Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 390
________________ mmmmmmmmm mmmmmmmmmm अन्यानन्यत्वसाधनम् ] द्वादशारनयचक्रम् ९५९ एतदर्थनिदर्शनार्थं दृष्टान्तमाह वृक्षशब्दादंहिपशब्दोऽनन्यत्वाद्वृक्षः तथा तदर्थोऽग्नेर्वयादिः, उभयत्र वा सत्त्वद्रव्यत्वादि सामान्यविशेषधर्मेभ्योऽनग्निरवृक्षश्चेति विदितसकलवृक्षावृक्षाम्यनग्निशब्दार्थस्यैव तज्ज्ञानं दृष्टम् , न हि क्वचिदर्शनमात्राद्वा तद्वृत्तिनियमौ भवतः, व्यभिचारात् , घटमानपादपतरुशाखिभेदवृक्षव्यभिचारात् वृक्षोऽवृक्षो घटोऽघटश्च, अन्योऽपि हि भवन्ननन्यो भवति, 5 पीलुहस्तिवृक्षवत् सामान्यविशेषशब्दपर्यायशब्दार्थेभ्यः । (वृक्षशब्दादिति) वृक्षशब्दादंहि[प]शब्दोऽनन्यत्वाद्वृक्षः, तथा तदर्थः, अग्नेर्वह्नयादिः, उभयत्र वा सत्त्वद्रव्यत्वादिसामान्यविशेषधर्मेभ्योऽनग्निरवृक्षश्चेति विदितसकल[वृक्षावृक्षाम्यनग्निशब्दार्थस्यैव तज्ज्ञानं दृष्टम् , तथाऽऽकाशशब्दादिषु खगगनवियदादिसत्त्वद्रव्यत्वादिधर्मापेक्षं तदतत्त्वं योज्यम् , न हि कचिदित्यादि, न हि किश्चिद्दर्शनमात्राद्वा[तद]तद्वृत्तिनियमौ वा भवतः, कस्मात् ? 10 व्यभिचारात्-वृक्षान्वैयेऽपि तक्षकपुरुषव्यभिचाराद्रश्चनधर्माभावव्यभिचारादवृक्ष एव, अवृक्षघटोऽपि घटमानपादपतरुशाखिभेदवृक्षव्यभिचाराद्वृक्षोऽवृक्षो घटोऽघटश्च, अन्योऽपि हि भवन्न[न]न्यो भवति, पीलुह स्तिवृक्षादिवत् सामान्यविशेषशब्दपर्यायशब्देभ्यः । सामान्यशब्दार्थेषु तावत् सदित्यसन्न भवतीति, अत्र द्वयी वृत्तिः-अनङ्गीकृतार्थाएतदर्थेति । पर्यायशब्दानां तदर्थानाञ्चानन्यत्वमाह-वृक्षशब्दादिति। अन्यानन्यत्वं प्रकाशयितुमादावनन्यत्वमेकार्थप्रतिपादक- 15 त्वादाह-वृक्षेति, अंहिपशब्दो वृक्षाख्यैकार्थवाचकत्वादवृक्षशब्दोऽपि सन् वृक्षशब्द उच्यते, उभयशब्दयोर्भिन्नानुपूर्वीकत्वेनाहिपशब्दोऽवृक्षशब्द इति भावः । अर्थानामप्यन्यानन्यत्वमाह-तथा तदर्थ इति, शब्दार्थ इत्यर्थः, वह्वयात्मकोऽर्थोऽग्नेरनन्यः, एकार्थक्रियाकारित्वादिति भावः । अन्यत्वमाह-उभयत्र वेति, वृक्षशब्देऽवृक्षशब्देऽर्थे वृक्षेऽवृक्षे वा, अग्नौ लिङ्गिन्यनग्नौ वा विद्यमानो धर्मः सत्त्वं द्रव्यत्वादि वा अन्य एव, न हि यदेव सत्त्वं वृक्षे तदेवावृक्षे वर्तते, एवं द्रव्यत्वादि, तस्मादुभयोरन्यत्वमपि, धर्मभेदादिति भावः। वृक्षादिशब्दस्य तदन्यस्य वृक्षार्थस्य तदन्यस्य च सामान्योपसर्जनद्वारा साकल्येन तदतत्त्वेन परिज्ञानवतामेवायं 20 वृक्ष एव भवति, तदन्यो घटपटादिरवृक्षः वृक्षो न भवतीति तत्तदन्यज्ञानं भवितुमर्हतीत्याह-इति विदितेति । एवमेवान्यपर्यायशब्दतदर्थयोस्तदतत्त्वं यथायथं योजनीयमित्याह-तथाऽऽकाशशब्दादिष्विति, आकाशशब्दात् खशब्दोऽनन्यत्वादाकाशः, अर्थादाकाशादपि खमनन्यत्वादाकाशम् , उभयत्र च सत्त्वद्रव्यत्वादिधर्मेभ्योऽनाकाशञ्चेत्येवं योज्यमिति भावः । न हि तुल्यातुल्ययोवृत्त्यवृत्तिदर्शनमात्रात्तदतच्छन्दतायाः तदतर्थताया वा शक्यते नियमः कर्तुमित्याह-नहि किञ्चिदिति, न हीषद्दर्शनमात्रादित्यर्थः । नियमाभवने हेतुमाह-व्यभिचारादिति, व्यभिचारमेव दर्शयति-वृक्षान्वयेऽपीति, वृक्ष इति व्यवहारविषयेऽपि वृक्ष- 25 . त्वसामान्यावच्छिन्नेऽपि वेयर्थः, वृक्षान्वयोऽपीति पाठे वृक्षस्यान्वयो यस्मिन्निति विग्रहे वृक्षत्वसामान्यावच्छिन्नोऽपीत्यर्थः, वृक्षभूतः कश्चित्पनसादिः वृक्षशब्दप्रवृत्तिनिमित्तेन व्रश्चनधर्मेण रहितत्वाद्यभिचारादवृक्ष एवेति स्वजनकल्पस्य पनसादेवृक्षत्वमवृक्षत्वञ्च, व्रश्चनधर्माभावे छेदकपुरुषाभावः कारणमिति दर्शयति-तक्षकपूरुषव्यभिचारादिति, अनेन वृक्षोऽपि सन्नवृक्षो भवतीत्युपदर्शितम् । अथान्योऽपि सन्ननन्यो भवतीत्युपदर्शयति-अवक्षघटोऽपीति, अवृक्षभूतोऽपि घटः घटमानताया अभावे वृक्षपर्यायशब्दप्रवृत्तिनिमित्तधर्माकान्तो वृक्षो भवति तदेवं वृक्षोऽप्यवृक्षोऽपि वृक्षो घटोऽप्यघटोऽपि घटो भवतीति भावः । 30 अत्र पर्यायशब्देषु तदतत्त्वमुक्तमेवमन्यत्रापि भाव्यमित्याह-पीलहस्तिवृक्षादिवदिति, "दुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ।। इत्यमरः, एतत्तत्त्वमग्रे व्यक्तीभविष्यति । अथ सामान्यशब्दार्थेषु तदतत्त्वं भावयति-सामान्यश वदिति । १सि. क्ष. °नन्यस्वादवृक्षः । छा. डे, ननवादखुवृक्ष। २ सि.क्ष. छा. डे. वृक्षांन्वयोऽपिवृक्षक। द्वा० न० ४४ (१२१) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430