________________
२८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
%A4
कारणभावकल्पने संस्कारव्यवधानेन क्षणविलम्बे च गौरवात् , स्मृतित्वव्याप्यत्वेऽपि स्मरणात्मकैकत्वबुद्धिकल्पनाक्षणे मानसोत्पत्तो बाधकाभावाद् उपनायकज्ञानघटितसामग्रीसत्त्वात् , मानसं प्रति तत्तत्स्मृतिसामग्र्या प्रतिबन्धकत्वकल्पने च महागौरवात् । सन्तु वा 'वाक्षुषत्वादिव्याप्या नाना जातयः, द्वित्वादी मानाभावाद् [न च द्वित्वादी मानाभावः] 'द्वौ त्रयः' इत्यादिविलक्षणबुद्धेः प्रकारभेदं विनाऽसम्भवात् , अन्यथा सर्वत्र विषयनिरपेक्षेरेव ज्ञानस्तत्तद्व्यवहारजननप्रसङ्गात् । न च 'द्वौ' इत्याद्धिबुद्धे. विजातीयज्ञानं विषयः, अचाक्षुषत्वापत्तेः । न च 'इमो द्वौ मधुपौ,' 'एते त्रयः कमल-कल्हार-कलहंसाः' इत्यादौ युगपदेव द्वित्व-त्रित्वप्रतीति(त्ते)रेकत्र बुद्धौ द्वित्वजनकतावच्छेकजात्युपगमे त्रित्वजनकतावच्छेदक"जात्यभ्युपगमे च] जातिसंकरप्रसङ्ग इति वाच्यम् , द्वित्व-त्रित्वोत्पादकापेक्षाबुद्ध्योरुत्पादे सूक्ष्मकाल
भावः कल्पनीयः, संस्कारं विना न स्मरणमित्यनुभवात् संस्कारः कल्पनीयः, तथा च तस्यक्तिविशेष्यकैकत्वप्रकारकानुभवतत्प्रभवसंस्कार-तजन्यतव्यक्तिविशेष्यकैकत्वप्रकारकस्मरणलक्षणापेक्षाबुद्धितस्त गतद्वित्वाद्युत्पत्तिरितीत्थं क्षणविलम्बश्च कल्पनीय इत्येवं गौरवान तासां स्मृतित्वव्याप्यत्वम्, किन्तु मानसत्त्वव्याप्यत्वमेवेत्यर्थः । यदा चैकत्वस्य स्मृतिस्तदानीमपि तस्य मानसं बाघकाभावात् सम्भवत्येव शानलक्षणप्रत्यासत्तेस्तन्मानसप्रत्यक्षकारणीभूतायाः सत्त्वे तद्धटितसामन्याः सत्त्वादिति किमिति तस्यैव न द्वित्वादिकारणस्वं ? येनानुभव-संस्कार-स्मरणादिकल्पनाप्रयुक्तगौरवमपि परिहतं भवतीत्याह-स्मृतित्वव्याप्यत्वेऽपीति । उपनायकज्ञानेति-- ज्ञानलक्षणप्रत्यासत्तीत्यर्थः । ननु मानसं प्रति तत्तत्स्मृतिसामग्री प्रतिबन्धिकेति न तद्विषयकस्मृतिकाले तद्विषयकमानससम्भव इत्यत आह-मानसं प्रतीति-बहिरिन्द्रियजन्यप्रत्यक्षसामग्याः सर्वतो बलवस्थात् सैव स्मृतिप्रतिबन्धिका, न तु चाक्षषादिकं प्रति स्मृतिसामग्री प्रतिबन्धिकेति द्वित्वादिजनकतावच्छेदिकाश्चाक्षुषत्वादिव्याप्या जातय एव नाना सन्तु, ततोऽपि कदाचिद् द्वित्वं, कदाचित् त्रित्वमिति नियमोपपत्तिर्भविष्यतीत्याह- सन्तु घेति । ननु द्वित्वादिरेव नास्ति, एकत्वद्वयमेव द्वित्वमेकत्वत्रयमेव त्रित्वमित्यादिकल्पनयैवोपपत्तरित्याशय प्रतिक्षिपति-न चेति । 'द्वित्वादी मानाभावात्' इति स्थाने 'न च द्वित्वादौ मानाभावः' इति पाठो युक्तः, 'अयमेकोऽयमेकः' इति ज्ञानानन्तरम् , 'इमौ द्वौ' इति ज्ञानमुपजायते, न च तत्रैकत्वयादिकमवभासते, न च विषयवैलक्षण्यं विना 'द्वाविमौ, त्रय इमे इत्यादिप्रतीतिवैलक्षण्यसम्भव इति ताशप्रतीतिवलक्षण्यान्यथानुपपत्तिरेव द्वित्वादी मानमिति निषेधहेतमपदर्शयति'द्वौ त्रयः' इति । अन्यथा विषयवैलक्षण्याभावेऽपि प्रतीतिवैलक्षण्याभ्युपगमे । अचाक्षुषत्वापत्तेरिति-ज्ञानस्य चक्षुरिन्द्रियायोग्यत्वेन विजातीयज्ञानस्य द्वित्वादिस्थानाभिषेके तस्य चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं न स्यादित्यर्थः। नन्वेकदैव द्वित्व-त्रित्वप्रतीतिर्भविष्यति यत्र तत्र द्वित्व-त्रित्वयोरेकैवापेक्षाबुद्धिः कारणमिति तस्यामपेक्षायुद्धौ द्वित्वजनकतावच्छेदकबैजात्यवत् त्रित्वजनकतावच्छेदकवैजात्यमपि स्वीकरणीयं स्यात् , तथा च जातिसङ्करप्रसङ्ग इत्याशय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । द्वित्वजनिकाऽपेक्षाबुद्धिरम्या, अन्या च त्रित्वजनिकाऽपेक्षाबुद्धिः, तयोश्च क्रमणोत्पत्तिर्भवति, व्यवधायककालस्याऽतिसौम्याच कालभेदो नाऽवभासत इति नैकत्र जातिद्वयमिति न सार्यमिति निषेधहेतुमुपदर्शयति-द्वित्व-त्रित्वोत्पादकेति । सूक्ष्मकालभेदानुपलक्षणेन यौगपद्याभिमाने निदर्शनमुपदर्शयति-गिरिरयमिति- नाककल्पना भद्रा, 'गिरिरयं वह्निमान्' इति ज्ञानस्यानुभाविकरूपत्वात् 'अहं तज्झानवान्' इति ज्ञानस्य प्रत्यक्षरूपत्वादिति । स्पष्टप्रतिपत्त्यर्थमुक्तम्- अनुमिति-प्रत्यक्षयोरिवेति । ननु समानविषये प्रत्यक्षानुमितिसामग्र्योः सत्योः प्रत्यक्षमेवोपजायते नानुमितिरिति समानविषयकप्रत्यक्षसामग्री समानविषयानुमिति प्रति प्रतिबन्धिका कल्प्यते. भिन्नविषये प्रत्यक्षा-ऽनुमितिसामग्योः समवधाने तु भिजविषयिकानुमितिरेवोपजायत इति भिन्नविषयकप्रत्यक्षं प्रति भिन्नविषयकानुमितिसामग्री प्रतिबन्धिका, अतः प्रकृते भिनविषयकानुमितिसामग्रीतः पूर्व भिन्नविषयकानुमितिः, ततः प्रत्यक्षसामप्रीतः प्रत्यक्षमिति क्रमेणैव तयोरुत्पादो न तु युगपत् , प्रकृते तु द्वित्व-त्रित्वयोः प्रत्यक्षमेव, तत्कारणीभूताऽपेक्षाबुद्धिरपि प्रत्यक्षात्मिकैवेति युगपदेकैव द्वित्व-त्रित्वप्रतीतिरेकैव द्वित्व-त्रित्वयोः कारणमपक्षाबुद्धिः किं न स्यादिति शहते- अथेति ।