Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 392
________________ www marwa अङ्गीकृतार्थान्तरापोहपक्षभञ्जनम् ] द्वादशारनयचक्रम् दोषः स्यात् , किश्चान्यत्-तत एवार्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इत्येतस्यार्थान्तरापोहेन स्वार्थाभिधानमिति लक्षणस्य त्यागः कृतः स्यात् , एषोऽप्यभ्युपगमत्यागदोषोऽपर इति, एवन्तावदनङ्गीकृतार्थान्तरवृत्तिः सदित्यसन्न भवतीति सामान्यशब्दार्थेऽन्यापोहो न युक्तः, विधिरेव युक्त इति । अथैतेभ्य एव भयादङ्गीकृतार्थान्तरपोह इष्यते तत इदं विघटते सदित्यसन्न भवतीति, प्रतिस्वं सत् सर्वमपि घटादीति, सर्वमपि हि प्रतिस्वं प्रत्यात्म सदेवासदपि भवतीतरेतरा- 5 भावादिभ्यः, अत्र प्रयोगः-असताऽपि हि तेन सता केनचिद्भवितव्यम् , प्रत्येकवृत्तित्वात् , यथा घटादन्यः पटो घटत्वेनासन्नेव पटत्वेन सन् दृष्ट इति, एवमङ्गीकृतार्थभेदत्वे सद्भवत्येवासत्, अभ्युपगतमपि चैतत्त्वयापि घट इत्यघटो न भवतीति वृक्ष इत्यवृक्षो न भवतीत्येवमाद्यन्यापोहशब्दार्थवादित्वादिति ।। अथैतेभ्य एवेति, अथ मा भूवन्नेते पर्युदासात्मकान्यशब्दार्थान्तरापोहस्वार्थाभिधानलक्षणा- 10 भ्युपगमत्यागदोषा इति तेभ्य एव भयादङ्गीकृतार्थान्तरवृत्तिरपोह इष्यते तत इदं विघटते सदित्यसन्न भवतीति, कस्मात् ? प्रतिवं सत् सर्वमपि घटादीति, इतिशब्दस्य हेत्वर्थत्वात् प्रतिस्वं सर्वस्य सत्त्वात् , सर्व हि प्रतिस्वं प्रत्यात्म-प्रत्येकमात्मना सदेवासदपि भवति, न ह्यसन्न भवति, कुतः, ? इतरेतराभावादिभ्यः प्राक्प्रध्वंसेतरेतर[भिाव]संयोगसमवायप्रमाणसामर्थ्यादिभेदेन सदेवासद्भवतीति विस्तरत उत्पतद्भिरेव प्रतिपादितमस्माभिः घटो घटात्मना सनं भवत्यसन्नेव पटात्मनेत्यादि, अत्र प्रयोगः-असताऽपि हि तेन 15 सता केनचिद्भवितव्यमिति प्रतिज्ञा, यो भवति येन प्रकारेण च भवति तेन द्विविधेनाप्यसता भवितव्यमित्यर्थः, कस्मात् ? प्रत्येकवृत्तित्वात्-प्रतिस्वमात्मरूपेण वर्तमानत्वात् , अथवा सत्त्वाद्यः सन् प्रत्येकं वा वर्तते mommmmmmmm wwwwww न्तरापोह हि स्वार्थे कुर्वती श्रुतिरभिधत्त इति लक्षणस्यापि त्यागः प्रसक्त इत्याह-तत एवेति, अन्यस्याभावादेवेत्यर्थः । अयमप्यभ्युपगमदोष एवेत्याह-एषोऽपीति । तदेवं सदिति सामान्यशब्दार्थे प्रथमा वृत्तिरनङ्गीकृतार्थान्तरवृत्तिरूपा दूषितेत्याह-एवं तावदिति । उक्तविधिनाऽन्याभावादभ्युपगमत्यागप्रसङ्गेनानङ्गीकृतार्थान्तरवृत्तित्वं सामान्यशब्दस्य न सम्भवतीति सामान्योप-20 सर्जनद्वारेण विधिरूपो विशेष एव शब्दार्थ इत्याशयेनाह-विधिरेवेति । नन्वेतावता विधिवाचकत्वं शब्दस्य नाभ्युपगच्छामः किन्तु अङ्गीकृतार्थान्तरवृत्तित्वमुपेम इत्याह-अथैतेभ्य इति । व्याकरोति-अथ मा भूवन्निति, पर्युदासात्मकं यदन्यरूपं शब्दान्तरमर्थान्तरञ्च तदपोहद्वारेण खार्थाभिधानरूपलक्षणस्य योऽयमभ्युपगमः तत्त्यागरूपदोषो मा भूदिति तद्दोषभयादनङ्गीकृतार्थान्तरवृत्तित्वमपहायाङ्गीकृतार्थान्तरवृत्तिपक्षः स्वीक्रियत इति भावः। तत्पक्षेऽपि सदित्यसन्न भवतीति न सङ्घटत इत्याहतत इदमिति । जगति यावन्ति पदार्थजातानि तानि सर्वाणि प्रत्येक सद्रूपाण्येव तेऽसदित्यभिमतान्यपीति सर्व वस्तु सदपि 25 असदपि भवति, नहि किञ्चिदसन्न भवतीत्याह-प्रतिस्वमिति, प्रतिस्खं सर्वस्य सत्त्वात् न भवत्यसन्निति कथं वक्तुं युज्यते प्रागभावप्रध्वंसाभावेतरेतराभावादिभ्यः सत एवासत्त्वात् , स्थासक एव हि कोशकप्रागभावः, कोशक एव स्थासकप्रध्वंसाभावः, घट एव पटेतरेतराभावः, पटश्च घटेतरेतराभाव इत्येवं सत एवासद्रूपतेति भावः । अत्रार्थे दृष्टान्तमाह-घटो घटात्मनेति । अनुमानेनापीदं साधयति-अत्र प्रयोग इति, सताऽसता भवितव्यम् , सत् असदपि स्यादित्यर्थः, तथा केनचिद्रूपेण सताऽसतापि भवितव्यम् , नहि किञ्चित् सर्वथा सद्भवति तथा च येनकेनचिद्रूपेण यत्सत् तदपि असत् स्यादिति साध्यार्थः । एतमेवाह-यो 30 मान्यतः सदसदपीत्यर्थः, येन प्रकारेण भवति सत्त्वेन रूपेण सत् असदपीत्यर्थः । हेतुमाह-प्रत्येकवृत्तित्त्वादिति, १ सि.क्ष. छा. डे. उक्तइति । २ सि.क्ष. छा. डे. सन्नभ० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430