________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
संबन्धत्वेनैवानतिप्रसङ्गात्, अन्यथा द्वित्वप्रत्यक्षस्य विषयतया द्वित्वत्वादावपि जायमानत्वेन व्यभिचारात् । अपेक्षाबुद्धित्वं कारणतावच्छेदकम्, तच्च मानसत्वव्याप्यो जातिविशेषः, कारणतावच्छेदकसंबन्धः स्वविषयपर्याप्तत्वम्, तेन 'घट-पटैकत्वबुद्धित्वेनापेक्षा बुद्धेर्घट-पटद्वित्वप्रत्यक्ष हेतुत्वेऽनन्तकार्यकारणभावापत्तिः, द्वित्वप्रत्यक्षत्वावच्छिन्नेऽपेक्षा बुद्धित्वेन सामान्यतो हेतुत्वेऽपि घट-पट द्वित्वप्रत्यक्षकाले घट-कुड्यद्वित्वप्रत्यक्षापत्तिः, स्वविषयवृत्तित्व संबन्धेनापेक्षा बुद्धेस्तत्रापि सत्त्वाद्, इत्यादिदूषणानवकाशः, घट-पटैकत्वबुद्धेर्घट- कुड्य द्वित्वे स्वविषयपर्याप्तत्व संबन्धेनासम्वादिति व्यङ्गयत्वनयेऽपि न गौरवमिति वेत् ? न- एवं सति प्रत्यक्षत्वं कार्यतावच्छेदकम्, ज्ञानत्वं वा, अनुभवत्वं वेत्यादौ विनिगमकाभावात् । किश्व, व्यङ्गधत्ववादिना मैत्रीयापेक्षा बुद्ध्या सन्निकर्षादिवशाद् द्वित्वे चैत्रीयप्रत्यक्षोत्पत्तिवारणाय चैत्रीयापेक्षाबुद्धित्व-चैत्रीयप्रत्यक्षत्वादिना कार्यकारणभावो वाच्य इति गौरवमेव । अथ तव पुरुषान्तरापेक्षाबुद्धिजनितद्वित्वस्य पुरुषान्तराप्रत्यक्षत्वाय द्वित्वनिष्ठविषयतासंबन्धेन चैत्रीयप्रत्यक्षे मैत्रीयद्वित्वादिभेदस्यापि हेतुत्वं कल्पनीयम्, यद्वा चैत्रीयद्वित्वप्रत्यक्षं प्रति चैत्रापेक्षा बुद्धिजन्यद्वित्वेन हेतुता कल्पनीया, कार्यता
२६
द्वित्वप्रत्यक्षत्वस्यापेक्षा बुद्धिकार्यतावच्छेदकत्वोपगमेऽपि द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदकसम्बन्धत्वमवश्यमभ्युपेयम्, विषयतामात्रस्य कार्यतावच्छेदकसम्बन्धत्वे द्वित्वप्रत्यक्षस्य तेन सम्बन्धन द्वित्वत्वादावपि जायमानत्वेन तत्र स्वविषयपर्याप्तत्वसम्बन्धेनापेक्षा बुद्धेरभावेन व्यभिचारापत्तेरित्याह- अन्यथेति द्वित्ववृत्तिविषयतायाः कार्यातावच्छेदकसम्बन्धत्वानभ्युपगम इत्यर्थः । तच्च अपेक्षा बुद्धित्वं च । तेन मानसत्वव्याप्यजातिविशेषरूपस्यापेक्षा बुद्धित्वस्य कारणतावच्छेदकतया स्वविषयपर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतया चाभ्युपगमेन, अस्य 'इत्यादिदूषणानवकाशः' इत्यत्रान्वयः । घट-कुख्यद्वित्वप्रत्यक्षापत्तिरिति- 'घटक: पटकः' इत्याकारकापेक्षायुद्धितो घट-पटद्वित्वप्रत्यक्षं यदोषजायते तदा घट-कुज्यद्वित्वप्रत्यक्षमपि स्यात्, द्वित्वप्रत्यक्षत्वरूप कार्यतावच्छेदकस्य घर पर द्वित्वप्रत्यक्ष इव घट - कुड्यद्वित्वप्रत्यक्षेऽपि सत्त्वात्, अपेक्षाबुद्धित्वलक्षणकारणतावच्छेदकस्य घट- कुज्यद्वित्वप्रत्यक्षं प्रति कारणे 'घटचैकः कुड्यं चैकम्' इत्याकारकापेक्षा बुद्धिविशेष इव 'घटश्चैकः पटकः' इत्याकारकापेक्षा बुद्धिविशेषेऽपि सत्त्वेन तद्वृषेण तस्यापि घट- कुड्यद्वित्वप्रत्यक्षं प्रति कारणत्वात्, अपेक्षा. बुद्धेः कारणतावच्छेदकसम्बन्धतयाऽभ्युपगतस्य स्वविषयवृत्तित्वस्यापि 'घटश्चैकः पटचैकः' इत्यपेक्षाबुद्धेः स्वविषयघटवृत्तित्वमुपादाय घट-यद्वित्वे सत्त्वादित्यर्थः । स्वदिषयपर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतयाऽभ्युपगमे तु घट-पटेकत्वबुद्ध्यात्मकापेक्षाबुद्धेः स्वविषयपर्याप्तत्वसम्बन्धेन घट- कुड्य द्वित्वेऽसत्त्वान्न घट-पटैकत्वबुद्धितो घट-युष्य द्वित्वप्रत्यक्षापत्तिरित्याह- घटपकत्वबुद्धेरिति । समाधत्ते - नेति । एवं सति द्वित्ववृत्तिविषयत्वस्य कार्यतावच्छेदकसम्बन्धतया मानसत्वव्याप्य जातिविशेषात्मकापेक्षा बुद्धित्वस्य कारणतावच्छेदकतया स्वविषयपर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतया वाभ्युपगमेनाऽतिप्रसङ्गव्यभिचारवारणे सति । प्रत्यक्षत्वमिति - प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे यथा न कोऽपि दोषस्तथा ज्ञानत्वानुभवत्वयोरपि कार्यतावच्छेदकत्वेऽपि न कोऽपि दोष इति प्रत्यक्षत्वमेव कार्यतावच्छेदकमिति विनिगन्तुमशक्यत्वेनानेककार्य-कारणभावप्रसङ्गादित्यर्थः । व्यङ्गयत्वपक्षे गौरवान्तरमप्याह- किश्चेति- चैत्रस्य चक्षुः संयुक्तसमवायो द्वित्वे वर्तते, मैत्रस्यापेक्षाबुद्धिरस्ति, सा चापेक्षा बुद्धि: स्वविषयपर्याप्तत्वसम्बन्धेन द्वित्वे वर्तते इति तद्वला चैत्रस्य द्वित्वप्रत्यक्षमापायेतेति तद्वारणाय चैत्रीय प्रत्यक्षत्वावछिन्नं प्रति चैत्रीयापेक्षा बुद्धित्वेन कारणत्वम, मैत्रीय प्रत्यक्षत्वावच्छिन्नं प्रति मैत्रीयापेक्षा बुद्धित्वेन कारणत्वमित्येवं पुरुषभेदेनानन्तकार्य-कारणभावकल्पनगौरवं व्ययत्वपक्षे इत्यर्थः । प्रभाकरमतानुयायी शङ्कते - अथेति । तव अपेक्षाबुद्धिजन्यं द्वित्वमितिवादिनो नैयायिकस्य, मत इति शेषः; यत्पुरुषी यापेक्षा बुद्धया यद् द्वित्वं जन्यते तद्वित्वस्य तेनैव पुरुषेण प्रत्यक्षं भवति, चक्षुः संयुक्तसमवायसन्निकर्षस्तु यथा तत्पुरुषस्य तत्र समस्ति तथा पुरुषान्तरस्यापि तत्र समस्तीति तद्बलात् पुरुषान्तरस्य तत्प्रत्यक्षं स्यात्, तद्वारणाय द्वित्वनिष्टविषयतासम्बन्धेन चैत्रीयप्रत्यक्षं प्रति मैत्रीयापेक्षा बुद्धिजनित