________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
दृष्टिपरिप्रहेणापि निराकर्तुमशक्यत्वात् , नहि जात्या हलाहलं सद्वैद्यहस्तोपादानमात्रेणामृतायते, रसा. यनीकरणं तु तस्योक्तापेक्षयैवेति दृढतरमवधेयम् । . ननूक्तापेक्षयापि शुद्धर्जुसूत्रादीनामितर नयार्थप्रतिषेधप्रवृत्तौ कथं न दुर्नयत्वम् ? इतरांशीदासीन्य. स्यैव सुनयलक्षणत्वात् , दृश्यन्ते च ते नयाः स्वसमये परसमये च स्वेतरनयार्थबाधेनैव प्रगल्भमाना इत्याशङ्कयाऽऽह-कोट्यन्तरस्य-इतरनयार्थस्य, निषेधः-निराकरणम् , प्रस्तुता या उत्कटकोटिस्तत्कारी, विशिष्टविधेर्विशेषण विश्रामेण प्रस्तुतकोटेरुत्कटत्वकृदित्यर्थः । अयं भावः-यदीतरनयार्थप्रतिषेधो द्वेषबुद्ध्या तदा दुर्नयत्वमेव, यदि चोक्तभावनादायानुकूलस्व विषयोत्कर्षाधानाय तदा सुनयत्यमेव, जात्या दुर्नयस्थापि चिन्ताज्ञानेन फलतः सुनयीकरणात् , भावनाज्ञानेनैदम्पर्यार्थप्रधानकप्रमाणवाक्यैकदेशत्वापादनाच, तदाहुः श्रीहरिभद्रसूरयः षोडशप्रकरणे
सौत्रान्तिक-वैभाषिकयोः, तत्रापि साकार विज्ञानवादः सौत्रान्तिकस्य, साकारं च विज्ञानमर्थ न गृह्णाति, किन्तु ज्ञानगतप्रतिनियताकाराऽन्यथाऽनुपपत्त्या वाह्यार्थकल्पनम् , निराकारविज्ञानवादो वैभाषिकस्य, तन्मते निराकारं ज्ञानं विषयश्च सम. कालमेवेकसामग्योपजायते समानसामग्रीप्रभवयोनि-बाह्याभ्योः समकालीनयोविषय-विषयिभावश्च सम्बन्ध इति, साकारविज्ञानमात्रवादो योगाचारस्य, शून्यमेव तत्त्वमिति वादो माध्यमिकस्येति । प्रतिबिम्बेति-अनेकाऽव्यापकजीववादे बुद्धिरन्त:करणम् , तत्प्रतिबिम्बितं चैतन्यं जीवः, अविद्याप्रतिबिम्बित चैतन्यमीश्वर इति, व्यापकजीववादे मायाऽविद्ययोर्भेदपक्षे मायाप्रतिबिम्बितं चैतन्यमीश्वरः, अविद्याप्रतिबिम्बितं चैतन्य जीव इति, तयोरभेदपक्षेऽविद्याबिम्बत्वाकान्तं चैतन्यमीश्वरः
बत्वाकान्तं चैतन्यमीश्वर इति एवमन्त:करणे यचैतन्यस्याऽऽभासः स जीवः, मायायां चैतन्य स्थाऽऽभास ईश्वर इत्याभासवादः, अन्तःकरणावच्छिन्नं चैतन्य जीव:, मायावच्छिन्नं चैतन्यमीश्वर इत्यवच्छेदकवादः, दृष्टिसृष्टिवादस्तु दृष्टिरेव सृष्टिरिति एक एव जीवो यद् यद् वस्तु यदा पश्यति तदैव तदस्ति, अदर्शनकाले च नास्त्येव तद् वस्तु, इत्येवं बौद्धसिद्धान्ते बाह्यार्थ-ज्ञानादिवादादीनां वेदान्तिसिद्धान्ते च प्रतिबिम्बवादादीनाम् । अन्योऽन्यविप्रतिषिद्धत्वेन परस्परविरुद्धार्थकत्वेन, जात्या स्वभावतः, दुर्नयत्वस्य, सम्यग्दृष्टिपरिग्रहेणापि सम्यग्दृष्टिर्यदि निरुक्तवादानां परिग्रह कुर्यात् तदापि निराकर्तुमशक्यत्वात् तत्तद्धावनोद्देशप्रयुक्तस्वलक्षणमपेक्षात्वमाश्रित्य सम्यग्दृष्टिरक्तवादानां सुनयत्वोपपादनतो दुर्नयत्वं निराकुर्यात् , निरुक्तापेक्षात्वाश्रयणमन्तरेण च तेषां दुर्नयत्वं निराकर्तुमशक्यं सम्यग्दृष्टिपरिप्रहेणापति । उक्तमर्थ दृष्टान्तावष्टम्भेन द्रढयति-नहीति-अस्य 'अमृतायते' इत्यनेन सम्बन्धः। तस्य हलाहलस्य ।
- उत्तरार्द्धमवतारयति-नन्विति । ते नयाः शुद्धर्जुसूत्रादयो नयाः । ननु स्थैर्यस्य निषेधेऽनिषेधे वा बौद्धस्य स्वाभ्युपगतः क्षणिकत्वपक्षः समस्त्येव, यो हि परमतं न प्रतिक्षिपति तस्यापि तद्विपरीतं स्वमतं समस्त्येवेति 'उत्कटकोटि' इत्यत्र विशेष्यीभूता या स्वाभिमतवस्तुस्वरूपा कोटिस्तत्कारित्वमितरनयार्थनिषेधस्य न सम्भवतीत्यत आह-विशिष्टविधेरितियद्यप्यनन्तधर्मात्मके वस्तुनि परस्परविरुद्धमतदयार्थौ कौटिद्वयौ सम्भवतस्तथाऽपि ऋजुसूत्रनयः स्थैर्यखण्डनेन क्षणिकत्वं व्यवस्थापयन् स्वाभिमतस्थ क्षणिकत्वस्योत्कटत्वं विदधातीत्येवं परनयार्थखण्डनं प्रस्तुतकोटेरुत्कटत्वकृदित्यर्थ इति । अस्यैव भावार्थमाविष्करोति-अयं भाव इति। उक्तभावनेति-बौद्धस्यानित्यत्वभावनेति वेदान्तिन एकत्वभावनेत्यर्थः, अनित्यत्वभावनादाानुकूलो यो बौद्धसिद्धान्तविषयस्य क्षणिकत्वस्योत्कर्षः, तदाधानाय - तद्व्यवस्थापानाय सङ्ग्रहादिनयविषयस्य स्थैर्यस्य निराकरणम् , एवमेकत्वभावनादानुकूलो यो वेदान्तसिद्धान्तविषयस्य ब्रह्माद्वैतस्योत्कर्षस्तव्यवस्थापनाय नैयमादिनयविषयस्य द्वैतवादस्य निराकरणं यद्यभिमतं तदा बौद्धादिदर्शनानामपि सुनयत्वमेवेत्यर्थः । जात्या स्वभावेन । दुर्नयरूपस्यापि बौद्धादिदर्शनस्य चिन्ताशानेन 'अस्येदं तात्पर्यम्' इत्यादिविचारात्मकमतिज्ञानेन । फलत इति- यथा सुनयस्य फलं सम्यग्ज्ञानादिकं भवति तथा दुर्नयस्यापि चिन्ताज्ञानसहकारेण तत्फलं समुपजायत इति कृत्वा फलतः सुनयीकरणं बोध्यम् । भावनामानेनेति-उपदर्शितभावनाज्ञानेन, ऐदम्पर्थिप्रधानकम्-तात्पर्यार्थप्रधानकम् , यत् प्रमाणवाक्यं सप्तमभनयात्मकम्, तदेकदेशत्वस्य -तद्घटकावान्तरवाक्यत्वस्य, आपादनात्-प्रापणाच्चेत्यर्थः ।