Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
स्वप्राचीस्थपुरुषीयोक्तवैजात्यसाक्षात्कारत्वावच्छिन्न एव स्वप्रतीच्यवच्छिन्नावारकसंयोगत्वेन प्रतिबन्धकत्वे तु द्रव्यचाक्षुषेऽप्येवं भित्त्यादिसंयोगप्रतिबन्धकत्वेन निर्वाहे व्यवहितार्थाऽदर्शनान्यथानुपपत्त्या चक्षुःप्राप्यकारित्वसाधनप्रयासस्य वैफल्यापत्तिरिति न किञ्चिदेतत् ।
एतेन 'तादृशलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुरादिसंयोगे तिष्ठति चैजात्यान्तरस्वीकारेणैव निर्वाहः' इति कल्पनाऽपि तेषामपास्ता, 'तद्धेतोः' इति न्यायेनाऽऽभिमुख्यविशेषेणावरणाभाव. विशेषेण वा निर्वाहे ताशवजात्यकल्पनायां महागौरवात्, अन्यापेक्षयेव स्वदेशापख्याऽपि न्यूनाधिकतारूपवैजात्यानुभवस्यापेक्षा विनाऽनुपपत्तेश्चेति दिक् ॥ ३ ॥
"भावकल्पनाऽपि परस्य न युक्ता, स्वाभ्युपगमहानिप्रसक्तरित्याह-स्वप्राचीस्थेति एतच्च प्रतीच्या वस्तु, तदनन्तरं प्राच्यामावरणम्, ततः प्राच्या प्रमाता पुरुषः, तत्रावरणप्राचीस्थस्य प्रमातुरावरणप्रतीचीस्थितवस्तुपरिमाणगतवैज्ञात्य साक्षात्कारो न भवति' तदुपपादकम् , तत्सङ्गमना चेत्थम् -स्वमावरणम् , तदवधिकप्राचीस्थः पुरुषः, तदीयवस्तुपरिमाणवैजात्यसाक्षात्कारत्वावच्छिन्ने, स्वमावरणम् , तदवधिकप्रतीच्यवच्छिन्नो य आवरकसयोगस्तत्त्वेन प्रतिवन्धकत्वम् , अत आवरणप्राचीस्थपुरुषस्य तद्वजात्यप्रत्यक्षं न भवति, तदन्यदिगवस्थितस्य तु पुरुषस्य तत्प्रत्यक्ष भवत्येव, परमेवमभ्युपगमे अप्राप्यकार्यपि चक्षुः स्वसम्मुखस्थितं वस्तु गृहाति, यत् क्वचिद् भित्त्यादिव्यवहितस्य वस्तुनो न चक्षुषा प्रणंम् , तत् स्वप्राचीस्थपुरुषीयचाक्षुषसाक्षात्कारं प्रति स्वप्रतीच्यवच्छिन्नावारकभित्त्यादिसंयोगस्य प्रतिबन्धकत्वमित्येवं दिशा प्रतिबध्यप्रतिबन्धकभावं प्रकल्प्य निर्वाह्यमिति व्यवहितार्थादर्शनस्य चक्षुषः प्राप्यकारित्वमन्तसऽप्युपपन्नावेन व्यवहितार्थादर्शना'न्यथानुपपत्त्या चक्षुषः प्राप्यकारित्वसाधनप्रयासस्य वैफल्यापत्तिः स्यादिति । ___ 'एतेन' इत्यस्य 'अपास्ता' इत्यनेनान्वयः । 'चक्षुरादिसंयोगे तिष्ठति वैजात्या०' इत्यस्य स्थाने 'चक्षुरादिसंयोगनिष्टवैजात्या.' इति पाठो युक्तः, अर्द्धनिखातादिस्थले अर्द्धनिस्वातवंशादिपरिमाणगतवैलक्षण्याप्रत्यक्षत्वोपपत्तये आवारकसंयोग-ताशवलक्षण्य प्रत्यक्ष योः प्रतिबध्य-प्रतिबन्धकमावो न कल्पनीयः, किन्तु विजातीयचक्षुस्संयोग एव तादृशवैलक्षण्यसाक्षात्कारं प्रति कारणम् , अर्द्धनिखातवंशादौ चक्षुस्संयोगस्तु न विजातीय इति विजातीयचक्षुःसंयोगाभावादेव नार्द्धनिखातवंशादिपरिमाणवैलक्षण्यसाक्षात्कार इति, तथा च तादृशवलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुरादिसंयोगनिष्ठवेजात्यान्तरस्वीकारेणैव तत्र चक्षुस्संयोगगतवैजात्यान्तराभावात् , ताशवलक्षण्यप्रत्यक्षाभावस्य निर्वाहः, एवकारेण निरुक्तप्रतिबध्य-प्रतिबन्धकभावकल्पनस्य व्यवच्छेदः । इति कल्पनाऽपि एवंस्वरूपा कल्पनाऽपि । तेषां परेषाम् । अपास्ता निरस्तेत्यर्थः । एतेन' इत्यतिदिष्टं निरास हेतुमुपदर्शयति- 'तद्धेतोः' इति न्यायेनेति- 'तस्य हेतुत्वकल्पनापेक्षया तद्धेतोरेव हेतुत्वं न्याय्यम्' इति सम्पूर्ण न्यायस्वरूपम्, प्रकृते चक्षुषो विषयाभिमुख्यविशेषेणाऽऽवरणाभावविशेषेण वा तादृशविजातीयचक्षर संयोगकारणतया भवद्भिरवश्यं कल्पनीयन, तादृशाभिमुख्यविशेष सत्त्वे आवरणाभावविशेषसत्त्वे वा तादृशवलक्षण्यसाक्षात्कारः, तयोरन्यतरस्याभावे तादृशवलक्षण्यसाक्षात्काराभाव इत्येवं निर्वाहे सति, ताहशवजात्यकल्पनायां तादृशवैलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुस्संयोगगतवैजात्यकल्पनायाम् । महागौरवात् चक्षुःसंयोग: कल्पनीयः, तद्वतं निरुक्तवेजात्यं च कल्पनीयमित्येवं महागौरवादित्यर्थः । यथा चाऽऽम्रवृक्षो निम्बवृक्षापेक्षयाऽस्पो महान् वेत्येवमनुभूयते, तथाऽऽम्रवृक्षः स्वदेशेकशाखापेक्षयाऽभ्यशाखावच्छिन्नोऽल्पो महान् बेत्येवमप्यनुभूयते, तादृशानुभवस्यापेक्षा विना नोपपत्तिरित्यपेक्षात्मकान्वयबोधरूपनयसिद्धिरित्याह-अन्यापेक्षयेवेति ॥३॥
चतुर्यपद्यमवतारयति-नन्विति । 'मतभेदोऽध्यवसायः' इति स्थाने 'मतभेदाध्यवसायः' इति पाठः समुचितः । यत्र बौद्धादिदर्शने, मतभदोऽध्यवसीयते, वस्तुस्थित्या बौद्धाद्यभ्युपगतैकान्तक्षणिकादिपदार्थानामेवाभावाद् 'अमुकापेक्षया भाह्यमाभ्यन्तरं च वस्तु क्षणिकम् , अमुकापक्षया विज्ञानमानमेव क्षणिक वस्तु, तथाऽमुकापेक्षया शून्यमेव तत्वम्' इत्यस्य,

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210