________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
कथं विशिष्टाकारो भवेदिति चेत् ? यथा तव विशिष्टाऽनतिरेकऽपि विशिष्टाऽभावोऽतिरिक्त प्रतीतिबलात् सिद्धस्तथा मम विशिष्टाकारोऽपीति किं बाधकम् ?, खण्डशःप्रसिद्धधर्म-धर्मिरूपसदुपरागेणासदाकारोपत्ते सतः ख्यातिप्रसङ्गः। यद्वा, 'आलयविज्ञानसन्ततिरूप आत्माऽपि यदि क्षणिका, किं पुनर्वाच्यं बायवस्तुषु ?' इति वैराग्यप्रतिपन्थितृष्णोच्छेदकानित्यत्वभावनोद्देशेन बौद्धदर्शनस्य, 'मुमुक्षुणा सर्व परित्यज्य स्वात्मनिष्ठेन भवितव्यम् , स चैक एवेति शोक-द्वेषादिनिबन्धनानेकसंबन्धबुद्धिमलप्रक्षालनगङ्गाजलसमानैकत्वभावेनोदेशेन च वेदान्तिकदर्शनस्य प्रवृत्तेः, तत्तद्दर्शनार्थज्ञानेषु तत्तद्भावनोदेशप्रयुक्तत्वमेवापेक्षात्वम् , तेनैव तस्य सुनयत्वव्यवस्थितेः, अन्यथा बौद्धसिद्धान्ते बाह्यार्थ ज्ञानादिवादीनाम् , वेदान्तिसिद्धान्ते च प्रतिविम्बाऽऽभासा-ऽवच्छेदक-दृष्टिसृष्टिवादादीनामन्योऽन्य विप्रतिषिद्धत्वेन जात्या दुर्नयत्वस्य सम्यग.
सत्त्वं नास्ति' इति प्रतीतिर्न भवति, 'गणे गण-कर्मान्यत्वविशिष्टसत्त्वं नास्ति' इति प्रतीतिश्च भवति, यदि सत्त्वाभावाद् विशिष्टसत्त्वाभावोऽनतिरिक्त एव स्याद् गुणे सत्त्वाभावप्रतीतिर्यथा न भवति तथा विशिष्टसत्वाभावप्रतीतिरपि न भवेत् , भवति च विशिष्टाभावप्रतीतिः, तद्वलाच्छुद्धाभावाद् विशिष्टाभावोऽतिरिक्तोऽभ्युपेयते तथा जैनमते विशिष्टस्य वस्तुनोऽसिद्धावपि विशिष्टाकारकज्ञानप्रतीतिबलाद् विशिष्टाकार: सिद्ध इत्यर्थः । ननु विशिष्टस्य वस्तुनोऽसत्वे तदाकारज्ञानमसरूयातिः स्यात् , न चासत्ख्याति नरभ्युपेयत इति विशिष्टाकारज्ञानासम्भव इत्यत आह- खण्डशःप्रसिद्धति- विशिष्टस्यासत्त्वेऽपि विशेषणं विशेष्यं च धर्म-धर्मिस्वरूपं सदेवेति खण्डशो विशिष्टस्वरूपानापन्नं पृथक्तयैव प्रसिद्धं यदु धर्मधर्मिस्वरूपं सत् तदुपरागेणासत आकारस्योत्पत्ते सतः ख्यातिप्रसङ्ग इत्यर्थः ।
अपेक्षाया वैज्ञानिकसम्बन्धरूपतापक्षेऽपेक्षासिद्धिमुपदर्य प्रकारान्तरेण मतभेदस्यापेक्षिकत्वमुपदर्शयति- यद्वेति । आलयविज्ञानेति-बौद्धमते विज्ञानसन्ततिर्द्विविधा- आलयविज्ञानसन्ततिः प्रवृत्तिविज्ञानसन्ततिश्च, तत्र 'अहमहम्' इति निर्वि. कल्पकविज्ञानसन्ततिरालयविज्ञानसन्ततिः. सा च सुषुप्ताव प्यनुवर्तते, पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञानं प्रति कारणत्वात् तत्सन्तानाविच्छेदः, तत्सन्ततिरूप आत्मा, 'अयं घटोऽयं पट:' इति सविकल्पक ज्ञानसन्ततिः प्रवृतिविज्ञानसन्ततिः, तस्याः सुषुप्तौ विलयः, सुषुप्स्यन्तिमक्षणसमुत्थं चालयविज्ञानं प्रवृतिविज्ञानमालयविज्ञानं च जनयतीति जाग्रहशायां स्वप्नदशायां च प्रवृतिविज्ञानसन्ततिसम्भव इति । 'आलयविज्ञानसन्ततिरूप आत्माऽपि' इत्यारभ्य 'बाह्यवस्तुषु' इत्यन्तमनित्यत्वभावनाया आकारोपवर्णनम्, उक्ताकारा चानित्यत्वभावना, वैराग्यस्य प्रतिपन्थिनी-विरोधिनी या तृष्णा'सर्वदा सुखी भवेयम्, सुखकारणं धन-कलत्र-पुत्रादिकं में भवतु, दुःखी च मा भूवम् , मम शत्रवो नश्यन्तु । इत्यादिरूपा, तस्या उच्छेदिका, एतादृशानित्यत्वभावनोद्देशेन, बौद्धदर्शनस्य — सर्व क्षणिकम् ' इत्यभ्युपगन्तृबौद्धदर्शनस्य, 'प्रवृत्तेः' इत्यच्चयः । 'मुमुक्षणा' इत्यारभ्य ‘स चैक एवेति' इत्यन्तमेकत्वभावनाया आकारोपवर्णनम् । स च आत्मा पुनः शोकेति-पुत्र-कलत्रादिकं किञ्चिद् वस्तु यदि स्वस्माद् भिन्नं स्यात् तदा तन्मरणादिप्रभवः शोकः स्यात्, एवं स्वभिने शत्रावपक्रारिणि द्वेषः, अन्यपरिगृहीतायामपरिगृहीतायां रूप-यौवन-लावण्यादिसम्पन्नायामबलायां मोहः स्यादि. त्येवं शोक द्वेष-मोहादिनिबन्धनं याऽनेकसम्बन्धधुद्धिस्तद्रपं यन्मलं तस्य प्रक्षालने गङ्गाजलसमाना “यदा सर्वमात्मैचाभूत तत् केन के पश्येत् ?, तत्र को मोहः ? कः शोकः ? एकत्वमनुपश्यतः, आत्मानं चेद् विजानीयादयमस्तीति पुरुषः। किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् " [
] इत्यादिश्रुतिवचनाभ्यसनप्रभवैकत्वभावनाया उक्तमलप्रक्षालकत्वं युज्यत एव, एतादृशैकत्वभावनोद्देशेन च, वेदान्तिकदर्शनस्य ब्रह्माद्वैतवादस्य प्रवृत्तेरित्यर्थः । एवं च तत्तद्दर्शनार्थज्ञानेबिति-वौद्धदर्शनविषयज्ञाने निरुक्तानित्यत्वभावनोद्देशप्रयुक्तत्वमपेक्षात्वम् , वेदान्तदर्शनविषयज्ञाने निरुक्तैकत्वभावनोद्देश प्रयुक्तत्वमपेक्षात्वमित्यर्थः । तेनैव निरुक्तापेक्षात्वेनैव । तस्य ततद्दर्शनविषयज्ञानस्य । अन्यथा तत्तद्दर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयुक्तत्वलक्षणापेक्षात्वस्यानाश्रयणे 'बाह्यार्थ-झानादि' इत्यादिपदात् साकार. शानमात्रवाद-शून्यवादयोरुपग्रहः 'वादीनाम्' इति स्थाने 'वादादीनाम्' इति पाठो युक्तः, बाह्यार्थ-ज्ञानवादः