Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 370
________________ ९३९ हेतुग्रहे साध्यो गृहीत एव] द्वादशारनयचक्रम् ___ स्यान्मतं लिङ्गत्वादग्निः प्रत्यक्षं प्रमाणान्तरमपेक्षते धूमवदिति तन्न भवति एवञ्च बद्धमूलत्वादिविशिष्टधूमपरिग्रहेऽग्नेरपि गृहीतत्वान्न प्रत्यक्षादिप्रमाणान्तरमपेक्ष्यम्, कृतकत्वेनेवानित्यत्वस्य, कृतकमित्युक्ते तदेव ह्यनित्यमध्रुवमित्युक्तं भवति, उत्पादविनाशयोरध्रौव्याभेदात् , तथा धूमग्रहणेऽग्निग्रहणं प्रदेशात्माभेदात् स एव निमित्तमग्नि—मस्य सहचरश्च, न हि तस्य धूमस्याग्नितोऽन्यन्निमित्तं भवितुमर्हति परिणाम्यभेदपरिणामान्तरसाध्यत्वे परि- 5 णामान्तरसाधनत्वात् , पूर्वप्रत्यक्षवदन्वयकाले सम्बन्धस्मरणादन्यतरविवक्षितहेतुनोपात्तस्येतरस्य साध्यस्याभिव्यक्तिः क्रियते, अर्हत्तत्त्वस्याभ्युपगम्यमानत्वात् । । एवञ्चेत्यादि, एवं-उक्तबद्धमूलत्वादिविशिष्टधूमपरिग्रहेऽग्नेरपि गृहीतत्वान्न प्रत्यक्षादिप्रमाणान्तरमपेक्ष्यम् , किमिव ? कृतकत्वेनेवानित्यत्वस्य, तद्यथा-प्रागभावप्रध्वंसाभावाख्यमेकमेवं वस्तु अनित्यं कृतकञ्चोच्यते, ध्रुव स्थैर्य, ध्रुवं-स्थिरं 'ल्येबूनेणूं।' (वार्तिक १८६५) इति त्यप् नित्यं न नित्यमनित्यमिति 10 कृतकमित्युक्ते तदेवानियमध्रुवमित्युक्तं भव[ति,उत्पादविनाशयोरध्रौव्याभेदात् , तथा धूमग्रहणेऽनिग्रहणं प्रदेशात्माभेदात् , स एव निमित्तमग्निधूमस्य सहचरश्च, न हि तस्येत्यादि यावत् क्रियते[इत्यादि, नहि तस्य-धूमस्याग्नितोऽन्यन्निमित्तं प्रदेशपरिणामात्मकात् देशान्तरस्थाग्निपाषाणाम्बुकुम्भादि भवितुमर्हति सहचरं वा, तदसम्बद्धत्रैलोक्यलिङ्गत्वप्रसङ्गात्, परिणाम्यभेदपरिणामान्तरसाध्यत्वे परिणामान्तरसाधनत्वात् एवमस्यैव हेतुसद्भावभावनार्थमाह-पूर्वप्रत्यक्षेत्यादि, यथापूर्वं प्रत्यक्षकालेऽग्निना सम्बद्धो धूमोऽग्निश्च धूमेन, 15 तथाऽन्वयकाले तस्य सम्बन्धस्य स्मरणात्-यत्राग्निस्तत्र धूमो यत्र धूमस्तत्राग्निरित्यन्यतरेण विवक्षितेन मत्त्वमन्तरेण धूमवत्त्वाभावस्येव तत्कालसन्निहिताग्निनिमित्तत्वमपि गमयतीति प्रघट्टकार्थः । ननु यद्यनिर्लिङ्ग ततो धूमवत् प्रत्यक्षादिप्रमाणान्तरमपेक्षेत, न हि स्वरूपसन् धूमो लिङ्गं भवति, किन्तु प्रदेशे प्रत्यक्षादिप्रमाणान्तरेण गृहीत एव, तथाऽग्निरपि स्यादित्याशङ्कायामाह-एवञ्चेति । स्यादेवं यद्यग्निर्न गृहीतः, किन्तु बद्धमूलत्वादिविशेषणविशिष्टे धूमे गृहीते सत्यग्निरपि गृहीत एवेति न प्रत्यक्षादिप्रमाणान्तरापेक्षा तस्येत्याह-एवमुक्तेति । तत्र दृष्टान्तमाह-कृतकत्वेनेवेति, कृतकत्वं प्रागभावरूपं प्रध्वंसा-20 भावरूपञ्चानित्यत्वम् , तदुभयमप्येकवस्त्वात्मकम् , यदेव हि वस्तु कृतकं तदेवानित्यमुच्यते, एवञ्च कृतकत्वानित्यत्वयोस्तादात्म्याद्वस्तुनः कृतकत्वनिश्चयेऽनित्यत्वमप्यैकात्म्यान्निश्चितमेवेति भावः । इदमेवाह-ध्रव स्थैर्य इति, ध्रुवधातुस्स्थैर्यऽर्थे वर्तते ध्रुवं स्थिरं नित्यमित्येकार्थाः, नित्यमिति निशब्दात् त्यप् प्रत्ययः स्थैर्येऽर्थे, 'त्यब्नेर्भुव इति वक्तव्य'मिति वार्तिकात्, न नित्यमनित्यमध्रौव्यमुत्पादविनाशशालीत्यर्थः, दार्शन्तिकमाह-तथा धूमग्रहण इति, धूमाम्योरात्मैक्यात् धूमग्रहणे तदात्माभिन्नाग्नेरपि ग्रहण भवत्येव, एवम्भूत एवाग्निधूमस्य निमित्तं सहचरश्चेति भावः । न हि धूमस्येदृशस्य खात्मभूतप्रदेशात्मकपरिणामभूतादग्नेरन्यो 25 देशान्तरस्थोऽग्निः पाषाणादिर्वा निमित्तं भवितुमर्हति, यतः एकस्य वस्तुनः परिणामभूतयोर्धर्मयोर्मध्ये एकस्य सहचरस्य निमित्तस्य धर्मस्य साध्यत्वेऽपरः सहचरो नैमित्तिको धर्मों हेतुर्भवति, अन्यथा देशान्तरस्थान्यादीनामपरिणामभूतानामपि साधनत्वे सर्वस्य सर्व साधनं स्यादित्याह-न हि तस्येति । ईदृशस्यैवानेधूमस्य वा हेतुहेतुमद्भावं दर्शयति-यथा पूर्वमिति, प्राक् क्वचित् प्रत्यक्षतोऽग्निसम्बद्धो धूमो धूमसम्बद्धोऽग्निर्वाऽवगतः, प्रदेशे धूमस्याग्नेर्वा दर्शनात तयोः सम्बन्धस्य स्मरणं भवति, यत्र यत्राग्नि स्तत्र तत्र धूमः, यत्र यत्र धूमस्तत्र तत्रानिरिति ततः प्रतिपिपादयिषितेन हेतुनान्यतरेणापरस्य साध्यस्याभिव्यक्तिर्भवतीति भावः । 30 १xx९३५ पृष्ठादियदवधि क्ष. प्रतौ पाठस्सुटितः। २ सि.क्ष. छा. डे. न ध्रुवेत्यमनित्यं । ३ सि.क्ष. छा. डे. धूमो नाग्निश्च । _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430