Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
अत्र मूलप्रमाणोपन्यसनम् ]
द्वादशारनयचक्रम्
इत्थमक्ष
समन्तादर्थे, अव गत्यर्थे धातुः, परितोऽवनं समन्ताद्गमनं पर्यवः, तथाऽऽचष्टे - समन्ताद्रवति, रार्थमुक्त्वा वस्तुतो दर्शयति - कोऽसौ ? भेदो भावोपसर्जन:- यो भवति घटादिर्भेदः स भवनक्रियो - पसर्जनपर्यवः सोऽस्तीति यस्य नयस्य मतिः स पर्यवास्तिक इति तद्धितप्रत्ययान्तार्थः प्रकृत्यर्थेन विशेषितो ज्ञेयः ।
किमेताः स्वमनीषिका एवोच्यन्तेऽस्ति किञ्चिन्निबन्धनमै स्यार्षमपीति अस्तीत्युच्यते, तद्यथानिर्गमनवाक्यमप्यस्य 'दुवालसँगं गणिपिडगमेगं पुरिसं पडुच्च' (नन्दि० ४२ ) इत्यादीति विधिनियम नियमः ।
(निर्गमनेति ) निर्गमनवाक्यमप्यस्य 'दुवालसँगं गणिपिडगमेगं पुरिसं पडुच्च' इत्याद्यार्षग्रन्थं साक्षित्वेना हैतन्मतसंवादिनम्, यद्यप्ययमागमोऽनेकपुरुषान्वये सदा व्यवस्थितः तथापि प्रत्येकं पुरुषविशेषाश्रित एव निश्चयाय, क्रियासामान्योपसर्जनविशेषपरमार्थत्वात् भवत्यर्थस्य, तच्च द्वादशाङ्गं गणिपिटकं, 10 अत एव सौदिसपर्यवसान क्षणिकमेवेत्यर्थः, इत्यादिग्रहणादन्यदपि, प्रकृतिस्थित्यनुभावप्रदेशबन्धादिप्ररूपणा एकसमयमात्रविषया मिथ्यादर्शनादिपरिणामाध्यवसायप्ररूपणा च द्रष्टव्या, इतिः परिसमाप्तौ इत्थं विधिनिमोर्नियम एव प्रदर्शनो गुणप्रधानभावेनायमष्टमोऽरः समाप्तञ्च द्वितीयो मार्ग उभयविकल्पभेदोपदर्शनः ॥ - अष्टमोऽरः -
-: समासः :
www.www.
१९७
Jain Education International 2010_04
१ सि.क्ष. छा. डे. 'स्यार्थमपीति । २ सि. क्षे. छा. डे. 'द्यार्चप्रथ ३ सि. क्ष. डे. यस्याप्यपमागमो छा. यस्ययगमागमो० । ४ हा. सि. तदा । ५ सि. क्ष. छा. डे. साद्यसप० ।
भेदो भावोपसर्जनो ग्राह्य इत्याह-भेद इति । भावो हि क्रियाविवक्षिता घटादिभेदानां भवनक्रियासमन्वितत्वात् भवन क्रियो - पसर्जनश्च विशेषोऽस्य नयस्य विषयः पर्यवोऽस्तीति मतिर्यस्यासौ पर्यवास्तिकः, 'अस्ति नास्तिदिष्टं मति' रिति सूत्रेण ठक् प्रत्ययात् पर्यवस्ति प्रकृतिक तद्धित प्रत्ययान्तस्यार्थ इत्याह-यो भवतीति । अस्य नयस्य निबन्धनमार्ष पृच्छति - किमेता इति । मूलभूतमार्ष माह-निर्गमनेति । अनेकपुरुषापेक्षया द्वादशा गणिपिटकस्यानाद्यपर्यवसितत्वेन भावोपसर्जनभेदविषयनयस्य कथं निबन्धनं भवितुमर्हतीत्याशङ्कायामाह - यद्यप्ययमागम इति, एकपुरुषापेक्षया द्वादशाङ्गगणिपिटकस्य सादिसपर्यवसितत्वात् क्षणि- 20 कत्वेन निबन्धनं भवितुमर्हतीति भावः । अन्यासामप्यागमोदितप्ररूपणानामादिग्रहणेन निर्गमनं सूचयतीत्याह - इत्यादिग्रहणादिति । अन्यदपीत्यभिमतमेव दर्शयति- प्रकृतीति, एकसमयमात्रविषया प्रकृतिस्थित्यनुभाव प्रदेशप्रभेदबन्धादीनां प्ररूपणा मिथ्यादर्शनादिपरिणामाध्यवसाय प्ररूपणा च तथाविधा ग्राह्येति भावः । एवं विधिनियमयोः - सामान्यविशेषयोः - द्रव्यपर्याययोरुपसर्जनप्रधानभावेन नियमप्रदर्शनपरोऽष्टमोरः । विधिनियमोभयाश्रयेण भङ्गानामुपदर्शको द्वितीयमार्गश्च निरूपित इत्याह- इत्थमिति । इति विजयलब्धिसूरिविरचिते विषमपदविवेचने नयचक्रशास्त्रस्याष्टम उभयनियमनयारः समाप्तः ।
For Private & Personal Use Only
5
15
25
www.jainelibrary.org
Page Navigation
1 ... 426 427 428 429 430