छेकं वाच्यम्, , जन्यत्वनये तु द्वित्वत्वमेवेति लाघवम्। न च व्यङ्ग्यत्वनयेऽपि लौकिकप्रकारतासंबन्धेन द्वित्वत्वमेव तत्कार्यतावच्छेदकं वक्तुं शक्यम्, गुणत्व- संख्यात्व- तद्व्यक्तित्वादिना विनाऽप्यपेक्षा बुद्धिं तत्प्रत्यक्ष प्रसङ्गात् तेन रूपेण तत्प्रत्यक्षं प्रति तस्या हेतुत्वकल्पने चातिगौरवात् । न च स्वाश्रयविषयतया द्वित्वत्वस्य कार्यतावच्छेदकतया न दोष इति वाच्यम्, तथापि व्यङ्ग्यत्वनये स्वाश्रयविषयत्वं कार्यतावच्छेदकतावच्छेदकः संबन्धः, जन्यत्वनये तु समवाय इति जन्यत्वपक्ष एव लाघववान् । अथ द्वित्वप्रत्यक्षेऽपि प्रत्यक्षत्वमेव कार्यतावच्छेदकं द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदक
२५
अत्र शिष्यबुद्धिवैशद्याय नैयायिक - प्रभाकरयोर्मन्तव्यभेदमुपदर्शयति- इदमपीति । अत्र द्वित्वादिस्वरूपपर्यालोचनायाम् । इदम् 'द्वित्वादिकम्' इत्याद्यनन्तरमेव वक्ष्यमाणम् । व्ययं वा अपेक्षाबुद्धिव्यङ्गयं वा । तत्र जन्य व्यङ्गघयोर्मध्ये । जन्यमेव अपेक्षावुद्धिजन्यमेव द्वित्वादिकम् । व्यङ्ग्यम् अपेक्षाबुद्धिव्याचं द्वित्वादिकम् । प्रथमं नैयायिकाभिप्रायं प्रकव्यति- तत्रेति- द्वित्वादेरपेक्षाबुद्धिव्यङ्ग्यत्वं नामापेक्षाबुद्धिजन्य प्रत्यक्षविषयत्वमिति द्वित्वत्वप्रकार कलौकिकप्रत्यक्षत्वा प्रत्यपेक्षाबुद्धेः कारणत्वम्, अतो द्वित्वस्यापेक्षबुद्धिव्यञ्जयत्वमिति प्रभाकरमते द्वित्वत्वप्रकारक लौकिकप्रत्यक्षत्वमपेक्षाबुद्धेः कार्यतावच्छेदकमुररीकरणीयम्, द्वित्वमपेक्षा बुद्धिजन्यमिति नैयायिकमते तु द्विवत्वावच्छिन्नं प्रत्यपेक्ष बुद्धेः कारणत्वमिति द्वित्वत्वमेवापेक्षाबुद्धेः कार्यतावच्छेदकमिति लाघवम्, अतो द्वित्त्रस्यापेक्षाबुद्धिजन्यत्वमेव स्वीकरणीयमित्याशयः । ननु लौकिकप्रकारतासम्बन्धेन द्वित्वत्वावच्छिन्नं प्रत्येवापेक्षा बुद्धेः कारणत्वं द्वित्वस्य व्यङ्गयत्वपक्षेऽपि वाच्यम्, तथा च मतद्वयेऽपि कार्यतावच्छेदकं द्विस्वत्वमेवेति न लाघवं न्यायमतेऽपि प्रकारतायाश्च संसर्गतानियामकः सम्बन्धो निरूपकत्वम्, तथा च लौकिकप्रकारतासम्बन्धेन द्वित्वत्वावच्छिन्नं द्वित्वत्वप्रकारक लौकिकप्रत्यक्षमिति तस्यापेक्षा बुद्धिकार्यतया तद्विषये द्वित्वेऽपेक्षा बुद्धिव्यक्तयत्वलाभ इत्याशङ्कय प्रतिक्षिपति न वेति- अस्य 'शक्यम्' इत्यनेनान्वयः । तत्कार्यतावच्छेदकम् अपेक्षाबुद्धिकार्यतावच्छेदकम् । निषेधे हेतुमाह - गुणत्वेति- लौकिकप्रकारता - सम्बन्धेन द्वित्वत्ववत्प्रत्यक्ष मपेक्षा बुद्धिकार्यमिति तदपेक्षा बुद्धिं विना मा भवतु, गुणत्वादिना तु द्वित्वप्रत्यक्षं नापेक्षाबुद्धिकार्यमिति तदपेक्षाबुद्धिं विनाऽप्यापद्येत, यदि च गुणत्वादिना द्वित्वप्रत्यक्षं प्रत्यप्यपेक्षाबुद्धेः कारणत्वं स्वीकृत्य तद्वारणं क्रियते तदाऽतिगौरवमित्यतो व्यञ्जयत्वपक्षो न समीचीन इत्यर्थः । तत्प्रत्यक्षति - द्वित्वप्रत्यक्षेत्यर्थः । तेन रूपेण गुणत्वादिरूपेण । तत्प्रत्यक्षं प्रति द्वित्वप्रत्यक्षं प्रति । तस्या: अपेक्षाबुद्धेः । ननु स्वाश्रयविषयतासम्बन्धेन द्वित्वत्वावच्छिन्नं प्रत्यपेक्षाबुद्धेः कारणत्वम्, द्वित्वत्वप्रकारकप्रत्यक्षं यथा स्वाश्रयविषयतासम्बन्धेन द्वित्वत्ववत् तथा गुणत्वादिना द्वित्वप्रत्यक्षमपि स्वाश्रयविषयतासम्बन्धेन द्वित्वत्ववद् भवतीति तदपि निरुक्तकार्यतावच्छेदकाक्रान्तमित्यपेक्षाबुद्धिं विना न तत्प्रसञ्जन सम्भव इत्याशङ्कय प्रतिक्षिपति - न वेति- अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । न्यायमते समवायेन द्वित्वत्वं कार्यतावच्छेदकमिति द्वित्वत्वनिष्टायाः कार्यतावच्छेदकताया अवच्छेदकः सम्बन्धः समवायः, स च व्यङ्गयत्वपक्षीय कार्यतानिरूपित द्वित्वत्व निष्टावच्छेदकतावच्छेदकस्वाश्रयविषयत्वसम्बन्धापेक्षया लघुभूत इत्येवं लाघवाद् व्ययत्वपक्षो न युक्त इति निषेधहेतुमुपदर्शयति- तथापीति- स्वाश्रयविषयत्वस्य द्वित्वत्वनिष्टकार्यतावच्छेदकतावच्छेदकसम्बन्धत्वमुपगम्यापेक्षा बुद्धिं विना गुणत्वादिना द्वित्वप्रत्यक्षापत्तेर्वारणेऽपीत्यर्थः । निषेधहेत्ववबोधाय 'लाघववान्' इति स्थाने 'लाघवात्' इति पाठो युक्तः । ननु नैयायिकमते यथा द्वित्वत्वमपेक्षाबुद्धेः कार्यतावच्छेदकं तथा प्रभाकरमते प्रत्यक्षत्वमेव तत्कार्यतावच्छेदकम् द्वित्ववृत्तिविषयता च कार्यतावच्छेदकसम्बन्धः तेन सम्बन्धेन द्वित्वप्रत्यक्षमेव द्वित्वे वर्तते नान्यप्रत्यक्षमिति तस्यैव प्रत्यक्षत्वेन रूपेणापेचाबुद्धिकार्यत्वमिति नातिप्रसङ्गो नवा गौरवमिति शङ्कते - अथेति ।
४