Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 421
________________ ९९० न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वर्त्तते वस्तुनि द्रव्यादिभेदवति, सत्त्ववत्सदित्यभेदोपचारान्मतुब्लोपाद्वा त्वयोक्तापोहनिवृत्तिवत् वर्तेयातां जातियोगौ सदेव सत्त्ववदिति, शेषस्त्वयुक्तोपपत्तिग्रन्थवत्तुल्यगमो यावच्छब्दद्वयाभिधेयत्वादिति, गतार्थः, तस्मात्तद्वस्थ एवापृथक्श्रुतिदोषः । पश्चिमस्यापि च दोषस्य भाव एव, नाभावः, यदुक्तं जातिमत्पक्षे 'तद्वतो नास्वतंत्रत्वा5 अदाजातेरजातितः' इत्यादिदोषजातं तस्याभावोऽन्यापोहपक्षे, साक्षाद्वृत्तेरिति, तन्न भवति साक्षादवृत्त्यादिदोषजातस्य सातिशयस्योक्तत्वात् सच्छब्दोऽपोहमात्रस्वरूपोपसर्जनं द्रव्यमाह न साक्षादित्यादि सर्व प्रागुक्तं जातिमद्वदपोहवानित्युपक्रम्य, तत्र दोषा यथा सङ्गतास्तथा प्रतिपादिता इति न पुनर्लिख्यते । (पश्चिमस्यापीति) पश्चिमस्यापि दोषस्य भाव एव नाभावः, यदुक्तं जातिमत्पक्षे 'तद्वतो 10 नास्वतंत्रत्वात् भेदाजातेरजातितः' इत्यादि दोषजातं तस्याभावोऽन्यापोहपक्षे साक्षाद्वृत्तेः, तत्र हि सच्छब्दः सत्तामुपादाय द्रव्ये वर्त्तमानस्तद्भेदान् घटादीना[क्षे]तुमसमर्थः, अत्र पुनरसत्प्रतिषेधेन साक्षाद्वर्त्तत इति तस्य ये विशेषास्तान्न प्रतिक्षिपति, तस्मादिहानाक्षेपदोषो नास्ति, भाक्तदोषोऽप्यत एव नास्ति, न ह्यत्र मुख्या वृत्तिव्यादिषूपचर्यते, नापि भेदानवस्थानादनभिधानदोषः, कस्मात् ? अभेदात् , न ह्यर्थान्तरापोहो भेदेषु भिद्यते, अभावात्तन्मात्रञ्च शब्देनोच्यते, न 'भेदाः, तथा सामान्यदोषोऽपि mmmmmmm 15 सन् गुण इत्यादि, यस्मादवयवशब्दार्थाभ्यामन्यः समुदायार्थः तस्य च वाचकौ तौ समुदितौ न विपरीतार्थों, न तु सच्छब्दो द्रव्यार्थमाह-द्रव्यशब्दः सदर्थम् , कथं तर्हि यत् सत् तद्र्व्यं यद्रव्यं तत् सदिति, उभयशब्दार्थव्युदासानुगृहीतस्य समुदायार्थस्यैकत्वात् संहतशब्दद्वयाभिधेयत्वादिति वक्तुं शक्यत्वादिति भावः। सत्तैव सत्त्ववदुच्यते, सत्त्ववति सत्ताया अभेदोपचारात्, सत्तावदिति मतुबो लोपाद्वेत्याह-सत्त्ववदिति । उपसंहृत्य दोषमाह-तस्मादिति। जात्यादिपक्षेषु सामानाधिकरण्याभावदोषापादनप्रतिपादनावसरे जातिमत्पक्षोपरि 'तद्वतो नाखतंत्रत्वाद्भेदाजातेरजातितः' इत्यादि यद्दोषजातमुक्तं तदप्यन्यापोहपक्षे20 ऽस्त्येवेत्याह-पश्चिमस्यापि चेति, अनन्तरस्यापि चेत्यर्थः । जातिमत्पक्षे सच्छब्दो जातिस्वरूपोपसर्जनद्रव्यमाह न साक्षादिति तद्गतघटादिभेदानाक्षेपादतद्भेदत्वे सामानाधिकरण्याभावप्रसङ्ग उक्तः सोऽत्र पक्षेऽपि भवत्येवेत्याह-पश्चिमस्यापि दोषस्येति । तदुक्तिमेवाह-यदुक्तमिति। अपोहपक्षे साक्षाद्वत्तेरिति, ननु असदसच्छृतिः सामान्यश्रुतिः, असदपोहः सर्वत्र वृत्तेः समानः, तद्भेदा घटादयः तत्र सच्छब्दोऽसत्प्रतिषेधेन साक्षाद्वर्त्तते न तान् प्रतिक्षिपति, तस्मात् सामानाधिकरण्यादि भवत्येव, एवं तद्वतो नास्वतंत्रत्वादित्यस्य प्रकारान्तरव्याख्यायां सच्छब्दो मुख्यया वृत्त्या भूतार्थेन स्वरूपेण प्रकाशमानः शब्दस्वरूपमात्रेण 25 बुद्ध्या गृह्यमाणः सम्प्रति सद्वस्तुखरूपव्यवहितमाह स तत्र वृत्तः स्वरूपव्यवहितेऽर्थे सति व्यावृत्तेरित्यादिरूपायां सच्छब्दोऽसन्निवृत्ति न करोति भूतार्थेन, किन्तूपचारादसदसत् ब्रवीतीत्यादि दोषोऽपि नास्तीत्याह-भाक्तदोषोऽपीति । भेदानन्यादनभिधानदोषोऽपि नास्तीत्याह-नापीति, भेदानामनन्तत्वादनवस्थानम्, ततोऽनभिधानमशक्यसम्बन्धविधानादिति भावः । नैष दोषोऽस्ति यतो हि अर्थान्तरापोहः प्रतिभेदं न भिद्यतेऽतोऽभेदाच्छक्यसम्बन्धविधानादभिधानसम्भव इत्याह-अभेदादिति । कुतो न भिद्यत इत्यत्राह-अभावादिति, अभावत्वादेव न तस्य भेदोऽस्ति, तन्मात्रमेव शब्देनाभिधानं न तु तद्विशिष्टभेदानामिति भावः । ननु 30 जातिपक्षे यदि सच्छब्देन भेदानामाक्षेपे आधारभेदेनाधेयभेदस्यावश्यकत्वाद्धटे विद्यमानं सत्त्वं पटादौ न स्यात् , पटे च विद्यमानं सत्त्वं घटे न स्यादित्युक्तो दोषोऽन्यापोहपक्षेऽपि, घटे विद्यमानस्यासदपोहस्य पटादावभावात् भेदे सत्त्वमसत्त्वमप्यस्तीति १ सि. क्ष. छा. डे. समपुनः। २ सि. क्ष. छा. डे. भेदात् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430