________________
२२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
"ऐदम्पय्यं शुद्ध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित् स्यादन्यथाग्रहणात् ॥ १ ॥ तत्रापि च न द्वेषः कार्यों विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं सर्व यत् प्रवचनादन्यत्" ॥२॥ इति ।
नन्वेवं स्वसमयवाक्येभ्यः परसमयवाक्यानां को विशेषः ? फलतो जातितश्च शुद्ध्यशुद्ध्योरविशेषात्, नहि ज्ञान-दर्शन-लिङ्ग-चारित्रादिवादेषु स्वसमये स्थितपक्षोऽपि स्वविषये प्राधान्यं विदधानः, ज्ञानादिनयविषये च तनिराकुर्वाणो जात्या शुद्धत्वमङ्गीकुरुते, तथा च स्थितपक्षवचनम्
" जम्हा दंसण-नाणा संपुण्णफलं न दिति पत्तेयं ।
चारित्तजुआ दिति उ विसिस्सए तेण चारित्तं " ॥ १ ॥ति !
अत्र हि ज्ञानादिनयेनैतद् वक्तुं शक्यम्- यथा त्वया संपूर्णफलप्रापकत्वेन चारित्रमुत्कृष्यते तथा मया तदुपनायकत्वेन " दासेन मे०" [ नयोपदेश-५५ ] इत्यादिन्यायात् व्यापारतया चारित्रान्यथासिद्ध्यापादानाच ज्ञानादिकमेवोत्कर्षमारोपणीयम्' इति, विजम्भितं चेदमध्यात्ममतपरीक्षायां बहुधाऽस्माभिः, तथा च प्राधान्यस्याप्यव्यवस्थितत्वात् कुत्र केन नयेन जात्या व्यवस्थेयम् ?, फलतः शुद्धिस्तु स्व-परसमयोरविशिष्टेति चेद् ? अत्रास्माकमाभाति-यथा देश-प्रदेश-खण्ड-परमावादेः स्कन्धसंबन्धा
उक्तार्थे श्रीहरिभद्रसूरिवचनं प्रमाणयति-तदाहुरिति । यत्र यस्मिन्नागमे स्त्रसमये परसमये वा, ऐदम्पर्य तात्पर्यम् , शुद्धयति सम्यक्तयोपपद्यते , असावागमः स्वीयः परकीयो वा, सुपरिशुद्धः प्रमाणवाक्यमित्यर्थः, तदभावे शुद्धदम्पर्याभावे, ऐदम्पर्य तु विद्यत एव परं तच्छोधनं न जातमिति यावत् , अन्यथाग्रहणात् अन्यप्रकारेण स्थितस्याथेस्यान्यप्रकारेण प्रणात्, कश्चिद् आगमैकदेशः स्यात् । तत्रापि तस्मिन्नप्यागमैकदेशे क्षणिकत्वाद्येकैकधर्ममात्रप्रतिपादके, द्वेषो न कार्यः 'एकान्तप्रतिपादकत्वान्नायमुपादयः' इत्येवं न विधेयः, तु पुनः किन्तु, यत्नतः तात्पर्यान्वेषणतो विषयो मृग्यः सम्यक्तात्पर्यमाकलय्यास्याऽऽसमस्यायमों युक्त्युपपन्नत्वाद् ग्राह्योऽयं तु युक्त्या न घटतेऽतो न ग्राह्य इत्येवं परिभावनीयः, यत् प्रवचनाद जैनागमात्, अन्यत् तीर्थान्तरीयम् , तस्यापि सर्व वचनं न सत्, किन्तु यत्र तात्पर्याथों घटते तत् सद् वचनम् , यत्र तात्पर्यो न घटते न तत् स द्वच मित्येवं विवेक
शङ्कते-नन्वेवमिति । 'नहि' इत्यस्य 'शुद्धत्वमङ्गीकुरुते' इत्यनेनान्वयः । तन्मिराकुर्वाणः प्राधान्य निराकुवणिः। 'स्थितपक्षोऽपि जात्या शुद्धत्वं नाङ्गीकुरुते' इत्येव स्थितपक्षवचनमुद्भाव्य समर्थयति-तथा चेति । "जम्हा०' इति"यस्माद् दर्शन-ज्ञाने सम्पूर्णफलं न दत्तः प्रत्येकम् । चारित्रयुक्त दत्तस्तु विशिष्यते तेन चारित्रम्" इति संस्कृतम् । 'चारित्रयुक्त ज्ञान-दर्शने सम्पूर्ण फलं दत्तः' इत्येतावता चारित्रस्य ज्ञान-दर्शनाभ्यामुत्कृष्टत्वमनेन वचनेन प्रतिपादितम्, तत्रोक्तदिशा प्राधान्यस्योररीकारे तस्याव्यवस्थितत्वमेव स्यादित्येतत् प्रकटयति-अत्रेति-उक्तरीत्या चारित्रस्योत्कृष्टत्वे इत्यर्थः । त्वया चारित्रप्राधान्यवादिना । मया ज्ञानादिप्राधान्यवादिना । तदुपनायकत्वेन ज्ञानाद्यपनायकत्वेन, सम्यग्ज्ञान-दर्शनयोर्भाव एव चारित्रं समीचीनं सत् फलमुपजनयतीति चारित्रं व्यापारभूतमेव व्यापारिणी ज्ञान-दर्शने उपनाययतीत्यतो ज्ञान-दर्शने एव फलं प्रति प्रधान कारणम् , चारित्रं तु तव्यापारतयाऽन्यथासिद्धमेवेत्येवं ज्ञानादिकमेवोत्कर्षपदमारोपणीयं मया, यथा-दासद्वारा कीते खरे स्वामिन एव प्राधान्यमित्यर्थः । दासेन मे० इति-"दासेन में खर: क्रीतो दासो मम खरोऽपि मे" इति सम्पूर्णन्यायस्वरूपम् । श्रीमद्भिर्यशोविजयोपाध्याय रेतद्विषये विशेषजज्ञासून स्वकृताध्यात्ममतपरीक्षावलोकनमावश्यकपद्धतावानेतुमुपदिश्यते-विजृम्मितमिति । एवं च प्राधान्यस्याव्यवस्थितत्वाज्जात्या परिशुद्धत्वं न कुत्रापि, फलतस्तु परिशुद्धिः स्वसमय-परसमययोरविशिष्टेति स्वसमयवाक्येभ्यः परसमयवाक्यानां न कश्चिद् विशेष इति शङ्कार्थमुपसंहरतितथा चेति । उक्ताशङ्कायां ग्रन्थकारः स्वसूक्ष्मक्षिकारूढं समाधानमुपदर्शयति-अत्रेति - उक्तशङ्कायामित्यर्थः । अस्माकं यशोविजयोपाध्यायानाम् । आभाति समाधानं प्रतिभासते। देव समाधानमुपदश्यते-यथेति- स्कन्धसम्बद्धो द्विप्रदेशा•दिको देशः स्कन्धसम्बद्धः परमाणु: प्रदेशः, स्कन्धाद् विच्छिन्नश्च द्विप्रदेशादिकः स्कन्धासम्बद्धः खण्डः, स्कन्धात् पृथग्भूतवाऽणुः स्वतकन्धासम्बद्धः परमाणुरित्येवं स्कन्धसम्बन्धाभ्यां यथा देशादेभेदः, तथा स्वसमयस्थ विचित्रनयानां प्रमाण