Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
( व्यावृत्तीति) व्यावृत्तिप्राधान्ये तु दोषः, तद्यथा - दृष्टवत् पार्थिवत्वाद्यसिद्धौ - पार्थिवद्रव्यसदेकात्मकभवनमेव वृक्षभवनमनिच्छतोऽस्मन्मतं ते वृक्षो नैव वृक्षः स्यात्, पार्थिवत्वेनासिद्धत्वात् तोयवत्, यथा तो पार्थिवत्वेनासिद्धं वृक्षो न भवत्येवं वृक्षोऽपि वृक्षो नैव स्यात्, तथा पार्थिवं द्रव्यत्वेनासिद्धत्वात् पार्थिवं नैव स्याद्गुणवत्, यथा गुणस्य द्रव्यत्वेनासिद्धत्वादपार्थिवत्वं तथा पार्थिवस्याप्यपार्थिवत्वं स्यात्, 5 एवं द्रव्यं न द्रव्यं स्यात् सत्त्वेनासिद्धत्वात् खपुष्पवदिति, पार्थिवद्रव्यसत्त्वासिद्धयोऽसिद्धा इति चेन्न, व्यावृत्तिप्राधान्येऽन्यत्वात्- स्वार्थानुवृत्तिभेदानामपि व्यावृत्तित्वात् स्वार्थाभावाभावशब्दार्थत्वाभावात्, प्रसिद्धिविरोधदोष इति चेत्तवैव व्यावृत्तिप्राधान्याभ्युपगमादोषो न ममेति, तथा सदपि न सत्, द्रव्यादित्वेनासिद्धत्वात्, खपुष्पवदिति वर्त्तते, एवं पूर्वं पूर्वं नात्मरूपभाक् स्यात्, उत्तररूपेणाभूतत्वादग्निवदिति यथावद्गतार्थमनिष्टापादनम् ।
www ww www
10
९८२
यदप्युक्तं 'गुणत्वगन्धसौरभ्यतद्विशेषैरनुक्रमात् । अद्रव्यादिव्यवच्छेद एकवृद्ध्योत्पलादिवत् ॥' इति व्यावृत्तिप्राधान्ये गुणवत्त्वादिभिरद्रव्यादिव्यवच्छेद एकवृद्ध्या युज्यते, विधिप्राधान्ये तु 'दृष्टवद्यदि सिद्धिः स्यात् शौक्ल्यरूपगुणाश्रितात् । क्रमवत्प्रातिलोम्येऽपि त्रिये कार्यगतिर्भवेत् ॥' इति, तदपि 'दृष्टानुवृत्तेः .
तद्व्याख्या - दृष्टानुवृत्तेरेव, नादृष्टावच्छेदात् आनुलोम्यान्निश्चयः प्रातिलोम्याद्वा संशयः, 15 यतस्तत्र तुल्येऽन्यत्वे शुक्लत्वाद्गुणे निश्चयो द्रव्यकर्मणोर्न, दर्शनादेव चैकानेकात्मभ्यामाश्रितगुणरूपादिभिर्गुणरूपशौक्ल्येषु संशय इति ।
( यदपीति ) यदप्युक्तं गुणत्वगन्धसौरभ्यतद्विशेषैरनुक्रमात् । अद्रव्यादिव्यवच्छेद एकवृद्धयोत्पलादिवत् ॥' ( प्रमा. स. ) इति व्यावृत्तिप्राधान्ये गुणत्वादिभिरद्रव्यादिव्यवच्छेद एकवृद्ध्या
,
दृष्टवदनभ्युपगमे वृक्षादिर्वृक्षादिरेव न स्यात्, तस्य पार्थिवत्वेन | सिद्धत्वादिति व्याचष्टे - दृष्टवदिति, तद्भावो हि दृष्टः, वृक्षस्यैव 20 पार्थिवत्वादिधर्मात्मनाभवनात् पृथिवीद्रव्यसत्त्वानां वृक्षखात्मत्वम्, पृथिवीद्रव्य सत्त्वानां वा वृक्षः स्वात्मेत्यस्मन्मतम्, तदनभ्युपगमात् वृक्षादेरसिद्धिः पार्थिवादीनां तदनात्मत्वेन तेन रूपेण तस्यासिद्धत्वादिति भावः । दृष्टान्तमाह-तोयवदिति । एवं पार्थिवत्वासिद्धिमाह-तथा पार्थिवमिति । द्रव्यत्वासिद्धिमाह एवं द्रव्यमिति । पार्थिवादित्वेनासिद्धत्वादिति हेतूनामसिद्धत्वमाशङ्कते - पार्थिवेति सामान्यधर्माणां भेदानाञ्च स्वसम्बन्धित्वेन तादात्म्याभ्युपगमादिति भावः । तन्निराकरोति - व्यावृत्तिप्राधान्य इति । स्वार्थस्य वृक्षस्य, अनुवृत्तेः - सामान्यधर्माणां भेदस्य शिशपादेश्चान्यापोहरूपत्वेनाभावानाञ्च परस्परसम्ब 25 न्धाभावादवृक्षाभावरूपशब्दार्थेन तेषां ग्रहणासम्भवाद्वृक्षादीनां पार्थिवत्वादिनाऽसिद्धत्वमेवेति भावः । ननु प्रसिद्धिविरोधोऽत्र दोषः वृक्षादीनां पार्थिवादितया प्रसिद्धत्वात्ततो नान्यत्वमित्याशङ्कत्ते - प्रसिद्धीति । न ममाऽयं दोषः, दृष्टवत् सिद्ध्यभ्युपगमात्, किन्तु दृष्टविरुद्धाया व्यावृत्तेः प्राधान्याभ्युपगन्तुस्तवैवेत्युत्तरयति - तवैवेति । एवं पूर्वपूर्वस्य वृक्षादेरुत्तरोत्तररूपतोऽ सिद्धत्वादभावमुक्त्वा सम्प्रत्युत्तरोत्तरस्य पूर्वपूर्वरूपतोऽसिद्धत्वादसिद्धिमाह-तथासदपीति । ननु व्यावृत्तिबलेन वृक्षादिशब्दाः स्वावयवान् तदनुबन्धिश्चार्थान् व्याप्नुवन्ति, अवृक्षनिवृत्त्यर्थाभिधानवदपृथिव्यद्रव्यासत्त्वव्यावृत्त्या वृक्षाभिधानात् तस्माद्वृक्षार्थे सत्त्वद्रव्यत्वपार्थिवत्वानां 30 निश्चयः, पृथिवीशब्दार्थे पृथिव्यर्थे सत्त्वद्रव्यत्वयोः द्रव्यशब्दार्थे द्रव्ये सत्त्वस्य निश्चयो नतु दृष्टबलादित्याशङ्कते - यदप्युक्तमिति । व्यावृत्तिप्राधान्ये गुणं विधिप्राधान्ये दोषञ्च प्रदर्शयति-गुणत्वगन्धेति, इयं कारिका व्यावृत्तिप्राधान्ये गुणवर्णनपरा । विधिप्राधान्ये
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430