Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 53
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकूतो नयोपदेशः । । २७ वच्छेदकः संबन्धो द्वित्वनिष्ठविषयता, कारकतावच्छेदकश्च तादात्म्यम् , अत एव चैत्रमैत्रापेक्षाबुद्धिभ्यां तुल्यविषयाभ्यां युगपदुत्पन्नाभ्यामुत्पादितं द्वित्वमेकमेवेति मतेऽपि न क्षतिरिति कल्पनायामधिकं गौरव. मिति चेत् ? न-तद्गौरवस्य फलमुखत्वेनादोषत्वात् । यद्यपि द्वित्वादावपेक्षाबुद्धे कत्वावगाहिबुद्धित्वेन हेतुता 'अयं घट एकः' इति बुद्धितोऽपि द्वित्वोत्पत्त्यापत्तेः, नापि नानैकत्वावगाहिबुद्धित्वेन 'अयमेकश्चिरविनष्टो घटश्चैकः' इति बुद्धितोऽपि तदापत्तेः, तथापि द्वित्वादिजनकतावच्छेदिका मानसत्वव्याप्या नाना जातयो वाच्याः, अन्यथा कदाचिद् द्वित्वं, कदाचिञ्च त्रित्वमिति नियमो न स्यात् । न च स्मृतित्वव्याप्यत्वमेव तासां न कुत इति वाच्यम् , यद्यक्तिविशेष्यकैकत्वस्मरणं कस्यापि न जातं तत्र स्मरणानुभवकार्य द्वित्वभेदस्य देवदत्तीयाद्यपेक्षाधुद्धिजन्यद्वित्वभेदस्य च कारणत्वं कल्पनीयमिति गौरवमित्यर्थः। तादात्म्यमिति-चैत्रीया पेक्षावुद्धिजन्य द्वित्वं तादात्म्येन चैत्रीयापेक्षाबुद्धिजन्यद्वित्व एव वर्तते, न तु मैत्रीयापेक्षाबुद्धिजनितद्वित्वे इति तद्रूपकारणा भावान चैत्रीय द्वित्वप्रत्यक्षं द्वित्वनिष्ठविषयतासम्बन्धेन मैत्रीयापेक्षावुद्धिजन्यद्वित्वे समुत्पद्यत इति । 'अत एवं' इत्यस्य 'न क्षतिः' इत्यनेनान्वयः, अत एव चैत्रीयद्वित्वप्रत्यक्ष प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वेन हेतुत्वकल्पनलक्षद्वितीयकल्पस्थाऽऽदरणादेव । चैत्र-मैत्रेति- यदैव चैत्रस्य 'घटश्चैकः पटश्चैकः' इत्यपेक्षाबुद्धिस्तदैव मैत्रस्यापि 'घटश्चैकः पटश्चैकः' इति तत्समानविषयाऽपेक्षाबुद्धिः, ताभ्यामुत्पादितं घट-पटगत द्वित्वमेकमेवेति मते द्वित्वनिष्ठविषयतासम्बन्धेन चैत्रीयप्रत्यक्षे मैत्रीयापेक्षाबुद्धिजन्यद्वित्वादिभेदस्थ कारणत्वमिति प्रथमकल्पे द्वित्वनिष्ठविषयतासम्बन्धेन चेत्रीयप्रत्यक्षं चैत्रीयापेक्षाबुद्धिजन्यद्वित्वे समुत्पद्यते, तच द्वित्वं मैत्रीयापेक्षाबुद्धिजन्यद्वित्वरूपमपीति तद्भेदस्य तत्रासत्त्वाच्चैत्रस्यापि तत्प्रत्यक्षं न स्यादिति दोषो न भवति, चैत्रीयद्वित्वप्रत्यक्षं द्वित्वनिष्टविषयतासम्बन्धेन चैत्र-मैत्रापेक्षाधुद्धिद्वयजनितद्वित्वे वर्तते, तत्र तादात्म्यसम्बन्धेन चैत्रापेक्षाबुद्धिजन्यं तदेव द्वित्वं समस्तीति, एवं कल्पनायां नैयायिकस्य मते प्रभाकरमतापेक्षयाऽधिकं गौरवमित्यर्थः। समाधत्ते-नेति । तद्गौरवस्य नैयायिकमतेऽनन्तरदर्शितगौरवस्य । फलमुखत्वेनेति- व्यङ्गयत्वपक्षे अपेक्षाबुद्धबित्वप्रत्यक्षत्वं कार्यतावच्छेदकम् , जन्यत्वपक्षे द्वित्वत्वमपेक्षाबुद्धेः कार्यतावच्छेदकमिति लाघवाजन्यत्वपक्षव्यवस्थितौ तत्र यस्यैवापेक्षाबुद्धद्या जन्यं यद् द्वित्वं तत्पुरुषस्यैव तद्वित्वप्रत्यक्षं नान्यपुरुषस्येत्येतदर्थ कल्पनीयस्य निरुक्तगौरवस्य फलमुखत्वेनादोषत्वादित्यर्थः । द्वित्वादिकं प्रति अपेक्षाबुद्धर्यत् कारणत्वं तदवच्छेदकनिर्वचनाय विचारमारभते-यद्यपीत्यादिना । द्वित्वं प्रत्यपेक्षाबुद्धेरेकत्वावगाहियुद्धित्वेन कारणत्वस्य प्रतिक्षेपे हेतुमुपदर्शयति- 'अयं घट एकः' इतीति । नापीतिद्वित्वादिकं प्रत्यपक्षाबुद्धे नेकत्वावगाहिबुद्धित्वेन कारणत्वे 'अयं घट एकः' इति बुद्धे नेकरवावगाहिबुद्धित्वाभावात् कारणास्वाभावेन न ततो द्वित्वोत्पत्त्यापत्तिः, परन्तु 'अयमेकश्चिरविनष्टो घटश्चैकः' इति बुद्धेर्निरुक्ककारणावच्छेदकाक्रान्ताया द्वित्वोत्पत्त्यापत्तेन नानकत्वावगाहिबुद्धित्वेनापेक्षाबुद्धः कारणत्वमित्यर्थः । तथाऽपि एकत्वावगाहिबुद्धित्वेन नानकत्वावगाहिबुद्धित्वेन वाऽपेक्षाबुद्धेः कारणत्वाऽसम्भवेऽपि । द्वित्वादीति-आदिपदात् त्रित्वादीनामुपग्रहः, तथा द्वित्वजनकतावच्छेदिकापेक्षाबुद्धिगता मानसत्वव्याच्या जातिरेका, तदन्या त्रित्वजनकतावच्छेदिका, तदन्या च चतुष्टजनकतावच्छेदिकेत्येवमपेक्षाबुद्धिगता मानसत्वव्याप्या नानाजातयो वाच्या इत्यर्थः । अन्यथा एकैवापेक्षाबुद्धिगता मानसत्वव्याप्या जातित्विादिकारणतावच्छेदिकेत्येवमुपगमे । कदाचिदिति- 'घटवैकः पटश्चैकः' इत्येवमपेक्षाबुद्धयनन्तरकाले द्वित्मुत्पद्यते. 'घटश्चैकः पटश्चैको मठश्चैकः' इत्येवमपेक्षाबुद्धथनन्तरकाले त्रित्वमुत्परत इत्येवं नियमो न स्यात् , येव द्वित्वकारणतावच्छेदिका मानसत्वव्याप्यजातिः ‘घटश्चैकः पटश्चैकः' इति बुद्धौ वर्तते सैव त्रित्वकारणतावच्छेदिकाऽपोति तद्रपेण द्वित्वकारणापेक्षाबुद्धेरेव त्रित्वं प्रति कारणीभूताथा अपि सत्त्वाद् द्वित्वोत्पत्तिकाले त्रित्वोत्पत्तिरपि स्यादित्यर्थः । ननु भवन्तु जातयो द्वित्वादिजनकतावच्छेदिका अपेक्षाबुद्धिगता विभिन्नाः, तासां स्मृतित्वव्याप्यत्वमेव कुतो नाङ्गीक्रियते ? इत्याशङ्कय प्रति क्षिपति-न चेतिअस्य ‘वाच्यम्' इत्यनेनान्वयः । तासां द्वित्वादिजनकतावच्छेदकजातीनाम् । निषेधे हेतुमाह-यद्वयक्तीति-द्वित्वादिजनकतावच्छेदकजातीनां स्मृतित्वव्याप्यत्वे स्मरणात्मकापेक्षाबुद्धित एव द्वित्वाद्युत्पत्तिने ज्ञानान्तरादिति ययक्तिविशेष्यकैकत्वस्मरण कस्यापि प्रमातुने जातं तस्यक्तिगतद्वित्वादिकं कथमुत्पद्यतेति तदर्थ तद्यक्तिविशेष्यकैकत्वानुभव-तत्समरणयोः कार्य-कारण

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210