Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 426
________________ प्रत्यायके मतमेदाः] द्वादशारनयचक्रम् ९९५ समुदायः समुदायिभ्यो वर्णादिभ्यस्तदसम्भविकार्यान्तरदर्शनादन्य इति केचिदाहुः, तस्मादेव कार्यात् मा भूदहेतुकमर्थप्रत्यायनं तेषु तस्य प्रतिदेशं समस्तेषु वा देशैः सामस्त्येन वा वृत्त्यसम्भवान्न व्यतिरिक्त इत्यपरे, पूर्ववर्णज्ञानाहितसंस्कारापेक्षान्त्यवर्णे संहृताशेषदेशावयवः समुदायोऽभिधाता पूर्ववर्णजनितबुद्धिपरिपाकादित्येके, सिकतातोयवद्देशान्तरेष्वसतः समुदायात् कुतः सम्भवः प्रत्यायनस्य ? किन्तु तिलतैलवत् सर्वावयवेषु तिरोहिताभिमतेषु सूक्ष्मतामापन्नेषु वितत्य व्यवस्थितो बुद्धिसंस्कारपरिपाकसमुदायोऽभि-5 व्यञ्जकः प्रत्ययस्येत्यपरे, समुदायात्मा शब्द एक एवाभिन्नः प्रत्यायकोऽर्थस्यैकप्रत्ययदर्शनात् , अनेक एव वा, प्रत्यवयवाहितसंस्कारबलाधेयार्थज्ञानत्वादित्येवमादीनि विचारान्तराण्येवैतानि पुरुषमतिसमुत्थापितशुकतर्कविषयत्वात्, किं न एतैः, यदि व्यतिरिक्तो यद्यव्यतिरिक्तोऽन्त्येऽशेषे समस्तेऽप्यभिन्नो भिन्नो वा प्रत्यायकः समुदायोऽवयवा एव वा योऽस्तु सोऽस्तु, सर्वथाऽर्थप्रत्यायनात् फलात् समुदायः शब्द इत्येतावदुपयुज्यते, किं कारणं ? अनवस्थिततर्कत्वात् पुरुषाणाम् , यथोक्तं 'यत्नेनानुमितोऽप्यर्थः' (वाक्य० 10 का० १ श्लो० ३४ ) इत्यादि, तथा हस्तस्पर्शादिवान्धेन' (वाक्य० का० १ श्लो० ४२) इत्यादि, स्यात् , तथा वृत्तिश्च न सम्भवति, दोषसम्भवादिति न समुदायो व्यतिरिक्त इत्यन्येषां मतमिति दर्शयति-तस्मादेव कार्यादिति, अर्थप्रत्यायनरूपात् कार्यादित्यर्थः, वर्णेषु प्रतिवर्ण देशेन समुदायस्य वृत्त्यसम्भवः, समुदायस्य देशाभावात् , सामस्त्येन प्रतिवर्ण वृत्तौ समुदायबाहुल्यम् , एकवर्णपर्याप्तसमुदायादेव बोधसम्भवेऽपरवर्णोच्चारणवैयर्थ्यञ्च, न वा समस्तेषु वर्णेषु वर्तते समुदायः, सामस्त्यासम्भवाद्वर्णानामिति न व्यतिरिक्तः समुदाय इति भावः । पूर्वपूर्ववर्णज्ञानजन्यसंस्कारसहकृतेऽन्ये वर्णेऽशेषान् खदेशानवयवभूता-15 नुपसंहृत्य वर्तमानः समुदायो वाचकोऽर्थस्येत्याह-पूर्ववर्णेति, पूर्वपूर्वसंस्कारसहकृतायां प्राप्तयोग्यतापरिपाकायां बुद्धावन्त्यो वर्णः शब्दस्वरूपं समुदाय सन्निवेशयति स चाभिधाताऽर्थस्येति भावः । अन्त्ये वर्णे एव समुदायाभ्युपगमेऽपरवर्णेष्वसत्त्वात् सिकतायां तोयानुत्पत्तिवत् अर्थप्रत्यायनं तथाविधसमुदायान्न स्यात्, किन्तु तिलेषु तैलवत् प्रत्येकं वर्णेषु तिरोहितत्वात्सूक्ष्मतया वर्तमानेषु व्याप्यवृत्तिः समुदायः पूर्वोक्तोऽर्थप्रत्ययमभिव्यनक्तीति मतान्तरमाह-सिकतातोयवदिति । प्रत्येकवर्णज्ञानजन्यसंस्कारसहकृतान्त्यवर्णज्ञानात् समुदायात्मैकः शब्दो जायते सोऽर्थप्रत्ययजनकः कार्यस्यैकत्वेन कारणस्याप्येकत्वावश्यकत्वादित्यन्यं मतं दर्शयतिसमुदायात्मेति । समुदायावयवा एवानेके प्रत्यायकाः, प्रत्यवयवज्ञानजन्यसंस्कारबलेनार्थज्ञानस्य जायमानत्वादिति मतान्तरं 20 दर्शयति अनेक एव वेति । इत्थमनेकधा विचारः प्रचरति, विचारमात्रमेव केवलमेतत् , तत्त्वन्तु दूर एव, केवलं निर्मूलपुरुषमतिभिरेते तर्का उत्थापिताः, फलरहितत्वाच्छुष्काः नानेन विचारेणास्माकं किमपि प्रयोजनमस्ति किन्वर्थप्रत्ययलक्षणं फलं सर्वानुभवसिद्धम् , तच्च न कारणमन्तरेण भवितुमर्हति, तस्मात् कारणं समुदायात्मा शब्दोऽवश्यमभ्युपेयते, स व्यतिरिक्तो वा भवत्वव्यतिरिक्तो वा, अन्त्यवर्णे वा स्यात् समस्तेषु वा, एको वाऽनेको वा समुदायो वाऽवयवा एव भवतु, नात्र कश्चिद्विचार इत्याह-इत्ये वमादीनीति। अत्र हेतुमाह-अनवस्थितेति,पुरुषाणां तको अनवस्थिताः, शास्त्राननुगतत्वे तेषां तकोणामप्रमाणत्वात् ,'यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ इति कुशलेनैकेन तर्कितस्यापरेण धीमताऽन्यथाकरणात्, तस्याप्यन्येन धीमद्वरेणेतरथा तर्कणादनवस्थैव, अविरामादिति भावः । तत्र भर्तहरिवचनं प्रमाणयति-यत्नेनेति। तस्यैव वचनान्तरमाह-हस्तस्पर्शादीति, 'हस्तस्पर्शादिवान्धेन विषमेष्वभिधावता। अनुमानप्रधानेन विनिपातो न दुर्लभः ॥' यथा कश्चिदन्धः विषमे दुर्गमे पथि दृष्टिमत्पुरुषावलम्बनव्यतिरेकेण त्वरया धावन् कञ्चिदेव मागैकदेशं हस्तस्पर्शनावगम्यं समतिकान्तस्तथैवापरमपि गच्छन् पतनं लभते तथैवाऽऽगमनेत्रमन्तरेण तर्कमात्रावलम्बन दृष्टफलेषु सम्प्राप्तप्रत्ययोऽदृष्टेष्वपि तथा प्रवर्त्तमानो विनिपातं लभ-30 ३ सि.क्ष. छा.डे. त्ये १ सि.क्ष. छा. डे. शेषदोषाव.। २ सि.क्ष. छा.डे. वसतोत्पाकुक०। शेषसमस्ते०। ४ सि. क्ष. डे. स्पर्शादिवत्त्वेन, छा० स्पर्शादिवात्वेन, Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430