________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकूतो नयोपदेशः ।
। २७
वच्छेदकः संबन्धो द्वित्वनिष्ठविषयता, कारकतावच्छेदकश्च तादात्म्यम् , अत एव चैत्रमैत्रापेक्षाबुद्धिभ्यां तुल्यविषयाभ्यां युगपदुत्पन्नाभ्यामुत्पादितं द्वित्वमेकमेवेति मतेऽपि न क्षतिरिति कल्पनायामधिकं गौरव. मिति चेत् ? न-तद्गौरवस्य फलमुखत्वेनादोषत्वात् । यद्यपि द्वित्वादावपेक्षाबुद्धे कत्वावगाहिबुद्धित्वेन हेतुता 'अयं घट एकः' इति बुद्धितोऽपि द्वित्वोत्पत्त्यापत्तेः, नापि नानैकत्वावगाहिबुद्धित्वेन 'अयमेकश्चिरविनष्टो घटश्चैकः' इति बुद्धितोऽपि तदापत्तेः, तथापि द्वित्वादिजनकतावच्छेदिका मानसत्वव्याप्या नाना जातयो वाच्याः, अन्यथा कदाचिद् द्वित्वं, कदाचिञ्च त्रित्वमिति नियमो न स्यात् । न च स्मृतित्वव्याप्यत्वमेव तासां न कुत इति वाच्यम् , यद्यक्तिविशेष्यकैकत्वस्मरणं कस्यापि न जातं तत्र स्मरणानुभवकार्य
द्वित्वभेदस्य देवदत्तीयाद्यपेक्षाधुद्धिजन्यद्वित्वभेदस्य च कारणत्वं कल्पनीयमिति गौरवमित्यर्थः। तादात्म्यमिति-चैत्रीया पेक्षावुद्धिजन्य द्वित्वं तादात्म्येन चैत्रीयापेक्षाबुद्धिजन्यद्वित्व एव वर्तते, न तु मैत्रीयापेक्षाबुद्धिजनितद्वित्वे इति तद्रूपकारणा भावान चैत्रीय द्वित्वप्रत्यक्षं द्वित्वनिष्ठविषयतासम्बन्धेन मैत्रीयापेक्षावुद्धिजन्यद्वित्वे समुत्पद्यत इति । 'अत एवं' इत्यस्य 'न क्षतिः' इत्यनेनान्वयः, अत एव चैत्रीयद्वित्वप्रत्यक्ष प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वेन हेतुत्वकल्पनलक्षद्वितीयकल्पस्थाऽऽदरणादेव । चैत्र-मैत्रेति- यदैव चैत्रस्य 'घटश्चैकः पटश्चैकः' इत्यपेक्षाबुद्धिस्तदैव मैत्रस्यापि 'घटश्चैकः पटश्चैकः' इति तत्समानविषयाऽपेक्षाबुद्धिः, ताभ्यामुत्पादितं घट-पटगत द्वित्वमेकमेवेति मते द्वित्वनिष्ठविषयतासम्बन्धेन चैत्रीयप्रत्यक्षे मैत्रीयापेक्षाबुद्धिजन्यद्वित्वादिभेदस्थ कारणत्वमिति प्रथमकल्पे द्वित्वनिष्ठविषयतासम्बन्धेन चेत्रीयप्रत्यक्षं चैत्रीयापेक्षाबुद्धिजन्यद्वित्वे समुत्पद्यते, तच द्वित्वं मैत्रीयापेक्षाबुद्धिजन्यद्वित्वरूपमपीति तद्भेदस्य तत्रासत्त्वाच्चैत्रस्यापि तत्प्रत्यक्षं न स्यादिति दोषो न भवति, चैत्रीयद्वित्वप्रत्यक्षं द्वित्वनिष्टविषयतासम्बन्धेन चैत्र-मैत्रापेक्षाधुद्धिद्वयजनितद्वित्वे वर्तते, तत्र तादात्म्यसम्बन्धेन चैत्रापेक्षाबुद्धिजन्यं तदेव द्वित्वं समस्तीति, एवं कल्पनायां नैयायिकस्य मते प्रभाकरमतापेक्षयाऽधिकं गौरवमित्यर्थः। समाधत्ते-नेति । तद्गौरवस्य नैयायिकमतेऽनन्तरदर्शितगौरवस्य । फलमुखत्वेनेति- व्यङ्गयत्वपक्षे अपेक्षाबुद्धबित्वप्रत्यक्षत्वं कार्यतावच्छेदकम् , जन्यत्वपक्षे द्वित्वत्वमपेक्षाबुद्धेः कार्यतावच्छेदकमिति लाघवाजन्यत्वपक्षव्यवस्थितौ तत्र यस्यैवापेक्षाबुद्धद्या जन्यं यद् द्वित्वं तत्पुरुषस्यैव तद्वित्वप्रत्यक्षं नान्यपुरुषस्येत्येतदर्थ कल्पनीयस्य निरुक्तगौरवस्य फलमुखत्वेनादोषत्वादित्यर्थः । द्वित्वादिकं प्रति अपेक्षाबुद्धर्यत् कारणत्वं तदवच्छेदकनिर्वचनाय विचारमारभते-यद्यपीत्यादिना । द्वित्वं प्रत्यपेक्षाबुद्धेरेकत्वावगाहियुद्धित्वेन कारणत्वस्य प्रतिक्षेपे हेतुमुपदर्शयति- 'अयं घट एकः' इतीति । नापीतिद्वित्वादिकं प्रत्यपक्षाबुद्धे नेकत्वावगाहिबुद्धित्वेन कारणत्वे 'अयं घट एकः' इति बुद्धे नेकरवावगाहिबुद्धित्वाभावात् कारणास्वाभावेन न ततो द्वित्वोत्पत्त्यापत्तिः, परन्तु 'अयमेकश्चिरविनष्टो घटश्चैकः' इति बुद्धेर्निरुक्ककारणावच्छेदकाक्रान्ताया द्वित्वोत्पत्त्यापत्तेन नानकत्वावगाहिबुद्धित्वेनापेक्षाबुद्धः कारणत्वमित्यर्थः । तथाऽपि एकत्वावगाहिबुद्धित्वेन नानकत्वावगाहिबुद्धित्वेन वाऽपेक्षाबुद्धेः कारणत्वाऽसम्भवेऽपि । द्वित्वादीति-आदिपदात् त्रित्वादीनामुपग्रहः, तथा द्वित्वजनकतावच्छेदिकापेक्षाबुद्धिगता मानसत्वव्याच्या जातिरेका, तदन्या त्रित्वजनकतावच्छेदिका, तदन्या च चतुष्टजनकतावच्छेदिकेत्येवमपेक्षाबुद्धिगता मानसत्वव्याप्या नानाजातयो वाच्या इत्यर्थः । अन्यथा एकैवापेक्षाबुद्धिगता मानसत्वव्याप्या जातित्विादिकारणतावच्छेदिकेत्येवमुपगमे । कदाचिदिति- 'घटवैकः पटश्चैकः' इत्येवमपेक्षाबुद्धयनन्तरकाले द्वित्मुत्पद्यते. 'घटश्चैकः पटश्चैको मठश्चैकः' इत्येवमपेक्षाबुद्धथनन्तरकाले त्रित्वमुत्परत इत्येवं नियमो न स्यात् , येव द्वित्वकारणतावच्छेदिका मानसत्वव्याप्यजातिः ‘घटश्चैकः पटश्चैकः' इति बुद्धौ वर्तते सैव त्रित्वकारणतावच्छेदिकाऽपोति तद्रपेण द्वित्वकारणापेक्षाबुद्धेरेव त्रित्वं प्रति कारणीभूताथा अपि सत्त्वाद् द्वित्वोत्पत्तिकाले त्रित्वोत्पत्तिरपि स्यादित्यर्थः । ननु भवन्तु जातयो द्वित्वादिजनकतावच्छेदिका अपेक्षाबुद्धिगता विभिन्नाः, तासां स्मृतित्वव्याप्यत्वमेव कुतो नाङ्गीक्रियते ? इत्याशङ्कय प्रति क्षिपति-न चेतिअस्य ‘वाच्यम्' इत्यनेनान्वयः । तासां द्वित्वादिजनकतावच्छेदकजातीनाम् । निषेधे हेतुमाह-यद्वयक्तीति-द्वित्वादिजनकतावच्छेदकजातीनां स्मृतित्वव्याप्यत्वे स्मरणात्मकापेक्षाबुद्धित एव द्वित्वाद्युत्पत्तिने ज्ञानान्तरादिति ययक्तिविशेष्यकैकत्वस्मरण कस्यापि प्रमातुने जातं तस्यक्तिगतद्वित्वादिकं कथमुत्पद्यतेति तदर्थ तद्यक्तिविशेष्यकैकत्वानुभव-तत्समरणयोः कार्य-कारण