Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे तद्वतोऽन्यप्रत्ययात्मकत्वात् सामान्यवत्तद्व्यावृत्तेरपि, अथ स्वमते तद्रूपे न सामान्यं न व्यावृत्तिमदिति कुतस्तद्विशिष्टवस्त्यभिधानम् ? खपुष्पशेखरविशिष्टवन्ध्यापुत्राभिधानवत् । :: अपि च भावान्तराभावान्तरत्वाभ्यां न किञ्चित् प्रयोजनमस्ति किन्तु बुद्धिस्थस्यान्वयव्यतिरेकद्वारेणावधारितस्यार्थस्यानुगुण्येन विधिप्रतिषेधयोर्भेदेन प्रत्ययः शब्दार्थसम्बन्धज्ञस्य 5:शब्दप्रयोगादुत्पद्यते सामान्योपसर्जनविशेषशब्दार्थपक्षे वा द्वयोरपि च पक्षयोरुपसर्जनीकृतविशेषणत्वा दानाक्षेपादस्वातंत्र्यादनभिधानं तुल्यमित्येष विचारः प्रयासार्थः, यथा जातिस्वरूपापोहगुणा विशेषणानि पारतंत्र्यादेव श्रुतगुणभेदाभेदत्वा दानामनाक्षेपः, तथा यथाकथञ्चित्........................... स्वातंत्र्यहेतुत्वादिति ।।
३५६ अपि च भावान्तरेत्यादि, यत्र प्रस्तुतार्थोपकारापकारानङ्गत्वाद्भावान्तराभावान्तरत्वाभ्यां न 10 किश्चित् प्रयोजनमस्ति, किन्त्विदमत्र प्रस्तुतार्थोपयोगिकम्-तद्यथा-बुद्धिस्थस्य-शब्दप्रयोगजनितज्ञानोपलक्षितस्यान्वयव्यतिरेकद्वारेणावधारितस्यार्थस्यानुगुण्येन-वशवर्तितयाऽयं भवत्ययं न भवतीति तयोविधिप्रतिषेधयोर्भेदेन प्रत्यय[:]शब्दार्थसम्बन्धज्ञस्य शब्दप्रयोगादुत्पद्यते, सामान्योपसर्जनविशेषशब्दार्थपक्षे वा द्वयोरपि च पक्षयोरुपसर्जनीकृतविशेषणत्वात् भेदानाक्षेपादस्वातंत्र्यादनभिधानं तुल्यमित्येष विचार[:] प्रयासार्थः, तद् दृष्टान्तेन दर्शयति-यथा जातिस्वरूपेत्यादिना तद्वत्पक्षवादिमतेन यावदनाक्षेप इति, 15 दार्टान्तिकेन च तथा यथाकथञ्चिदित्यादिना यावत् स्वातंत्र्यहेतुत्वादिति सुष्टुच्यते पश्चिमस्यापि दोषस्य सातिशयस्य भाव एवेति ।
र यदप्युक्तं-अर्थान्तरापोहोऽसदघटनिवृत्तिः सन् घट इति, तस्मात् सामान्यदोषोऽपोहपक्षे नास्तीति, तदपि प्रत्यासन्नमात्मोक्तं विस्मृत्य त्वयाऽभिहितमिति बोधयितुकाम इदमेव तावत् प्रत्युच्चारयति
शिष्टवस्त्वभिधानं स्यादित्याह अथ स्वमत इति । सत्त्ववन्मात्रस्य भावान्तरत्वमभावान्तरत्वं वेत्यादिविचारोऽकिञ्चित्कर इत्याह20 अपि चेति । यदा व्यावृत्ताद्भावाद्यावृत्ति मान्या भवेत् तदा स्यात्तद्वत्पक्षोदितदोषप्रसङ्गो यावता व्यावृत्ताद्भावान्नास्माकमन्या
व्यावृत्तिरस्ति, अपि तु व्यावृत्त एव भावो मेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तथाऽभिधीयते, तेन यथा जातौ प्राधान्येन वाच्यायां पारतंत्र्येण तद्वतोऽभिधानात तद्गतभेदानाक्षेपात्तेन सह सामानाधिकरण्यादेरभावप्रसङ्ग उक्तस्तद्वदपोहपक्षे नावतरति व्यतिरिक्तान्यापोहवतोऽनभिधानात् , भावान्तरत्वाभावान्तरत्वविचारस्य प्रस्तुतेऽर्थे शब्दार्थविषये उपकारापकारयोरनङ्गत्वादप्रयोजकत्वात्तेन विचारेण न किमपि प्रयोजनमस्ति, किन्तु शब्दार्थसम्बन्धस्याभिधानाभिधेयभावलक्षणस्य वेत्तुः शब्दप्रयोगायदमयं भवतीति 25 विधिनाऽयं न भवतीति प्रतिषेधेन पार्थक्येन सामान्योपसर्जनविशेषप्रधान स्य वा बोधो भवति, शब्दप्रयोगेण हि तस्य तुल्या
तुल्यवृत्त्यवृत्तिभ्यां तथैवार्थावधारणस्य निष्पन्नत्वात् पक्षद्वयेऽपीदमुपसर्जनीकृतविशेषणमतोऽस्वातंत्र्याढ़ेदानाक्षेपाढ़ेदानामनभिधानमिति विचारः प्रयासफल एवेति व्याचष्टे-यत्र प्रस्तुतार्थेति । अत्र दृष्टान्तदार्टान्तिकावस्पष्टौ न व्याक्रियेते । ननु सन् घट इत्यादावर्थान्तरापोहोऽसन्निवृत्तिरघटनिवृत्तिश्च, उभे निवृत्ती भिन्ने, उभयनिवृत्तिमत एकस्य वाक्यार्थे भानम् , न पदार्थे, अतो न
परस्परं सामान्यविशेषभूते तस्मान्न सामान्यदोषोऽपोहपक्ष इति शङ्कते-यदप्युक्तमिति। कथमिदं तर्हि यत् सत् तद्रव्यम् 30 यद्रव्यं तत्सदिति ? उभयशब्दार्थव्युदासानुगृहीतस्य समुदायार्थस्यैकत्वात् संहतशब्दद्वयाभिधेयत्वात् , न तु सदर्थस्य द्रव्यशब्देनाभिधानादिति, एतदर्थसूचकश्च ग्रन्थः-इह त्वर्थान्तरापोहो नासद्भावमात्रमेवोच्यते, किं तर्हि ? अर्थान्तरापोहेन विशिष्ट वस्त्वेव सदित्युच्यते, यस्मिन् वस्तुन्यपोहः क्रियते तच्च द्रव्यं शब्दार्थो नापोहमात्रम् , स चार्थः सच्छब्देन व्याप्तो न तु साक्षादुक्त इत्येवं -
JairEducation International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430