Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 48
________________ २२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । "ऐदम्पय्यं शुद्ध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित् स्यादन्यथाग्रहणात् ॥ १ ॥ तत्रापि च न द्वेषः कार्यों विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं सर्व यत् प्रवचनादन्यत्" ॥२॥ इति । नन्वेवं स्वसमयवाक्येभ्यः परसमयवाक्यानां को विशेषः ? फलतो जातितश्च शुद्ध्यशुद्ध्योरविशेषात्, नहि ज्ञान-दर्शन-लिङ्ग-चारित्रादिवादेषु स्वसमये स्थितपक्षोऽपि स्वविषये प्राधान्यं विदधानः, ज्ञानादिनयविषये च तनिराकुर्वाणो जात्या शुद्धत्वमङ्गीकुरुते, तथा च स्थितपक्षवचनम् " जम्हा दंसण-नाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुआ दिति उ विसिस्सए तेण चारित्तं " ॥ १ ॥ति ! अत्र हि ज्ञानादिनयेनैतद् वक्तुं शक्यम्- यथा त्वया संपूर्णफलप्रापकत्वेन चारित्रमुत्कृष्यते तथा मया तदुपनायकत्वेन " दासेन मे०" [ नयोपदेश-५५ ] इत्यादिन्यायात् व्यापारतया चारित्रान्यथासिद्ध्यापादानाच ज्ञानादिकमेवोत्कर्षमारोपणीयम्' इति, विजम्भितं चेदमध्यात्ममतपरीक्षायां बहुधाऽस्माभिः, तथा च प्राधान्यस्याप्यव्यवस्थितत्वात् कुत्र केन नयेन जात्या व्यवस्थेयम् ?, फलतः शुद्धिस्तु स्व-परसमयोरविशिष्टेति चेद् ? अत्रास्माकमाभाति-यथा देश-प्रदेश-खण्ड-परमावादेः स्कन्धसंबन्धा उक्तार्थे श्रीहरिभद्रसूरिवचनं प्रमाणयति-तदाहुरिति । यत्र यस्मिन्नागमे स्त्रसमये परसमये वा, ऐदम्पर्य तात्पर्यम् , शुद्धयति सम्यक्तयोपपद्यते , असावागमः स्वीयः परकीयो वा, सुपरिशुद्धः प्रमाणवाक्यमित्यर्थः, तदभावे शुद्धदम्पर्याभावे, ऐदम्पर्य तु विद्यत एव परं तच्छोधनं न जातमिति यावत् , अन्यथाग्रहणात् अन्यप्रकारेण स्थितस्याथेस्यान्यप्रकारेण प्रणात्, कश्चिद् आगमैकदेशः स्यात् । तत्रापि तस्मिन्नप्यागमैकदेशे क्षणिकत्वाद्येकैकधर्ममात्रप्रतिपादके, द्वेषो न कार्यः 'एकान्तप्रतिपादकत्वान्नायमुपादयः' इत्येवं न विधेयः, तु पुनः किन्तु, यत्नतः तात्पर्यान्वेषणतो विषयो मृग्यः सम्यक्तात्पर्यमाकलय्यास्याऽऽसमस्यायमों युक्त्युपपन्नत्वाद् ग्राह्योऽयं तु युक्त्या न घटतेऽतो न ग्राह्य इत्येवं परिभावनीयः, यत् प्रवचनाद जैनागमात्, अन्यत् तीर्थान्तरीयम् , तस्यापि सर्व वचनं न सत्, किन्तु यत्र तात्पर्याथों घटते तत् सद् वचनम् , यत्र तात्पर्यो न घटते न तत् स द्वच मित्येवं विवेक शङ्कते-नन्वेवमिति । 'नहि' इत्यस्य 'शुद्धत्वमङ्गीकुरुते' इत्यनेनान्वयः । तन्मिराकुर्वाणः प्राधान्य निराकुवणिः। 'स्थितपक्षोऽपि जात्या शुद्धत्वं नाङ्गीकुरुते' इत्येव स्थितपक्षवचनमुद्भाव्य समर्थयति-तथा चेति । "जम्हा०' इति"यस्माद् दर्शन-ज्ञाने सम्पूर्णफलं न दत्तः प्रत्येकम् । चारित्रयुक्त दत्तस्तु विशिष्यते तेन चारित्रम्" इति संस्कृतम् । 'चारित्रयुक्त ज्ञान-दर्शने सम्पूर्ण फलं दत्तः' इत्येतावता चारित्रस्य ज्ञान-दर्शनाभ्यामुत्कृष्टत्वमनेन वचनेन प्रतिपादितम्, तत्रोक्तदिशा प्राधान्यस्योररीकारे तस्याव्यवस्थितत्वमेव स्यादित्येतत् प्रकटयति-अत्रेति-उक्तरीत्या चारित्रस्योत्कृष्टत्वे इत्यर्थः । त्वया चारित्रप्राधान्यवादिना । मया ज्ञानादिप्राधान्यवादिना । तदुपनायकत्वेन ज्ञानाद्यपनायकत्वेन, सम्यग्ज्ञान-दर्शनयोर्भाव एव चारित्रं समीचीनं सत् फलमुपजनयतीति चारित्रं व्यापारभूतमेव व्यापारिणी ज्ञान-दर्शने उपनाययतीत्यतो ज्ञान-दर्शने एव फलं प्रति प्रधान कारणम् , चारित्रं तु तव्यापारतयाऽन्यथासिद्धमेवेत्येवं ज्ञानादिकमेवोत्कर्षपदमारोपणीयं मया, यथा-दासद्वारा कीते खरे स्वामिन एव प्राधान्यमित्यर्थः । दासेन मे० इति-"दासेन में खर: क्रीतो दासो मम खरोऽपि मे" इति सम्पूर्णन्यायस्वरूपम् । श्रीमद्भिर्यशोविजयोपाध्याय रेतद्विषये विशेषजज्ञासून स्वकृताध्यात्ममतपरीक्षावलोकनमावश्यकपद्धतावानेतुमुपदिश्यते-विजृम्मितमिति । एवं च प्राधान्यस्याव्यवस्थितत्वाज्जात्या परिशुद्धत्वं न कुत्रापि, फलतस्तु परिशुद्धिः स्वसमय-परसमययोरविशिष्टेति स्वसमयवाक्येभ्यः परसमयवाक्यानां न कश्चिद् विशेष इति शङ्कार्थमुपसंहरतितथा चेति । उक्ताशङ्कायां ग्रन्थकारः स्वसूक्ष्मक्षिकारूढं समाधानमुपदर्शयति-अत्रेति - उक्तशङ्कायामित्यर्थः । अस्माकं यशोविजयोपाध्यायानाम् । आभाति समाधानं प्रतिभासते। देव समाधानमुपदश्यते-यथेति- स्कन्धसम्बद्धो द्विप्रदेशा•दिको देशः स्कन्धसम्बद्धः परमाणु: प्रदेशः, स्कन्धाद् विच्छिन्नश्च द्विप्रदेशादिकः स्कन्धासम्बद्धः खण्डः, स्कन्धात् पृथग्भूतवाऽणुः स्वतकन्धासम्बद्धः परमाणुरित्येवं स्कन्धसम्बन्धाभ्यां यथा देशादेभेदः, तथा स्वसमयस्थ विचित्रनयानां प्रमाण

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210