Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 419
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वात् , तस्य विशेषहेतोः प्रतिपादनार्थमुक्तं-तत्र हीत्यादि, सत्तासम्बन्धा[भिधा]नपक्षयोर्गुणौ सत्तासम्बन्धौ विशेषणत्वात् तद्वस्तु गुणीत्यतः सामानाधिकरण्य[]भावो युक्तः, इह त्वर्थान्तरापोहः सदित्यसन्न भवतीति नासद्भावमात्रमेवोच्यते, किं तर्हि ? अर्थान्तरापोहेन विशिष्टं वस्त्वेव सदित्युच्यते, यस्मिन् वस्तुन्यपोहः क्रियते तच्च द्रव्यं शब्दार्थो नापोहमात्रम् , स चापोहविशिष्टोऽर्थो द्रव्यादिः सच्छब्देन व्याप्तोऽपरित्यागात् 5 न तु साक्षादुक्तः, तद्व्याख्या-तद्यथा-सच्छब्द इत्यादि, कस्मादनभिधानमिति चेत् संशयोत्पत्ते[:][व] रूपतत्त्वे सत्यनभिहिते संशयः स्यात् , तस्मात् सामानाधिकरण्यं विशेषाथैः द्रव्यादिशब्दैः सच्छब्दस्य वाक्यार्थे युक्तं न पदार्थे, तद्दर्शयति-सद्रव्यं सन्गुण इत्यादि, तथा हि स्वार्थाव्यभिचारो विशेषसहितस्येति विशेषशब्दप्रयोगः। कोऽसौ वाक्यार्थ इत्यत आह यस्मादवयवशब्दार्थाभ्यामन्यः समुदायार्थः तस्य च वाचकौ तौ समुदितौ न विपरीतार्थों-न तु सच्छब्दो द्रव्यार्थमाह न द्रव्यशब्दः सदर्थ कथमिदं तर्हि यत् सत्तद्रव्यं यद्रव्यं तत्सदिति ? उभयशब्दार्थव्युदासानुगृहीतस्य समुदायार्थस्यैकत्वात् , संहतशब्दद्वयाभिधेयात् , न तु सदर्थस्य द्रव्यशब्देनाभिधानादिति । (यस्मादिति) यस्मादवयवशब्दार्थाभ्यामन्यः समुदायार्थः सद्रव्यशब्दार्थावयवावसद्व्य mmmmmmmm 10 15 द्रव्यस्य गुणस्य वा, विशेषणत्वात् , द्रव्यं गुणो वा विशेष्यम् , न हि धर्मभूतस्य च सत्तायाः सम्बन्धस्य वा द्रव्येण गुणेन वाऽभेदः येन सामानाधिकरण्यं सच्छब्दद्रव्यशब्दयोः स्यात्, एकार्थप्रतिपादकत्वाभावात् , किन्तु आधाराधेयभाव एव भेदव्याप्तः सम्बन्धः सत्तायाः द्रव्येण गुणेन वा सम्बन्धस्यापि ताभ्यां स्यात् , एवञ्च व्यधिकरणत्वात्तयोविशेष्यविशेषणयो~धिकरणविभक्तिरेव स्यान्न समानाधिकरणविभक्तिः, श्रूयते च सव्यं सन्गुण इति, तस्मादपृथक्श्रुतिरेतन्मते दोष इति दर्शयति-सत्तासम्ब न्धाभिधानपक्षयोरिति । अन्यापोहपक्षे तु नायं दोष इत्याह-इह विति। सच्छब्देनोच्यमानोऽर्थान्तरापोहः केवलमसन्नि20 वृत्तिमात्रमेव न हि, किन्तु अर्थान्तरापोह विशिष्टं वस्तु, असदपोहवान् सच्छब्दार्थ इति भावः । तदेवोच्यते-यस्मिन् वस्तुनीति, स्वसम्बन्धिभ्योऽन्यत्र न सच्छब्दो दृश्यतेऽतोऽन्येषामपोहः स्वसम्बन्धिषु क्रियते, स च सम्बन्धिरेव द्रव्यादिः सच्छब्दार्थः, खसम्बन्धित्वेन सर्वेषां द्रव्यादीनां परिग्रहात , अत एव ते द्रव्यादयो द्रव्यत्वादिना साक्षान्नोक्ताः किन्तु व्याप्तत्वेनोक्ता इति भावः। सदित्युक्तौ तत् किं द्रव्यं किं गुणः कर्म वा घटादि वेष्ट इति संशयो जायते, एषोऽनुभवसिद्धः, यदि च सच्छब्दः द्रव्यादित्वेन द्रव्यादीन् साक्षाद्वदेत् तर्हि नायं संशयः स्यात् , द्रव्यत्वलक्षणविशेषदर्शनात् , द्रव्यादेः स्वरूपभूते तत्त्वे-द्रव्यत्वा25 दावनभिहिते सति संशयो भवति न त्वभिहिते तदा निश्चयस्यैवोदयादित्याशयेनाह-सच्छब्द इत्यादीति । एवञ्च सदिति सामान्यशब्देनासदपोहवत उपस्थितौ द्रव्यमिति विशेषशब्देन द्रव्यादिरूपविशेषार्थोपस्थितौ तयोरेकार्थत्वेन तद्वाचकशब्दयोः सामानाधिकरण्यं युज्यते, तदेवं सामानाधिकरण्यं वाक्यार्थे विज्ञेयं न पदार्थे, पदार्थस्तु सच्छब्दस्यासदपोहवान् द्रव्यशब्दस्य च द्रव्यरूपो मेदोऽर्थः, केवलं सत्पदेन न द्रव्यरूपभेदस्याभिधानम् , असदपोहरूपेण द्रव्यस्येव गुणकर्मणोरपि बोधादिति व्यभिचारः स्यात् , स च द्रव्यपदप्रयोगे व्यावर्त्यतेऽतो विशेषपदसमभिव्याहृतसामान्यपदेन स्वार्थाव्यभिचार इत्याशयेनाह-तस्मात् सामाना30 धिकरण्यमिति । वाक्यार्थं तावदर्शयति-यस्मादिति । सद् द्रव्यमिति हि वाक्यं तस्यावयवौ सच्छब्दद्रव्यशब्दो, वाक्यस्य पदसमुदायरूपत्वात् , केवलानि च पदानि स्वार्थनार्थवन्ति क्रमेणोच्चरितानि वाक्यम् , एवंविधाच वाक्यात् व्यतिरिक्तः संसर्गात्मकः विशिष्ट एव वाक्यार्थोऽवगम्यत इत्याशयेन व्याचष्टे-यस्मादवयवेति, सद्व्यमित्यादिवाक्यावयवीभूतसच्छब्दद्रव्यशब्दार्थाभ्यामसद्यावृत्ताद्रव्यव्यावृत्ताभ्यामन्यः समुदायार्थः सद्रव्यरूपः, तस्यार्थस्य तावुभावपि शब्दौ मिलित्वा वाचकौ भवतः, समुदायार्थस्य १ लि. विशेषार्थेद्रव्यादिशाब्देः, क्ष. छा. विशेषार्थे द्रव्यादिशब्दैः। २ सि. क्ष, छा. डे. वाक्यार्थयुक्तं । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430