Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 203
________________ ७७२ www wor न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे . तथा तटस्तटी तटमित्यत्र कतम वा विशेषमुपादाय लिङ्गभेदः? कतमद्वा सामान्यमतिदिश्यते विशेषप्रतिपादनार्थम् ? ननु स्थितिप्रसवसंस्त्यानविशेषविषयो लिङ्गभेदः, न, तटतटीतटानां विषयविशेषो नास्त्यभिन्नस्वरूपत्वात् , घटघटस्वात्मवत् , गोचरविशेषोपपत्तौ वा सोऽपि विशेषो नास्ति, प्रसवस्य संस्त्यानात्मकत्वात् , स्त्रीवत् संस्त्यानस्य प्रसवात्मकत्वात् पुंवत् 5 संस्त्यानप्रसवयोः स्थित्यात्मकत्वात् , स्त्रीपुंसवत् , न तटी संस्त्यानम् , प्रसवात्मकत्वात् , तटवत् , न तटः प्रसवः, संस्त्यानात्मकत्वात् तटीवत् , न तटं नपुंसकम् , स्थित्यनात्मकत्वात् तटीवत् अथ च...............तटीवत् , एवं लिङ्गाभाव एव तटत्वादीनां, प्रसवादिधर्माभावे गोचरविशेषाभावात् । तथा तटस्तटीत्यादि, कतमं वाऽत्र विशेषमुपादाय लिङ्गभेदः ? कतमद्वा सामान्यमतिदिश्यते 10 विशेषप्रतिपादनार्थ ? न सम्भवतीत्यर्थः, आह-ननु स्थितिप्रसवसंस्त्यानविशेषविषयो लिङ्गभेदः, 'संस्त्याने स्यायते ट् स्त्री सूतेः सप्प्रसवे पुमान्' । 'उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ (महाभाष्ये० ४-१-३ सूत्रे) स्थितिर्नपुंसकं स्त्री[सं]स्त्यानं प्रसवः पुमानेवार्थाः सर्वमूर्तिषु सम्भवन्त्यत्र यो विशेषो विवक्ष्यते तद्विषयो लिङ्गभेद इत्येतच्च, न, तटतटीतटानां विषयस्य विशेषः एकत्वादर्थस्य स एव विशेषो नास्ति यद्विषयो लिङ्गभेदः स्यात्-स नास्ति, अभिन्नस्वरूपत्वात् , घटघटस्वात्मवत्-यथा घट एव घट स्वात्मा 15 तथा तट एव तटी तटञ्च, अभिन्नस्वरूपत्वान्नास्ति विशेषः, आह-गोचरविशेषोपपत्तेः-भित्त्यादिसंस्थाना तटी कटकादिसंस्थानस्तटः कुड्यादिसंस्थानं तटमिति, तस्मा द्विषयविशेषोपपत्तेर्लिङ्गविशेषोपपत्तिरित्यत्रोच्यतेगोचरविशेषोपपत्तौ वा सोऽपि विशेषो नास्ति, यस्मान्न तयोर्गोचरः प्रसवस्य संस्त्यानात्मकत्वात् , संस्त्याहेतुं पृच्छति-तथा तट इति। व्याचष्टे-कतममिति, नियतव्यञ्जनसम्बन्धरूपलौकिकलिङ्गत्रयस्याचेतने तटस्तटी तटमित्या दावसम्भवाल्लिङ्गभेदप्रयोजको विशेषः क इति प्रश्नः, लिङ्गानां वा किं सामान्य स्वरूपम् , यद्भावादत्र तस्वाव्यावर्तकतया विशेषो 20 वाच्य इत्यपरः प्रश्नः । पूर्वपक्षसम्मतं लिङ्गखरूपमाह-नन स्थितीति. सामान्यं गुणरूपं स्थितिः नामन्वयिप्रत्ययनिमित्तस्य सामान्यरूपतया नपुंसकम् , प्रसवः-पदार्थानामुपचयावस्था-आविर्भावः-प्रकाशः सत्त्वधर्मः, प्रवृत्तिः क्रिया रजोधर्मः, एवञ्च आविर्भावप्रकाशनियमरूपसत्त्वतमोनुगतः प्रवृत्ते रजोधर्मलक्षगाया विशेषः पुंस्त्वम् , संस्त्यानं तिरोभावो गुणानां स्त्री, इत्येवं लिङ्गभेद इत्यर्थः । तत्र भाष्यकारवचनमुपन्यस्यति-संस्त्यान इति. अस्योत्तरार्धी भाष्ये 'तस्योक्ती लोकतो नाम गुणो वा लुपि युक्तवत् इति दृश्यते। स्त्यायति-संहननमापद्यतेऽस्यां गर्भ इति स्त्री, स्त्यैधातोईट्प्रत्ययेन 25 सिद्धः, सूते:-सूधातोः सप सकारस्य पकारादेशो भवति सूते इति पुमान्-अपत्यं जनयतीत्यर्थः, मसुन् प्रत्ययेन निष्पन्नः, इति तदर्थः । तत्रैव भाष्ये वचनान्तरमुक्तं दर्शयति-उभयोरन्तरमिति । यत्र यत्र लिङ्गान्तराभावे तुल्यजातीयं स्त्रीपुंसव्यतिरेकेण लिङ्गान्तरं तन्नपुंसकमित्यर्थः, अस्य पूर्वा| भाष्ये-'स्तनकेशवती स्त्री स्यात् लोमशः पुरुषः स्मृतः' ॥ इति । कारिकां व्याचष्टे-स्थितिरिति । सर्वाश्च मूर्तयः स्थितिप्रसवसंस्त्यानरूपाः, तथापि योग्यशब्दनिबन्धनविवक्षानियमाश्रयेण कस्यचिदेव लिङ्गभेदस्य कस्मिंश्चिच्छब्दे संस्कारार्थ व्यापार इति विवक्षैव विशेष आश्रीयत इति भावः । तत्र आचार्यो दोषमाह30 तटतटीतटानामिति, अत्र तटस्यैकत्वेन विषयविशेषो नास्तीति कथं तटशब्दस्य लिङ्गत्रयोपपत्तिरिति भावः । अविशेषत्वे हेतुमाह-अभिनेति, तटस्तटी तटमित्यत्र तटस्वरूपे भेदाभावादिति भावः। तं भावं दृष्टान्तेन व्यञ्जयति-यथा घट एवेति । विषयविशेषमुपपादयति वादी-गोचरेति, गोचरो विषयः । लिङ्गभेदप्रयोजकविषयाभावं संस्त्यानप्रसवस्थितीनां परस्परात्मकत्वादर्शयति-यस्मादिति, यतः संस्त्यानप्रसवयोर्विषयो नास्ति परस्परात्मकत्वात्तयोरिति भावः, पुलिङ्गादेर्व्यवस्थापकतया हीष्टाः १ सर्वमूर्तिषु, इदं पदं सि. क्ष. डे. प्रतिषु नास्ति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430