Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 32
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । त्पत्तिशालिनाम् , विनोदः- सम्यगूनयार्थव्युत्पादकत्वपरामर्शजनितः प्रशंसा-पुलको दादिव्यङ्गयः प्रमोदः, तदर्थम् । न चाज्ञखेद-खलपीडाद्यनुबन्धित्वेनास्य तुल्याऽऽय-व्ययत्वादकामत्वम् , तदोषापेक्षयाऽस्य गुणस्थानन्तगुणोत्कृष्टत्वात् , तदाहुः श्रीहरिभद्राचार्याः प्रथमविशतिकायाम् " इक्को उण इह दोसो, जं जायइ खलजनस्स पीड त्ति । ___ तह वि पयट्टो इत्थं, दटुं सुयणाण मइतोसं " ॥ १ ॥ [ ]ति । इदमुपलक्षणम् , 'बालानां व्युत्पत्तये' इत्यपि द्रष्टव्यम् , बालव्युत्पत्त-रेव सर्वत्र ग्रन्थप्रयोजनस्वात्, बालश्चात्राधीतान्यतर्कः सम्यगनभ्यस्तनय-प्रमाण विभागो द्रष्टव्यः, इतरस्यानधिकारित्वात् " नाऽत्यन्ततदज्ञो नातदज्ञः स एवाधिकारवान् ” [ ] इति श्रवणात् ॥ १ ॥ तत्रादौ नयलक्षणं तत्त्वस्वरूपोपपत्ति चाह सत्त्वाऽसत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः। न विवेचयितुं शक्यं विनाऽपेक्षां हि मिश्रितम् ॥ २॥ नया०-सत्त्वाऽसत्त्वेति- सत्वाऽसत्त्वादयो ये धर्माः, आदिना नित्याऽनित्यत्व-भेदाऽभेदादिधारणम् , तच्छालिनाम्- तद्वतामित्यर्थः । सम्यगिति- 'अयं नयोपदेशः सम्यग् नयार्थव्युत्पादकः' इत्या कारकनिर्णयजनित इत्यर्थः । ननु यथैतद्वन्यात् सुधियां प्रमोदस्तथाऽतिमूढानामुपाध्यायादिसकाशादध्ययनेनाप्येतदर्थं विज्ञातुमयोग्यानां खेदः, परगुणद्वेषिणां खलानां चैतदपूर्वग्रन्थदर्शनतः पीडैव भविष्यतीत्येकस्योपकारकत्वमन्यस्यापकारत्वमित्येवं तुल्याऽऽयव्ययत्वान्न काम्योऽयं प्रन्थ इत्याशङ्कय प्रतिक्षिपति-न चेति-अनुबन्धित्वेन कारणत्वेन । अस्य नयोपदेशस्य । निषेधे हेतुमाहतहोषापेक्षयेति- अज्ञखेदजनकत्व-खलपीडादिजनकत्वलक्षणदोषापेक्षयेत्यर्थः । अस्य गुणस्य सुधीप्रमोदजनकत्वलक्षणगुणस्य । उक्तार्थे श्रीहरिभद्राचार्यवचनसंवादमाह- तदाहुरिति । इक्को० इति- “एकः पुनरिह दोषो यज्जायते खलजनस्य पीडेति । तथाऽपि प्रयत्नोऽत्र दृष्ट्वा सुजनानां मतितोषम्" ॥ इति संस्कृतम् । इदं 'सुधियां विनोदाय' इति सुधीगतविनोदफलार्थत्वम् । ननु स्तनन्धयो लोके बालशब्दव्यपदेश्यः, न च तस्यैतस्माद् प्रन्थानयव्युत्पत्तिः सम्भवतीत्यत आह- बालश्चेति । अघीतान्यतर्क इति- यद्यन्यशास्त्रार्थपरिज्ञानशून्यः स्यात् , तर्हि स कथमवगच्छेत् ?- सङ्ग्रहनयाद् वेदान्तदर्शनप्रवृत्तिः, नैगमनयाद् वैशेषिकादिदर्शनप्रवृत्तिरित्यादिकम्, सामान्यादिपदार्थस्वरूपापरिज्ञाने 'सामान्यमात्रमाहिपरामर्शः सङ्ग्रहः' इत्यादेरपि परिज्ञानं यथावन भवेत् , अतो मावश्यकम् । सम्यगनभ्यस्तनय-प्रमाणविभाग इति-- यस्य नय-प्रमाणविभागस्य सम्यगभ्यासः स नयस्वरूपं प्रमाणस्वरूपं च विवेकेन जानात्येवेति प्रथमत एव नयव्युत्पनस्य तस्य नातो नयव्युत्पत्तिः, अतो युज्यते 'सम्यगनभ्यस्तनय-प्रमाणविभागः' इति । इतरस्य अनधीतान्यतर्कस्याभ्यस्तनय-प्रमाणविभागस्य च । अनधिकारित्वास प्रस्तुतनयोपदेशग्रन्थाध्ययन श्रवणाधिकारित्वाभावात् । उक्तार्थे प्राचां वचनं प्रमाणयति-नात्यन्तेति- यः प्रकृतग्रन्थाईत्यन्ताज्ञानशून्यः, यश्च प्रकृतप्रन्यातिरिक्तप्रन्धार्थाज्ञानशून्यः स एव प्रकृतग्रन्थाध्ययनादावधिकारीत्यर्थः ॥ १॥ नयलक्षणप्रतिपादकमाद्यपद्यमवतारयति-- तत्रेति- नयोपदेश इत्यर्थः । तत्त्वेति- नयलक्षणेत्यर्थः । सत्त्वेति- पूर्वाद्ध नयलक्षणप्रतिपादकम् , उत्तरार्द्ध तदुपपादकम् । विवृणोति- सत्त्वाऽसत्त्वेतीति । आदिना 'सत्त्वासत्त्वादिः' इत्येतद्धटकादिपदेन 'भेदादिरिति परिग्रहः' इत्यस्य स्थाने 'भेदादेः परिग्रहः' इति पाठो युक्तः । तैः सत्त्वासत्त्वादिधर्मः । 'पुत्रोपेतः [पुत्रेण सह] पिता समागतः' इत्यादी भेदे उपेतशब्दप्रयोगो दृश्यत इति प्रकृतेऽपि सत्त्वा-ऽसत्त्वादिधमैः समं जीवादिधर्मिणो भेदः प्रतीयेत, तथा चानन्तधर्मात्मकत्वं जीवादीनां न लभ्येत, विवक्षितं च तत्, तथा सत्येवा

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210