Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
विभक्तिभेदप्रसङ्गदोषः ]
द्वादशारनयचक्रम्
९८९
wwwwwwwwwww
निवृत्त्युपलक्षितौ ताभ्यामन्य उभयशब्दा [र्थ ] व्युदासानुगृहीतः समुदायार्थः, तस्य च वाचकौ तौ समुदितौ न विपरीतार्थौ, तद्दर्शयति- न तु सच्छब्दो द्रव्यार्थमाह न द्रव्यशब्दः सदर्थमिति, यथोक्तं- 'अपोह्यभेदात् भिन्नार्थाः स्वार्थभेदगतौ जडाः || एकत्राभिन्नकार्यत्वाद्विशेषणविशेष्यका : ' ( प्रमा० स० ) इति, अत्र चोद्यं कथं [इदं] तर्हीति, यत् सत्तद्रव्यं यद्द्रव्यं तत्सदिति भिन्नार्थत्वेन युक्तमित्यत्र तेनैवोच्यते - उभयशब्द [ ] व्युदासानुगृहीतस्यासदद्रव्यनिवृत्त्यनुगृहीतस्य संहतशब्दद्वयानभिधेयस्य समुदायार्थस्यैकत्वात्तथोच्यते न तु 5 सदर्थस्य द्रव्यशब्देनाभिधानादिति पूर्वपक्ष: ।
www.wwww
उत्तरपक्ष:--
तवापि शक्यं वक्तुमपृथक् श्रुतिदूषणम्, द्रव्याद्यभावाभावस्य गुणित्वात् सदभावाभावस्य चाश्रितस्य गुणत्वात्, या त्वयोक्तोपपत्तिः सा जातियोगपक्षयोरपि क्रमते, इह तु जातियोगी यस्मिन् वस्तुनि त्वयोक्ता पोहनिवृत्तिवत् वर्त्तेयाताम्, सत्तैव सत्त्ववदिति शेष- 10 स्त्वदुक्तोपपत्तिग्रन्थवत्तुल्यगमो यावच्छन्दद्वयाभिधेयत्वात् ।
तंवापि शक्यमित्यादि, सत्तायोगपक्षगतो विभक्तिभेदप्रसङ्गो दोषोऽत्रापि शक्यो वक्तुम्, आश्रितस्य गुणत्वात्, तद्यथा - सद्भावाभाव आश्रितो द्रव्याद्यभावाभाव आश्रयः, तयोश्च गुणगुणिनोर्भेदात्तदभिधायिनोः सामानाधिकरण्याभावस्तदवस्थः, या त्वयोक्तोपपत्तिः सापि जातियोगपक्षयोरपि क्रमत इत्यतस्तत्प्रदर्शनार्थमाह-इह तु जातियोगौ यस्मिन् वस्तुनीत्यादि, सैंत्तातस्सच्छन्दस्तत्सम्बन्धाद्वा सति 15
सद्दव्यरूपस्यावयवशब्दार्थासद्व्युदासाद्रव्यव्युदासाभ्यामनुगृहीतत्वात्, नहि सच्छब्दो द्रव्यशब्दार्थं द्रव्यशब्दो वा सच्छब्दार्थं वक्ति इति भावः । विपरीतार्थतां व्युदस्यति न त्विति । तत्रैव प्रमाणमाह-अपोह्य भेदादिति, अपोहो यदि शब्दार्थः तर्हि गवाश्वादिशब्दानां शाबलेयादिशब्दानाञ्च सर्वेषां पर्यायता स्यात्, अपोहे भेदाभावात्, वृक्षपादपादिशब्दवदिति न युक्तं, अपोह्यभेदात् ते शब्दा भिन्नार्थाः गवादिशब्देनापोह्यो ह्यश्वादिस्तस्य भेदादगवाद्यपोहानां भेदः, स्वतस्ते शब्दाः स्वार्थस्यापोहस्य यो भेदोऽपरस्मादपोहात्तद्गतौ जडाः निर्व्यापाराः, तस्मान्न पर्यायता तेषाम् अपोह्यभेदात् भिन्नार्थत्वादेव सच्छब्दो न द्रव्यं द्रव्यशब्दश्च न सदर्थमाह, ननु तर्हि 20 कथं तयोः सामानाधिकरण्यं यत् सत् तद्द्रव्यम्, यद् द्रव्यं तत् सदिति, तदेव शङ्कते - कथं तहींतीति । समाधत्तेऽन्यापोहिकःउभयशब्दार्थेति, सच्छब्दार्थोऽसन्निवृत्तिः, द्रव्यशब्दार्थश्चाद्रव्यनिवृत्तिराभ्यामनुगृहीतः समुदायार्थं एकः, यत्रैव ह्यद्रव्यनिवृत्तिरस्ति तत्रैवासद्व्यावृत्तिरस्ति, अत उभयशब्दवाच्ययोर्निवृत्त्योरेकस्मिन्नर्थे वृत्तेरेकत्रा भिन्नकार्यत्वात् सामानाधिकरण्यं विशेषणविशेष्यभावश्च स्यात्, न त्वेकशब्दाभिहितस्यापरशब्देनाभिधानादिति भावः । आचार्य उत्तरमाह - तवापि शक्यमिति । सत्ताभिधानपक्षे तत्सम्बन्धाभिधानपक्षे च यो दोषो विभक्तिभेदो नियमादिति, अपृथक् श्रुतिदोषश्वोक्तः, स दोषस्तवापि वर्त्तत एवेत्याख्याति - सत्तायोगपक्षेति । आश्रितस्येति, सद् द्रव्यमित्यत्र द्रव्यं विशेष्यमाश्रयः सच्छब्दार्थोऽसन्निवृत्तिर्विशेषणं गुणः आश्रिता च, गुणगुणिनोः- विशेषण विशेष्ययोर्भेदादाधाराधेयभावबोधकभिन्नविभक्तिरुत्पले नीलमित्यादाविव स्यात्, न त्वभेदबोधकप्रथमाविभक्तिः, अत एव तयोः शब्दयोः सामानाधिकरण्यमपि न सम्भवतीति भावः । नन्वस्माभिरर्थान्तरापोहमात्रं नोच्यते किन्तु व्यावृत्तिमद्वस्तु वाच्यम्, यस्मिन् वस्तुनि क्रियतेऽन्यापोहः, तद्धि वस्तु सच्छब्देन व्याप्तमपरित्यागात्, किन्तु साक्षान्नोच्यत इति योपपत्तिः पूर्वमुक्ता त्वया सापि जातियोगपक्षयोरपि वक्तुं शक्येत्याह- या त्वयेति, सत्तातः सच्छन्दः सति वर्त्तते, सत्तासम्बन्धाद्वा, 30 सच्च द्रव्यादि, नास्य परित्यागः, व्याप्तत्वान्न तु साक्षादुक्तः संशयानुपपत्तेः तस्माद्वाक्यार्थे विशेषार्थैः सामानाधिकारण्यं सद्दव्यं
25
१ सि. स्त्ववावि० । २ सि. क्ष. डे. छा. गुणित्वात् । ३ पात्तपो० । ४ सि. क्ष. छा. डे. मरातः सच्छ० । ५ सि. क्ष. छा. डे. सदेव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430