Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 212
________________ पक्षद्वये प्रयोगसाफल्यम् ] ७८१ www दीनामेवेति, सर्वा एव तु एकस्य- - के[स्य ] चिदर्थस्यानेकाः शब्दैरेव प्रकल्पिताः - शब्दशक्त्युत्थापिता इत्यर्थः, एतमेवार्थं भाष्येण विवृणोति - इहैक मेवार्थवस्त्वित्यादि, वस्तुत एक ओदन एकस्यां · पचनावस्थायामेकस्मिन् मुहूर्तादौ काले बहुभिः वक्तृभिर्युगपदेकेन वा पर्यायेण वक्त्रोच्येत विरुद्वैर्धमैः, तद्यथेति निदर्शयतिओदनमिति, देवदत्तादिकर्त्तृसमारूढक्रियं कर्म, पाक ओदनस्येति षष्ठ्या सम्बन्धमात्रम्, पाककर्मत्रं, निर्वृत्तिं पाकस्येति च पाकसम्बन्धित्वमिति, तत्र यदीत्यादिना भावयति यावत् पाकस्येति, बाह्येऽर्थे विरुद्धधर्म सम्ब - 5 न्धाभावात् युगपदेककाले न घटत एव, नापि क्रमेण प्रयोगे वस्तुन एकत्वात् पाकसमवायिनः ओदनाख्यस्य पाकावस्थायाः कालस्य च तस्मादित्यादि, पारिशेष्यात् अविद्यमाना चेत्यादिना प्रथमविकल्पे दर्शयति-शब्दस्यैव शक्तयो यावत् समध्यारोप्यन्त इति, सर्वशक्तियोगे वेत्यादि द्वितीयविकल्पेऽपि शब्दशक्तिमेव दर्शयति-यावत् प्रकाशयतीति, तत्राशक्तिपक्षे वस्तुगता शक्तिर्नास्त्येवेत्यभ्युपगतत्वादप्रयोजिका शब्दप्रयोगस्य, खपुष्पवदसत्त्वात्, ने ह्यस्या इत्यादिभावनागतार्था यावत् किञ्चिदपि प्रयोजनमस्ति प्रयोजने 10 सति प्रयोगः स्यात्, तस्यामसत्यामपि बाह्यार्थशक्तौ मत्यक्ष सम्भवत्येव शब्दप्रयोगो यस्मात् योग्यशब्दनिबन्धनेत्यादि गतार्थं यावत् शक्तिमध्यारोपयति । सर्वशक्तिपक्षे तु मम विशेषणव्यवस्थितां कुतश्चिदनादेयां अव्यतिकीर्णामनन्यशब्दवाच्यां तां तां शक्तिमुपादाय स्वविषयनियताः शब्दाः प्रयुज्यंते प्रयोगसाफल्यमस्तीति, तस्मादुभयोरपि पक्षयोः शब्दप्रयोगसाफल्यं सम्भवतीति । शक्तिमहिम्नैवोत्थापिता इत्याह- सर्वा एव त्विति । एकरूपमेव दृश्यं वस्तु एकदा बहुभिर्नरैर्विरुद्धेर्धर्मैर्युगपदुच्यते ओदनं पचि ओदनस्य पाक इति तत्कथं युज्यते, यद्योदनं कर्म न तर्हि कर्मत्वनिवृत्तिरूपं सम्बन्धित्वं तस्य भवेत्, यदि सम्बन्धि ओदनं न तर्हि कर्म भवेत्, कर्मत्वसम्बन्धित्वयोर्विरोधादेकदैकत्रायुक्तेरित्यभिप्रायेणाह - वस्तुत एक इति, अत्र बहुभिर्वत्तृभिर्युगपत् एकेन वक्त्रा पर्यायेण विरुद्धधर्मैरुच्येतेति योजनीयम् । देवदत्तादीति कर्तृभूतदेवदत्तादिनिष्ठप्रधानीभूतव्यापारजन्यफलाश्रयमोदनं कर्मेत्यर्थः । पाक ओदनस्येत्यत्रौदनशब्दोत्तरषष्ट्या पाककर्मत्वनिवृत्तिपूर्वकं सम्बन्धमात्रं प्रतीयते इत्याह-पाक ओदनस्येतीति । तस्मान्नार्थेषु 20 शक्तिः पृथगस्ति, न वा शब्देऽर्थनिरूपिता, किन्तु बुद्ध्या बाह्यार्थनिरपेक्षं बौद्धेऽभिजल्परूपे शब्दे शक्तयः समध्यारोप्यन्ते इत्याहपारिशेष्यादिति, बाह्यार्थे कर्मत्वतन्निवृत्तिलक्षणविरुद्धधर्मसम्बन्धासम्भवेनैकेन वक्त्रा क्रमेण बहुभिर्वा युगपत्तैर्धर्मैरेकस्य वक्तुमशक्तेः शब्दार्थयोर्वाच्यवाचकभावलक्षणाया वास्तवशक्तेरसम्भवादध्यासस्यैव शरणीकरणीयत्वादिति भावः । प्रथमविकल्पे - अर्थेषु शक्तिर्न पृथगस्तीत्यशक्तिपक्ष इत्यर्थः, सर्वशक्तिपक्षेऽपि शब्दः प्रतिनियतमेवार्थं प्रकाशयति, अर्थार्थत्वाच्छब्दप्रयोगस्येत्याहसर्वशक्तियोगे वेति । अर्थवस्तुन्यशक्तिपक्षे शक्त्यभावात्तदर्थबोधनेच्छ्या शब्दप्रयोगो निरर्थक एव, तत्र शक्तेः शब्दप्रयोगे 25 प्रयोजकत्वाभावात् असत्त्वात् खपुष्पवत्, तस्या अर्थस्य सन्निधानमसन्निधानं न हि भवति किञ्चित्करम्, यदि भवेत्तर्हि स्याच्छब्दप्रयोगो न चैवमस्ति ततो न बहिरर्थापेक्षया शक्तिः शब्दप्रयोगप्रयोजिकेत्याह-तत्राशक्तिपक्ष इति । तर्हि कथं शब्दप्रयोग इत्यत्राह-तस्यामसत्यामपीति, बाह्यार्थविषयशक्त्यभावेऽपीत्यर्थः, अर्थं प्रत्याययिष्यामीति गवाद्यर्थबोधनाय प्रयुक्तो गवादिशब्दः, एवञ्चोच्चारणात् प्रागन्तःकरणवृत्त्या योऽयं शब्दः सोऽर्थो योऽर्थः स शब्द इत्येवमध्यासादन्यव्यावृत्तरूपेण यस्मिन्नर्थे तादात्म्यमापन्नो यः शब्दः सोऽर्थप्रत्ययं जनयतीति नास्ति बहिरर्थगतशब्दापेक्षेति भावः । योग्येति, योग्यशब्दनिबन्धना 30 विवक्षा- योऽयं गोशब्दः स एव गवार्थः, योऽयं गवार्थः स एव गोशब्द इति गोशब्दोच्चारणात् प्रागन्यव्यावृत्तरूपेण बुद्ध्या बिषयीकृतार्थतादात्म्यापन्नशब्दबोधनेच्छेत्यर्थः, तदेवं शब्दप्रयोगसाफल्यमशक्तिपक्षे विज्ञेयम् । सर्वशक्तिपक्षे प्रयोगसाफल्यं दर्शयति - सर्वशक्तिपक्षे त्विति, अर्थस्य सर्वशक्तिमत्त्वेऽपि काञ्चिदेकामसाधारणीं शक्तिमादायैव शब्दाः स्वमहिम्नैव प्रति१ . क्वचिदर्थस्य । २ सि. क्ष. शक्ति यावत् । ३ सि.क्ष. न हि स्येत्यादि । Jain Education International 2010_04 द्वादशारनयचक्रम् For Private & Personal. Use Only 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430