________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
मपेक्षाबुद्धिजन्यं द्विष्ठमन्यदेवेति न दोष इति चेत् ? न उक्तविषयतारूपद्वित्वादेरप्येकत्वपर्याप्तत्वात्, तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया अपि कचित् संबन्धादिभेदेन प्रकारताभेदादेकस्या अभावात्, भावेऽपि च द्वयस्य प्रत्येकानतिरिक्तत्वेन एकधर्मावच्छेदेन द्वित्वादिपर्याप्तिप्रसङ्गात्, धर्मगतद्वित्वस्यैव तत्पर्यात्यवच्छेदकतावच्छेदकत्वस्वीकारे च तत्रापि द्वित्वस्य वास्तवस्याभावाद् रूपत्व-रसत्वादिप्रकारकबुद्धिविषयत्वरूपस्यैव गौणस्य स्वीकारे च तत्पर्यात्यवच्छेदकादिगवेषणेऽनवस्थितेः, वास्तवद्वित्वाद्यभावे ज्ञानाकारतापर्यवसानेन साकारवादप्रसङ्गाच्च । तस्माद् द्रव्यत्वावच्छिन्नैकत्वादेः पर्याप्तिस्वीकारेऽनेकान्तवाद एवानाविला व्यवस्थेति ध्येयम् । अत एव " दव्त्रयाए एगे अहं नाण-दंसणट्टयाए दुवे अहं " इत्यादि परमर्षम् ।
२४
तत्तद्धर्माविच्छेदेन पर्याप्तमिति यद्यद्धर्मप्रकार कबुद्धिविषयत्वादिरूपं द्वित्वादि तत् तत्तद्धर्मावच्छेदेन पर्याप्तम् । इति एतस्मात् कारणात् । न 'एको द्वौ' इति प्रसङ्ग इति उक्तद्वित्वस्यैकत्वाद्यवच्छेदेनापर्याप्तत्वाद् 'एको द्वौ, घटोऽयं द्वौ' इत्यादेर्न प्रसङ्गः, तद्रूपवत्त्व-तदसवत्त्वप्रकार कबुद्धिविषयत्वरूपस्य द्विस्वस्य तद्रूपवत्त्व-तदसवस्वावच्छेदेन पर्याप्तत्वात् 'तद्रूपतद्रसवतो:' इति द्विवचनप्रयोग उपपद्यत इत्यर्थः । 'मुख्यं तु द्वित्वम्' इत्यत्र द्वित्वं त्रित्वादेरुपलक्षणम्, 'द्विष्ठम्' इति च त्रिष्टमित्यादेरुपलक्षणम् । अन्यदेव तत्तद्धर्मप्रकार कबुद्धिविषयत्वादितो भिन्नमेव । समाधत्ते नेति । उक्तविषयतारूपेति- तत्तद्धर्मप्रकार कबुद्धिविषयतारूपेत्यर्थः । 'अप्येकत्वपर्यासत्वाद' इति स्थाने 'अप्येकत्र पर्याप्ततवाद्' इति पाठ युक्तः, 'एकत्र पर्याप्तत्वाद्' इत्यस्यैकत्वावच्छेदेनैकधर्मावच्छेदेन वा पर्याप्तत्वादित्यर्थः तथा च 'एको द्वौ, घटो हौ' इत्यादिप्रसङ्गः स्यादिति भावः । ननु तद्रूपवत्त्वप्रकारतानिरूपितत्वे सति तद्रसवश्वप्रकारतानिरूपिता या विशेष्यता तदात्मकविषयतारूपद्वित्वमेकं तद्रूपवत्त्व - तद्रसवत्त्वरूपधर्मद्वयावच्छेदेनैव पर्याप्तम्, न त्वेकत्वावच्छेदेनैकधर्माविच्छेदेन वेति न 'एको द्वौ ' इत्यादेः प्रसङ्ग इत्यत आह- तत्तद्धर्मेति- धर्मद्वयादौ प्रकारता यद्येका स्यात् तदा तन्निरूपितविशेष्यताविशेषरूपाया विषयताया ऐक्यं स्यादू, यदा त्ववच्छेदकधर्म मेदादवच्छेदकसम्बन्धमेदाच्च प्रकारताया भेदस्तदा तद्रूपनिरूपकभेदादू विशेष्यताभेदस्यावश्यम्भावे तदात्मकविषयताया अपि भेद इति तद्रूपद्वित्वस्यैकधर्मावच्छेदेनैकत्वावच्छेदेन च पर्याप्तत्वाद् 'एको द्वौ' इत्यादेः प्रसङ्गः स्यादेव एवं निरूपकभेदेऽपि विषयताभेदो यदि नाभ्युपेयते तदाऽपि समुदायस्य समुदाय्य नतिरिक्तत्वमिति धर्मद्वयस्य प्रत्येकधर्मानतिरिक्तत्वेन धर्मद्वयस्यावच्छेदकत्वे प्रत्येक धर्म स्याप्यवच्छेकत्वमिति प्रत्येकधर्मावच्छेदेनापि द्विवपर्याप्तः सम्भवेनोक्तप्रसङ्गः स्यादेवेत्यत उक्तदोषभयाद् गौण - मुख्यद्वित्वव्यवस्थाऽपि परस्य न युक्तेति मुकुलितोऽर्थः । तत्तद्धर्मेति- तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया अप्येकस्या अभावादित्यन्वयः, 'तद्दण्ड- तद्रूपवतोरैक्यम्' इत्यादाववच्छेदकसम्बन्धभेदो ज्ञेयः । 'भावेऽपि च' इत्यस्य तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया एकस्या भावेऽपि चेत्यर्थः । ननु धर्मद्वयस्य न स्वस्वासाधारणरूपेण निरुक्तद्वित्वपर्यात्यवच्छेदकत्वं किन्तु द्वित्वेनैवेति पर्याप्त्यच्छेदकतावच्छेदकस्य द्वित्वस्य प्रत्येकधर्मेऽभावान्न प्रत्येकधर्मावच्छेदेन द्वित्वस्य पर्याप्तत्वमिति नोक्तप्रसङ्ग इत्यत आह- धर्मगतद्वित्वस्यैवेति । तत्पर्याप्त्यवच्छेदक तेति- निरुक्तद्वित्वपर्यात्यवच्छेदकतत्यर्थः । तत्रापि रूपरसादिलक्षणधर्मद्वयेऽपि । रूप- रसादीनां गुणत्वेन गुणे गुणानङ्गीकारेण गुणविशेषसङ्ख्य रूप द्वित्वस्य वास्तवस्य तत्राभावादित्याह - द्वित्वस्य वास्तवस्या - भावादिति । तत्पर्याप्तावच्छेद के ति- रूपत्व - रसस्वादिप्रकारक बुद्धिविषयत्वरूपरूप रसादिगत गौणद्वित्व पर्याप्यवच्छे केत्यर्थः, तादृशद्वित्वस्य रूपत्व- रसत्वादिधर्मद्वयावच्छेदेन पर्याप्तत्वे उक्तदिशा प्रत्येकधर्मावच्छेदेन पि पर्याप्तत्वतो निरुक्तदोषप्रसङ्गस्तदवस्थ इति तत्परिहाराय रूपत्व- रसत्वगत द्वित्वमभ्युपेत्य तस्य तत्पर्यात्यवच्छेदकतावच्छेदकत्वमुररीकरणीयमित्येवं दिशाऽनवस्थाप्रसङ्गादित्यर्थः । यदि च तद्रूप-तहसवतोरैक्यम्' इत्यादौ द्विवचनाद्यर्थतया वास्तवद्वित्वादिकं न स्वीक्रियते तर्हि तत्रत्यद्विवचनाद्यर्थस्य द्वित्वादेर्ज्ञानाकाररूपत्वमेव स्यादिति साकारविज्ञानवाद: प्रसज्येतेत्याह- वास्तवद्वित्वाद्यभाव इति । उपसंहरति-तस्मादिति । 'द्रव्यत्वावच्छिन्नैकत्वादेः पर्याप्तिस्वीकारे' इति स्थाने 'द्रव्यत्वाद्यवच्छिन्नैकत्वादिपर्याप्तिस्वीकारे' इति पाठः सम्यक्, एकस्मिन् घंटे तद्रव्यत्वावच्छेदेनैकत्वस्य पर्याप्तिः, तद्रूप-तद्रसवस्वावच्छेदेन द्वित्वस्य पर्याप्तिरित्येवं स्वीकार इत्यर्थः । उक्तार्थे आगमवचनसंवादमाह अत एवेति । दषटु० - "द्रव्यार्थतया एकोऽहं ज्ञानदर्शनार्थतया द्वावहम्” इति संस्कृतम् ॥