Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९८०
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे वृक्षदर्शनबलादेव वाऽवृक्षदर्शनसिद्धिः, वृक्षावृक्षदर्शनाचायं वृक्षोऽयं घटादिरवृक्ष इति सिद्धिर्नादृष्टे तस्माद्दर्शमेवैवं सिद्ध्यति नादर्शनमिति ।। ___ अपितृवदवृक्षादर्शनं व्यतिरेकत इति चेन्न, उक्तवत् पितृकल्पस्य दर्शनमत्रापि स्यात्, न चेत् प्रागुक्तवदेवानुपपत्तिः, व्यवस्थाकारिदर्शनेनायं वृक्षोऽयमन्योऽस्माद्धटा। दिरवृक्ष इति व्यवस्थिते हि विधेये वृक्षेऽदर्शने त्ववृक्ष इति स्यात्।
(अपितृवदिति) अपितृवदवृक्षादर्शनं व्यतिरेक[त] इति चेत् स्यान्मतं पितुरन्योऽपिता सर्व इत्यादिप्रागुक्तवददर्शनमित्येतच्च न, उक्तवत् पितृकल्पस्य दर्शनं स्यादत्रापि, न चेत् प्रागुक्तवदेवानुपपत्तिः, प्रत्यक्षदर्शनबलेन ह्ययं वृक्षोऽयमन्योऽस्माद्भुटादिरवृक्ष इति व्यवस्थिते विधिना दृष्टेऽन्यापोहलक्षणमदर्शनं
स्यान्नान्यथेति, एतदर्थप्रदर्शनो ग्रन्थो व्यवस्थाकारीत्यादि यावत्[व्यव] स्थिते हि वृक्षे विधेयेऽदर्शने त्ववृक्ष 10 इति स्यात्-विधिना दर्शनान्वये सति सिद्ध्यत्येतदिति दर्शयत्येष ग्रन्थः ।
व्यावृत्तिपक्षे त्वनिष्टापादनम्
स तु तव तदा स्याद्यदाऽनवस्थावारणाय व्यावर्त्यव्यावर्तकयोर्विधिना व्यवस्थापकं दर्शनं भवेत् , तच्च नेष्यत एव, विधिप्राधान्ये तु पृथिवीत्वाद्युत्तरभावा वृक्षादिपूर्वभवनविज्ञानविध्यापाद्याः दृष्टाः वृक्षाद्यात्मकत्वाद्वक्षादिस्वात्मवत् , वृक्षादिपूर्वभावाः पृथिव्याधुत्तरभवनविज्ञान15 विध्यापाद्याः तदनतिरिक्तात्मकत्वात् वृक्षमूलादिवदेवं विधिरूपेण दृष्टवदेवानुमानमभिधानञ्च युज्यते।
स तु तव तदेत्यादि, यावत्तच्च नेष्यत एव त्वयेति विभक्तिविपरिणामात् , घटादिभ्यो व्यावृत्तौ
मवृक्षव्यतिरेक एव वृक्षशब्दार्थः स्यात् , अभावनिवृत्तश्चान्यस्य वृक्षादेरभावात् वृक्षोऽभावमात्रमिति वृक्षादिशब्दान्न किञ्चिदुक्तं स्यात्, एवमवृक्षः कोऽपि नास्ति तस्मादवृक्षस्यैवाभावः, घटपटादिनिखिलपदार्थस्यावृक्षाभावत्वेन वृक्षीभूतत्वात्, दृष्टे हि 20 वृक्षे घटपटादिरवृक्षः स्यादिति भावः । कथमन्यापोहः स्यादित्यत्राह-वृक्षदर्शनबलादेवेति, स्पष्टम् , एवञ्चान्वयदर्शनमन्तरेण सर्वादर्शनमेव प्रसज्यत इति भावः । ननु पितुरन्ये पुरुषास्तत्तद्रूपेण पिता च पितृत्वेनादृष्टाः सन्तोऽपि पितुरन्यत्वेनापितृव्यतिरेकेण च दृश्यन्त एव यथा तथा वृक्षादावपीत्याशङ्कते-अपितृवदिति । यथा पितुरन्ये सर्वे पुरुषा अनाश्रितभेदरूपा अन्यत्वरूपव्यावृत्तिबुद्धिमात्रेण निरवयवा एव प्रतीयन्ते पिता चापितृव्यतिरेकेण तद्वदनापीति व्याचष्टे-स्यान्मतमिति। पितरि तत्सदृशे
भ्रात्रादौ विधिरूपेण तत्पर्युदासरूपेणैष मे पिता नेमे भ्रात्रादय इति गृहीते परजनेषु पितुरन्यत्वं प्रतिपत्तुं शक्यमिति प्रागुदितं 25 स्मारयति-उक्तवदिति । अन्यथा सर्वस्यादर्शनादत्यन्तादृष्टपित्रपितृस्वरूपत्वादपितृव्यतिरेकेण दर्शनं नैवोपपद्यत इत्याश
येनाह-न चेदिति । तत्तदन्ययोर्व्यवस्थाकृद्धि विधिरूपतो दर्शनम् , एवञ्च प्रत्यक्षतो विधिरूपेण वृक्षादौ दृष्टे विधिरूपेणैव च दृष्टे घटादाववृक्षत्वग्रहेऽयं वृक्षोऽयं घटादिवृक्षादन्योऽवृक्ष इति दर्शनेन विधेये वृक्षे व्यवस्थिते तददर्शने चावृक्ष इति स्यादित्याह-प्रत्यक्षदर्शनबलेनेति । एतद्न्थाभिप्रायमाचष्टे-विधिनेति । अन्यापोहलक्षणेऽदर्शने व्यतिरेकेऽनवस्थामापाद्यान्यापोहासम्भवप्रकारमादर्शयति-स तु तवेति । त्वयेति, तवेत्युक्तस्य युष्मच्छब्दस्य तृतीयान्ततया विपरिणमय्य नेष्यत एवेत्यनेन पदेन योजन30 कार्येति भावः । अथ वृक्षादिशब्दादवृक्षव्यावृत्तिरूपेण वृक्षादिबोधस्तदा स्यात् यदा व्यावर्त्यघटादिप्रतियोगिकव्यावृत्तः सिद्धिः स्यात् व्यावृत्तिप्रतियोगिनो घटादेावर्त्यस्य सिद्धिस्तु वृक्षादेः सिद्धौ स्यात् , न हि वृक्षाग्रहणेऽवृक्षभूतघटादिसिद्धिस्तदसिद्धौ वा तळ्यावत्यसिद्ध्या वृक्षग्रहणमिति दूषयति-घटादिभ्य इति । परस्परसिद्ध्यधीनसिद्धिकत्वदोषस्तु दर्शनस्य व्यवस्थापकत्वेऽभ्युपगते न
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430