Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 418
________________ wwwmanam wwwm अपृथक्श्रुतिदोषाभावोक्तिः] द्वादशारनयचक्रम् तर्हि ? द्रव्यस्य गुणस्य वा भावाभाव इति, इयं व्याख्या त्वन्मतानुसारिण्येव, आह च 'विभक्तिभेदो नियमाद्गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्य प्रसिद्धिद्रव्यशब्दयोः ॥' (वा० तृ० वृ० ८ श्लो०) इति । (पदस्येति) पदस्याप्यनुपपन्नं सामानाधिकरण्यं विभक्तिभेदेनापि, सद्रव्यस्य गुणस्य वेत्यादि सम्बन्धस्यापि भेदैर्द्रव्यादिभिरभावस्यानुपपत्तेः कस्य वाऽसौ भेदः ? सच्छब्देनाभिन्नासत्त्वनिवृत्तिमात्रोपादा- 5 नात् , तस्मादपृच्छति दोषोऽस्त्येव, तद्व्याख्यानार्था टीका-यथैव सुकरा हीत्यादिका दृष्टान्तत्वेन गतार्था यावद् द्रव्यस्य गुणस्य वेति, तथैव हीति दार्टान्तिकत्वेन त्वन्मतप्रदर्शनमेव यावत् सामानाधिकरण्यं न स्यात् , यथा न हि सत्ता द्रव्यं गुणो वा भवतीत्यादि तथा न हि सदसन्निषेधाभावस्त्वन्मतेऽस्मन्मतस्य प्रतिषेधद्वयविधेयस्य सतः सभेदस्यानभ्युपगमे द्रव्यं भवति गुणो वा, किं तर्हि ? द्रव्यस्य गुणस्य वा भावाभावः-सदसन्मात्रमित्यर्थः, इतीयं व्याख्या त्वन्मतानुसारिण्येवेति, आह चेति ज्ञापकमप्याह-विमक्तिभेदो नियमात्' इत्यादि। 10 यत्तु सत्तासम्बन्धाभिधामपक्षयोरपृथक्श्रुतिदोषोऽस्ति, नापोहपक्षे विशेषहेतुसद्भावात् , तत्रं हि गुणौ सत्तासम्बन्धी विशेषणत्वात् , तद्वस्तु गुणीत्यतः सामानाधिकरण्याभावो युक्तः, इह त्वर्थान्तरापोहो नासद्भावमात्रमेवोच्यते किं तर्हि ? अर्थान्तरापोहेन विशिष्टं वस्त्वेव सदित्युच्यते यस्मिन् वस्तुन्यपोहः क्रियते, तेच द्रव्यं शब्दार्थो नापोहमात्रम् , स चार्थः सच्छब्देन व्याप्तो न तु साक्षादुक्तः, तद्यथा सच्छब्दः साक्षान्न द्रव्याद्यभिधायी, संशयोत्पत्तेः तस्मात् सामानाधि- 15 करण्यं विशेषार्थैः द्रव्यादिशब्दैः सच्छब्दस्य सद्रव्यं सन्गुण इत्यादि वाक्यार्थे युक्तं न पदार्थे । यत्तु सत्तेत्यादि, सत्तासम्बन्धाभिधानपक्षयोरपृथक् श्रुतिदोषोऽस्ति नापोहपक्षे, विशेषहेतुसद्भा wom शक्यः । सद्रव्यगुणादीनां सम्बन्धोऽपि न सम्भवतीत्याह-सव्यस्येति, सच्छब्दार्थोऽसद्ध्यावृत्तिस्तस्यामेदेन द्रव्येण गुणेन वा सम्बन्धो न सम्भवति सत् द्रव्यसम्बन्धि गुणसम्बन्धि वेति, अभावस्य नीरूपत्वेन सम्बन्धासम्भवादिति भावः। यथैव सुकराहीति । मूलं नोपलभ्यते। सच्छब्दस्य जात्यभिधायित्वे यथा सत्ता द्रव्यं, सत्ता गुण इति न सामानाधिकरण्यं सत्ताद्रव्ययो: 20 सत्तागुणयोर्वा भवितुमर्हति, तथा सच्छब्दवाच्यस्यासन्निषेधस्याभावरूपतेव न सद्रूपता त्वम्मते, तस्मात् सच्छब्दवाच्यं न द्रव्यं भवति गुणो वा, सभेदस्य सतोऽनभ्युपगमात् अस्मन्मते तु प्रतिषेधद्वयस्य विधिरूपतया भेदरूपस्य सतः सद्रूपता, भेदानां परस्परत इतरेतराभावरूपतयाऽसद्रूपता च तथा च सच्छन्दवाच्यं द्रव्यमपि भवति, गुणोऽपि भवतीति द्रव्यं भावाभावरूपं गुणोऽपि भावाभाव इत्याशयेनाह-यथा न हि सत्तेति, तथा च सामानाधिकरण्यं न तव मते सम्भवति, किन्त्वस्मन्मत एवेति भावः । तत्र भवदीयवचनीयमेवानुसृत्येयं व्याख्या कृतेत्याह-इयं व्याख्येति । ज्ञापिकां कारिकामाह-विभक्तिमेदो नियमादिति, 25 गुणद्रव्ययोरभिधायकशब्दप्रयोगे पटस्य शुक्ल इत्यादौ गुणप्रधानभावस्य शाब्दत्वात् पटादिशब्दः प्रधानोपकारपरिणतस्य स्वार्थस्याभिधायकः,अत एव गुणविभक्तिषष्ट्युपादीयते, शुक्लादिप्रधानशब्दस्तु खात्मन्येवावस्थितत्वेनापरोपकारित्वात् प्रथमया युज्यत इति विभक्तिभेदोव्यधिकरणविषये, वीरः पुरुष इत्यादिसमानाधिकरणविषये तु द्वयोरपि द्रव्यशब्दत्वेन स्वनिष्ठस्वार्थमात्राभिधानात् प्रथमैवोभयत्र, गुणप्रधानभावश्चात्र सामर्थ्यादिति कारिकाभावार्थः । सत्तायास्तत्सम्बन्धस्य वा सच्छब्दवाच्यत्वे सद् द्रव्यमिति एकविभक्तिकत्वाद्या अपृथक् श्रुतिः सान स्यात् , विभक्तिभेद एव स्यात्, सत्ताया द्रव्यस्य च व्यधिकरणत्वादित्याह-यत्त्विति। अपृथकश्रुतिदोषमादर्शयति-30 सत्तासम्बन्धेति । अपोहपक्षे चायं दोषो नास्ति तत्र विशेषहेतोः सत्त्वात् , प्रोक्तमते तु नास्ति विशेषहेतुरित्यादर्शयतिनापोहपक्ष इति । सत्तातत्सम्बन्धयोः शब्दामिधेयत्वे सत् द्रव्यं सन् गुण इत्यादौ सच्छब्दार्थः सत्तासम्बन्धो वा गुणभूत एव, १ सि. क्ष. डे. छा. कल्यधातो.। २ सि. क्ष. छा. डे. तदेयैव । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430