Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 412
________________ व्यावृत्तिप्राधान्ये दोषः ] ९८१ सत्यां वृक्षादिसिद्धि:, तत्सिद्धौ घटादिव्यावर्त्त्यसिद्धिरित्यनवस्था परस्परतः स्यात् सा मा भूदिति दर्शनं व्यव - स्थापकमेषितव्यं विधिना [ व्यावर्त्य ] व्यावर्त्तकयोः - वृक्षादिसदाद्यवृक्षाद्य सदाद्येोरिति, कथं पुनर्विधिप्राधान्ये तद्दोषाभावः ? उच्यते - विधिप्राधान्ये तु पृथिवीत्वाद्युत्तरेत्यादिसाधनं यावत् स्वात्मवदिति, वृक्षपृथिवीद्रव्यसन्तः, वृक्षशिंशपाकुड्मकुसुमानि, मूलस्कन्धशाखादयश्च वृक्षादयः पूर्वे चोत्तरे च भावा विधिना दृष्टाः, पार्थिवभवनं वृक्षभवनविज्ञानविध्यापाद्यमेव, वृक्षात्मकत्वात् ततोऽनन्यत्वात्, वृक्षस्वात्मवत्, वृक्षात्मकत्वञ्च 5 पार्थिवत्वादीनां पूर्वमापादितम्, मूलाद्युत्तरभावानाश्चेत्यतस्तदेकात्मकत्वसिद्धौ सत्यां साधनस्य साधीयस्त्वं तथा पृथिवीभवनमेव द्रव्यभवनं द्रव्य [ भवन ] मेव सद्भवनमिति, तथा वृक्षादिपूर्वेत्यादि साधनं तद्विपर्ययेणोत्तरधर्मभवनापादनम्, तदनतिरिक्तात्मकत्वात् ततोऽनन्यत्वात् वृक्षमूलादीति दृष्टान्तः, शिंशपाद्युत्तरभवनविज्ञानविध्यापाद्यो वृक्षस्तदात्मकत्वात् मूलस्कन्धपलाशादिधर्मात्मना वृक्ष एव यथा भवन् दृष्टः तथा शिंशपाद्यात्मना वृक्ष एव भवतीति, एवं विधिरूपेण दृष्टवदेवानुमानं विधिप्राधान्ये युज्यतेऽभिधानञ्च । 10 www.wwˇˇˇˇˇˇˇˇˇˇˇˇ द्वादशारनयचक्रम् त्वन्मते व्यावृत्ति प्राधान्ये तु दृष्टवत् पार्थिवत्वाद्यसिद्धौ वृक्षो नैव वृक्षादि स्यात् तोयवत्, पार्थिवं द्रव्यत्वेनासिद्धत्वात् पार्थिवं नैव स्याद्गुणवत्, एवं द्रव्यं द्रव्यं न स्यात् सत्त्वेनासिद्धत्वात् खपुष्पवदिति, पार्थिवद्रव्य सत्त्वासिद्धयोऽसिद्धा इति चेन्न, व्यावृत्तिप्राधान्येऽन्यत्वात्, तथा सदपि न संतू, द्रव्यादित्वेनासिद्धत्वादेवं पूर्वं पूर्वं नात्मरूपभाक् स्यादुत्तररूपेणा - 15 भूतत्वादग्निवदिति । सम्भवतीत्याह-सा मा भूदिति वृक्षादिव्यावृत्त्याश्रयभूत व्यावर्त्य सिद्धिर्न घटादिव्यावृत्तिरूपेण किन्तु वृक्षादित्वेन विधिरूपेण दर्शनादेव, व्यावर्त्तकस्य व्यावृत्तिप्रतियोगिनो घटादेः सिद्धिश्च नानृक्षादित्वरूपेण, अपि तु घटादित्वेन दर्शनादेवेति भावः । भावममुमेव समर्थयति-विधिप्राधान्येत्विति । वृक्षपृथिवीति, पृथिवीद्रव्यसन्तो वृक्षानुबन्धिनो उत्तरे भावाः शिशपाकुङ्मादयो मूलस्कन्धादयश्च वृक्षावयवाः पूर्वे भावाः, वृक्षस्यैव पूर्वोत्तरभावत्वात्तेषां वृक्षात्मकत्वमिति मूलाधारेण, पृथिवीत्वाद्युत्तरेत्यभिधानात् 20 टीकादभिप्रायेण तु पृथिवीत्वादयः पूर्वभावाः, वृक्षशिंशपादय उत्तरे भावाः, पूर्वे चोत्तरे च भावा इत्युक्तेरिति ध्येयम् । वृक्षादिभवने दृष्टे पार्थिवादिभवनस्यावश्यं निश्चयात् पार्थिवादिभवनं वृक्षादिभवनविज्ञानविध्यापाद्यं भवति, अवश्यनिश्चयश्च पार्थिवभवनस्य वृक्षात्मकत्वादेव, नियमतः सहचरितत्वदर्शनात् तदात्मकत्वं वृक्षवृक्षस्वात्मवत्, एवं मूलादिपूर्वभावा अपि वृक्षाद्युत्तरभवनविज्ञानविध्यापाद्याः, वृक्षाद्यनतिरिक्तात्मकत्वात् न ह्यवयवावयविनोर्भेदोऽस्ति मूलस्कन्धादिभवनस्यैव वृक्षभवनात्मकत्वात्, एवं शिंशपादिभवनमेव वृक्षभवनम् शिंशपापन ससहकाराद्यव्यतिरिक्तत्वादृक्षस्येति निरूपयति- पार्थिवभवनमिति पृथिव्याद्युत्तरभवनरूपेणैव वृक्षा- 25 दिपूर्वभवनस्य मूलस्कन्धादिपूर्वभवनरूपेणैव च वृक्षादिभवनस्य विज्ञानात् वृक्ष एव शिंशपाद्यात्मना भवतीति भावार्थः । वृक्षात्मकत्वं पार्थिवादीनां प्राग्व्याख्यातत्वान्नासिद्धमित्याह-वृक्षात्मकत्वं चेति । पृथिव्यादिभवनानां तदुत्तरभवनात्मकत्वमाह - तथेति । उत्तरभवनानां पूर्वभवनात्मत्वमाचष्टे - वृक्षादिपूर्वेत्यादीति । वृक्षभवनं न किञ्चिदन्यत्, अपि तु मूलस्कन्धपलाशादिपूर्व भावात्मैव दृष्ट इत्याह-मूलस्कन्धेति । एवमेव शिंशपादिभवनात्मनैव वृक्षादिभवनमिति दाष्टन्तिकमाह तथा शिंशपाद्यात्मनेति । इत्थमनुमानमभिधानञ्च दर्शनविधिनैव विधिप्राधान्येन भवति न तु व्यतिरेकेणेत्याह-एवमिति । व्यतिरेकप्राधान्यपक्षे दोषमाह - 30 व्यावृत्तिप्राधान्ये त्विति । अवृक्षाद्यभावस्याभावमात्रत्वेन पृथिवीत्वा द्यसंस्पर्शात्ततस्तेषामन्यत्वेन पृथिवीभवनमेव वृक्षभव Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430