Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 37
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । ११ किञ्च, एवं 'द्वयोर्गुरुत्वम् , न गन्धः' इत्यादौ का गतिः ? गुरुत्वसामानाधिकरण्येनेव गन्धत्वसामानाधिकरण्येनापि पृथिवी-जलोभयस्वाश्रयवृत्तित्वसाम्यात् विधि-निषेधविषयार्थानिरुक्तः । अत्र सप्तम्याः स्वार्थान्वयितावच्छेदकस्वरूपात् समव्याप्यातिरिक्कैवाऽऽधेयताऽर्थः, तत्र च प्रकृत्यर्थस्य तन्निष्ठ. निरूपितत्वविशेषेणान्वयात्, पृथिवी-जलोभयविशिष्टाधेयतात्वेन गुरुत्वं विधेयतया गन्धश्च निषेध्यतया प्रतीयत इत्युक्तौ च नामान्तरेण गुरुत्वसामान्यस्यैव विधेयत्वं गन्धसामान्यस्यैव च निषेध्यत्वमुक्तमायुष्मता, अतिरिक्ताधारताया अनिरूपणात् , अन्यथा 'घट-पटयोन घटरूपम्' इत्यादौ 'जाति-घटयोर्न सत्ता' अपेक्षात्मकान्वयबोधानभ्युपगन्तृणां परेषां दोषान्तरमप्युपदर्शयति-किञ्चति । द्वयोः पृथिवी-जलयोः, पृथिव्यां गुरु- • त्वमन्यत् , तदन्यच जले गुरुत्वमिति नैकस्य गुरुत्वस्य पृथिवी-जलोभयनिरूपितवृत्तित्वमिति यथा गन्धे पृथिवी-जलोभयनिरूपितवृत्तित्वस्याभावात् 'पृथिवी-जलयोन गन्धः' इत्येवं निषेधस्तथा गुरुत्वस्यापि पृथिवी-जलोभयनिरूपितवृत्तित्वाभावाद् 'द्वयोर्न गुरुत्वम्' इति निषेध एवं स्यात्, न तु 'द्वयोर्गुरुत्वम्' इति विधिः स्यात्, यदि च पृथिवी-जलो. भयत्वाश्रयवृत्तित्वरूपमर्थमुपादाय 'पृथिवीजलयोगुरुत्वम्' इति गुरुत्वत्वसामानाधिकरण्येन 'पृथिवी-जलोभयत्वाश्रयनिरूपित. वृत्तित्ववद् गुरुत्वम्' इति बोधसम्भवतः 'पृथिवी-जलयोगुरुत्वम्' इति विधिरुपपाद्यते तदा तादृशवृत्तित्वस्य गन्धत्वसामाना. धिकरण्येन गन्धेऽपि सम्भवेन तदन्वयबोधस्यापि सम्भवात् 'धृथिवी-जलयोर्गन्धः' इति विधिरेव स्यात् , न तु 'पृथिवी. जलयोर्न गन्धः' इति निषेधस्योपपत्तिरित्यर्थः । गुरुत्वसामानाधिकरण्येनेव' इति स्थाने 'गुरुत्वत्वसामानाधिकरण्येनेव' इति पाठो युक्तः । अत्र विधि-निषेधोपपादनपरविधि-निषेधार्थ निरुक्तर्नामान्तरेणापेक्षात्मकबोधसमर्थकत्वमुपदर्शयतिअत्रेति- 'द्वयोर्गुरुत्वम्' इति वाक्यघटकेत्यर्थः । सप्तम्याः द्विपदोत्तरसप्तमीविभक्तेः, अस्य 'अर्थः' इत्यनेनान्वयः । स्वार्थेति- खं सप्तमीविभक्तिः, तस्यार्थ आधेयत्वम् , तदन्वयिता गुरुत्वनिष्ठा, तदवच्छेदकं गुरुत्वत्वम् , तत्स्वरूपाद् अतिरिक्तव-भिन्नैव, समव्याप्या-समनियता, आधेयता सप्तमीविभक्तरर्थः । तत्र च आधेयतायां पुनः । प्रकृत्यर्थस्य द्विपदार्थस्य पृथिवी-जलोभयस्य । तन्निष्ठनिरूपितत्वविशेषेण सप्तमीविभक्त्यधेियत्वनिष्ठनिरूपितत्वविशेषरूपसम्बन्धेन । अन्वयात् सम्बन्धात् । तथा च पृथिवी-जलोमयविशिष्टाधेयतास्वेन' इति स्थाने 'पृथिवी-जलोभयविशिष्टाधेयतावत्वेन' इति पाठो युक्त:-निरूपितत्वविशेषलक्षणसम्बन्धेन पृथिवी-जलोभयविशिष्टा याऽऽधेयता तद्वत्त्वेनेति तदर्थः, तस्य 'विधेयतया' इत्यत्र 'निषेध्यतया' इत्यत्र चान्वयः, गुरुत्वविशेषस्यैकव्यक्तिमात्रवर्तिनः पृथिवी-जलोभयविशिष्टाधेयतावत्वं न सम्भवतीति तादृशाधेयतावत्वेन गरुत्वसामान्यवर्तिना गुरुत्वसामान्यस्यैव विधेयत्वम्, यद्यपि पृथिवी-जलोभयविशिष्टाघेयतावत्वं गन्धसामान्ये यथा नास्ति तथा गन्धविशिषेऽपि नास्तीति पृथिवी-जलोभयविशिष्टाधेयतावत्त्वेन निषेध्यत्वं गन्धविशेषस्यापि सम्भवति, तथाऽपि तादृशनिषेध्यत्वं गुरुत्वविशेषस्यापि सम्भवतीति विशेषापेक्षया निरुक्तनिषेध्यत्वस्याभिमतत्वे 'द्वयोर्न गुरुत्वम्' इत्यपि स्यात् , अतः सामान्यापक्षयव निषेध्यत्वमप्यभिमतमिति गन्धसामान्यस्यैव पृथिवी-जलोभयविशिष्टाधेयतावत्वेन निषेध्यत्वं 'दूयोर्गुरुत्वं न गन्धः' इति वाक्येनोक्तं परेशायीति सामान्यपेक्षाया आवश्यकत्वादपेक्षात्मकान्वयबोधरूपनयसिद्धिरित्यर्थः। 'पृथिवी-जलोभयविशिष्टाधेयतात्वेन' इति पाठप्रामाण्ये तु 'स्वार्था०' इत्यादिस्थाने 'स्वार्थान्वयितावच्छेदकस्वरूपात समव्याप्यानतिरिक्तवाऽऽधेयतार्थः' इति पाठो युक्तः । 'अतिरिक्ताधारताया अनिरूपणाद' इति स्थाने 'अतिरिक्ताधेयताया अनिरूपणाद्' इति पाठः सम्यक्, तच्च 'अनतिरिक्तवाऽऽधेयताऽर्थः' इत्यत्र हेतुकथनरूपतया सङ्गतिमङ्गति, यतश्चाधेयताऽऽधेयस्वरूपा तत आधेयस्याऽऽधेयतात्वेन विधानं निषेधश्च सम्भवतीति बोध्यम् । अन्यथा सामान्यापेक्षया विधेयत्व-निषेध्यत्वयोरनभ्युपगमे। घट-पटयोरिति- घट-पटोभयत्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपे सत्त्वात् तनिषेधस्तत्र न स्यात् , घट-पटोभयनिरूपितवृत्तित्वं च न क्वचिदपि रूपे इति तदभावबोधने 'घट-पटयोर्न रूपम्' इत्यपि स्याद्, अत: 'जाति-घटयोर्न सत्ता' इत्यादौ घटवृत्तिस्वस्य समवायसम्बन्धावच्छिन्नस्य सत्तायां सत्त्वेऽपि जातौ न सत्ता वर्तते, नापि कोऽपि पदार्थः समवायेन तत्र वर्तत इत्यतो जाति-घटोमयनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वप्रसिद्धचा तदभावोऽपि न बोधयितुं शक्यः, किन्तु जाति घटोभयनिरूपितत्त्वाभाववत्समवायसम्बन्धा

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210