Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 414
________________ अनन्यत्वपक्षव्युदासः ] ९८३ wwwwwwww युज्यते, विधिप्राधान्ये तु 'दृष्टवद्यदि सिद्धिः स्याच्छौक्ल्यरूपगुणाश्रितात् । क्रमवत् प्रातिलोम्येऽपि त्रिकार्थ गतिर्भवेत् ॥' ( प्रमा. स. ) इति, तदपि 'दृष्टानुवृत्तेः इत्यादि श्लोकः क्रमेण त्रिद्व्येकार्थगतिवत् प्रातिलोम्ये त्रिद्व्येकार्थगतिर्न भवति, तथा दर्शनाददर्शनाच्चेति, तद्व्याख्या-दृष्टानुवृत्तेरेव - नादृष्टावच्छेदात्-नादृष्टानुवृत्तेररानुलोम्यान्निश्चयः, प्रातिलोम्याद्वा संशयः, कस्मात् - ? यतस्तत्र तुल्येऽन्यत्वे शुक्लत्वाद्गुणे निश्चयो द्रव्यकर्मणोर्नेति तयोश्चापोहो न सत्त्वगुणयोः, शौक्ल्यरूपादीनामैकात्म्यान्निश्चयः, दर्शनादेव 5 चैकानेकात्मभ्यामाश्रितगुण रूपादिभिर्गुणरूपशौक्ल्येषु संशय इति । www " तत्रानुबन्धितत्त्वदर्शनान्नैवान्यत्वमिति चेत् शुक्लं तर्हि नीलरक्तपीताद्यपि स्यात् रूपादनन्यत्वात्, शुक्लगुणस्वरूपवत्, एवमेव रसाद्यपि रूपं स्यात् गुणादनन्यत्वात् गुणः कर्माद्यपि स्यात्, आश्रितानन्यत्वात्, आश्रितं द्व्यणुकाद्यपि उत्क्षेपणादि रूपादि च स्यात्, आश्रितत्वात् तथा चाऽऽश्रितादिना गुणादिसंशयो न स्यात्, शौक्ल्यैकात्म्यात् । (तत्रेति) तत्रानुबन्धितत्त्वदर्शनान्नैवान्यत्वमिति चेत् - स्यान्मतं वृक्षात् पार्थिवद्रव्यस स्वानीव अनन्यानि शौक्ल्याद्रूपगुणाश्रितानुबन्धीनि तस्मात्तत्र निश्चयोऽनपोहच, येऽन्ये तेषामरूपागुणानाश्रितानामपार्थिवत्वादिवदवृक्षादपोह इत्यत्र ब्रूमः - शुक्लं तर्हीत्यादि, नीलरक्तपीताद्यपि शुक्लं स्यात्, रूपादनन्यत्वात् शुक्लगुणस्वरूपवत्, एवमेवेत्यादि गतार्थान्यनिष्टापादनानि यावद् द्र्यणुकाद्यपीति, द्व्यणुकं कार्यं द्रव्यमाश्रितं wwwwwwww १ छा. तेयातरुपा० । द्वा० न० ४७ (१२४) द्वादशारनयचक्रम् दोषमाह-दृष्ट्वद्यदीति । रूपवाचकशुक्लादिपदेन रूपस्य गुणस्याश्रितत्वस्य च निश्चयो रूपस्य तथाविधत्वनैयत्यात्, रूपं 15 गुणाश्रितत्वाभ्यां गुणश्चाश्रितत्वेन निश्चीयते अशुक्ला दिव्यावृत्त्यर्थाऽभिधानवदरूपागुणानाश्रितत्वव्यावृत्त्या शुक्लाद्यभिधानात् क्रमक्त् त्रिद्व्येकार्थगतिर्यथा भवति तथा व्युत्क्रमादपि त्रिद्व्येकार्थगतिर्विधिपक्षे स्यात्, सामान्येन विधिरूपेण दर्शनस्य समानत्वादिति भावः । तत्र समाधानमभिधत्ते-तदपीति, स्यादत्र कारिकेत्थम् - दृष्टानुवृत्तेः सिद्धिः स्यात् शौक्ल्यरूपगुणाश्रितात् । क्रमवत् प्रातिलोम्ये तु न त्रिद्व्यकार्थनिर्णयः ॥ इति । व्याकरोति - क्रमेणेति । हेतुमाह तथा दर्शनेति । तं व्याचष्टे - दृष्टानुवृत्तेरेवेति । न सत्त्वगुणयोरिति, शुक्लशब्देन सत्त्वगुणयोर पोहो न भवतीति भावः । भावार्थमाह-शौक्ल्येति । शौक्ल्यस्य रूपगुणाश्रितै- 20 रैक्यात् निश्चयो दर्शनादेव, आश्रितस्य च गुणरूपशौक्ल्यैरेकात्मताभावात् संशयः तेषामैक्यादर्शनादिति भावः । ननु शुक्लादिशब्दार्थः रूपगुणाश्रिता अनुबन्धिनश्च, अत एव तत्त्वभूताः नान्ये, तस्मादन्यत्वे तुल्येऽपि शुक्लत्वाद्गुणे निश्चयो न द्रव्यकर्मणोस्तथा दर्शनादिति न युक्तमित्याशङ्कते - तत्रानुबन्धीति । व्याकरोति-स्यान्मतमिति । यथा वृक्षस्य सत्ताद्रव्यत्वपार्थिवत्वधर्माः सामान्यधर्माः तदनुबन्धिनो भेदाश्च शिंशपादयः, एते सर्वेऽविनाभावित्वादनन्ये, एवं शौक्ल्यात्तत्सामान्यानि रूपादीनि नान्यानि तस्मात्तत्र निश्चय एव, आश्रितगुणरूपादिभिर्गुणरूपशौक्ल्येषु संशय एवेति भावः । वृक्षशब्दादपार्थिवाद्रव्यासतां यथाऽपोहः तथाऽरूपागुणा-' नाश्रितानामपोहस्तेषामेवान्यत्वादित्याह - येऽन्ये तेषामिति । यदि रूपादीनां शौक्ल्यादिनाऽनन्यता तस्माद्रूपादिर्नापोहते तर्हि नीलपीतादीनामपि रूपत्वाद्रूपशौक्ल्ययोरभेदान्नीलपीतादीनां शौक्ल्येनानन्यत्वं स्यात्, अरूपस्यैवापोहात्, एवं रसादिरपि रूपं स्यात्, रूपरसाद्योर्गुणाभेदेनानन्यत्वात् न हि रसादयोऽगुणाः येन रसादीनामपोहः स्यात् एवं कर्माद्यपि गुणः स्यात्, आश्रिताभेदात्, न हि कर्मादेरनाश्रितत्वं येन तदपोहः स्यात् एवमाश्रितं द्व्यणुकाद्यपि उत्क्षेपणादिरूपादि च स्यात्, आश्रितत्वादेव, न यनाश्रितं तत् येनापोहस्तस्य स्यात् एवञ्चाश्रितेन गुणकर्मणोः संशयो न स्यात्, गुणैकात्म्यात्, गुणेन 30 रूपरसादिसंशयो न स्यात्, रूपैकात्म्यात्, एवं रूपेण शौक्ल्यनीलाद्योः संशयो न स्यात्, शौक्ल्यैकात्म्यादित्याशयेन समाधत्तेनीलरक्तपीताद्यपीति । एवमेव कर्मणोऽवान्तरभेदा अपक्षेपणादय उत्क्षेपणं स्यात्, उभयोः कर्मामेदात् गुणावान्तरभेदा 25 Jain Education International 2010_04 10 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430