________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
siबन्धाभ्यां भेदः, तथा स्वसमय-परसमयस्थविचित्रनयानां प्रमाणवाक्यान्तर्भाव बहिर्भावाभ्याम्, तौ च पदार्थवाक्यार्थादिभावेन साकाङ्क्षतया स्वातन्त्र्येण निराकाङ्क्षतया चेति न जातिभेदानुपपत्तिः, स्वसमयनयेषु निराकाङ्क्षप्रमाणबोधपर्यवसानेन तदत्यन्तोत्कर्ष रूप केवलज्ञान फलोद्देशः, परसमयनयेषु च उक्तभावनामात्र फलोद्देश इति फलतोऽपि भेदो व्यक्त एवेति सर्वमवदातम् ।
२३
"
ननु यद्येवं नयार्थी आपेक्षिकास्तदा अवयव्येकत्वमपि द्वित्वादिवद् बुद्धिजन्यमेव स्यात्, उभयमपि वा ज्ञानाकारमात्रमिति चेत्, न- एकत्वद्वित्वादीनामनन्तानां संख्यापर्यायाणामेकद्रव्यवृत्तीनामेव सतां यथाक्षयोपशमं बुद्धिविशेषेण प्रतिनियतानामेव ग्रहणमित्यभ्युपगमात् युक्तं चैतत्, अन्यथा एकत्रैव घटे ' तद्रूप - तद्रसवतोरैक्यम्' इत्यादिना द्विवचनप्रयोगस्य, बहुपु च करि तुरग-रथ-पदातिषु 'सेना' इत्येकवचनप्रयोगस्यानुपपत्तेः । अथैकत्वद्वित्वादि तत्तद्धर्मप्रकारकबुद्धिविषयत्वादिकं गौणमेव द्वित्वादिव्यवहारनिमित्तम्, तश्च तत्तद्धर्मावच्छेदेन पर्याप्तमिति न 'एको द्वौ ' इत्यादेः प्रसङ्गः, मुख्यं तु द्वित्ववाक्यान्तर्भूतत्वम्, परसमयस्थ विचित्रनयानां प्रमाणवाक्य बहिर्भूतत्वमित्येवं स्वसमय पर समयस्थनयानां विशेष इत्यर्थः । यदा च प्रमाणवाक्यान्तर्भाव - वहिर्भावाभ्यां स्वसमय पर समयस्थविचित्रनयानां भेदो व्यवस्थितो भवति तदा जातिभेदोऽपि तेषां सूपपादः, यतः सप्तमभङ्गचात्मक प्रमाणवाक्यान्तर्भूतं च नयवाक्यं प्रमाणवाक्यार्थाश प्रतिपादकत्वात् पदस्थानीयं तदर्थस्य पदार्थान्तरसाकाश्वम्, प्रमाणवाक्यबहिर्भूतं च नयवाक्यं स्वतन्त्रत्वाद् वाक्यमेव तदर्थस्य निराकाङ्क्षत्वमित्येवं प्रमाणवाक्यान्तर्भूत प्रमाणबहिर्भूतौ पदार्थ वाक्यार्थभावेन साकाङ्क्षतया स्वातन्त्र्येण निराकाङ्क्षतया च विभिन्नजातीयाविति न जातिभेदानुपपत्तिरित्याह- तौ चेति- प्रमाणवाक्यान्तर्भाववहिर्भावौ चेत्यर्थः । एतावता जातितो भेदास्योपपादनेन स्वसमयस्थनयवाक्यानां जातितः शुद्धि:, परसमयस्थनयवाक्यानां जातितोऽशुद्धिः समर्पिता । इदानीं फलभेदोपपादनद्वारा फलतः शुद्ध्यशुद्धी उपदश्यते-- स्वसमयमयेष्विति । तदत्यन्तोत्कर्षरूपेति- निराकाङ्क्षप्रमाणबोधात्यन्तोत्कर्षरूपेत्यर्थः । उक्तभावनेति - उक्तानित्यस्वभावना-निरुक्तकत्वभावनेत्यर्थः ।
नयार्थानामापेक्षिकत्वमसहमान: परः शङ्कते - नन्विति । एवम् उक्तप्रकारेण । द्वित्वादिवदिति- आदिपदात् त्रित्वादिपरार्धपर्यन्तसङ्ख्यानां परिग्रहः, “द्वित्वादयः परार्द्धान्ता अपेक्षा बुद्धिजा मता:" । [ कारिकावलिश्लो० १०७ ] इति नैयायिकसिद्धान्ताद् यथा द्वित्वादिकमपेक्षाबुद्धिजन्यं तथाऽवयव्यैकत्वमप्यपेक्षाबुद्धिजन्यं स्याद् आपेक्षिकत्वस्येत्थमेवोपपत्तेरित्यर्थः । अपेक्षा वैज्ञानिकसम्बन्धरूपतयेष्टा, वैज्ञानिकसम्बन्धश्च विज्ञानजन्यत्वाद् विज्ञानाकाररूपत्वाद् वा सम्भवतीति तत्र विज्ञानजन्यत्वेनापेक्षिकत्वमापाद्य विज्ञानाकाररूपत्वेन तदापादयति- उभयमपि वेति- अवयव्येकत्व-द्वित्वाद्युभयमपि वेत्यर्थः, एकत्वद्वित्वादयः सर्वेऽपि सङ्ख्यापर्याया अनन्ता अप्येकत्र द्रव्ये सम्भवन्ति, परं तेषां मध्यात् प्रतिनियतानामेव तत्र सताम्, यथाक्षयोपशमं बुद्धिविशेषणम् क्षयोपशमापेक्षबुद्धिविशेषग्राह्यत्वमपि वैज्ञानिकसम्बन्ध एवेत्येतावताऽऽपेक्षिकस्वसुपपद्यत इति समाधत्ते नेति । एकचैव द्रव्ये एकत्व द्वित्वादिकं समस्त्येव, अपेक्षया तु प्रतिनियतानां प्रहणमित्यस्य युक्तत्वं व्यवस्थापयति- युक्तं चैतदिति । अन्यथा अनन्तानां सङ्ख्यापर्यायाणामेकद्रव्यवृत्तित्वाभावे । द्विवचनप्रयोगस्य ' तद्रूप तद्रसवतो:' इति षष्ठीद्विवचनप्रयोगस्य 'अनुपपत्तेः' इत्यनेनान्वयः, ययेकस्मिन् घटे एकत्वमेव न द्वित्वं तदा तद्रूपवान् य एवं घट स एव तद्वसवानपीति तस्यैकत्वेन द्वित्वार्थस्य तत्राघटमानत्वेन तदर्थकस्य द्विवचनप्रयोगस्यानुपपत्तेरित्यर्थः । ' इत्यादिना' इत्यादिपदात् तद्रूप-तस तत्स्पर्शचतामैक्यम्' इत्यादिप्रयोगस्यापि ग्रहणेन तत्रत्यबहुवचन प्रयोगस्याप्येकस्मिन् बहुत्वस्याभावेऽनुपपत्तेरित्यपि बोध्यम् । बहुषु चेति सेनापदेन बहूनां करितुरग पदातीनामेवावबोधनम्, नत्येकः कर्येव तुरगादिरेव वा प्रत्येकं सेनेत्युच्यते, तथा च सेनापदप्रतिपाद्यानां बहूनां करितुरग पदातिप्रभृतीनामेकत्वस्याभावे तदर्थकस्य सेनापदोत्तरैकवचनस्यानुपपत्तेरिति यत्रैकत्वं तत्र द्वित्वादिकमपि यत्र द्वित्वादिकं तत्रैकत्वमपि यथाक्षयोपशमं च बुद्धिविशेषेण प्रतिनियतस्य ग्रहणमेष्टव्यम्, तदेवाऽऽपेक्षिकत्वमित्यर्थः । एकस्मिन् द्रव्ये मुख्यं द्वित्वादिकमसहमानो नैयायिकः शङ्कते - अधेति- 'एकत्व-द्वित्वादि' इति स्थाने 'एकत्र द्वित्वादि' इति पाठो युक्तः, एकत्र द्वित्वादिव्यवहारनिमित्तं तत्तद्धर्मप्रकारक बुद्धिविषयकत्वादिकं गौणमेव द्वित्वादीत्यन्वयः । तच्च ततद्धर्मप्रकार कबुद्धिविषयस्वादिरूपं द्वित्वादि च ।
<