Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mmmmm
अन्वयाहते सर्वादर्शनम् ] द्वादशारनयचक्रम्
९५७ अपितृत्ववत् स्यादिति चेत्-यथा पितुरन्ये सर्वे पुरुषा अनाश्रितभेदरूपा अन्यत्वव्यावृत्तिबुद्धिमात्रेण निरवयवा एव प्रतीयन्ते तथाऽवृक्षाज्वलना वृक्षज्वलनपर्युदासेनानन्तभेदा अपि व्यावृत्तिबुद्धिमात्रेण निरवयवाः प्रतीयेरन् को दोष इति चेद्रमः, सर्वस्यादर्शनात्, सा हि पितरि अस्मदर्शनेन दृष्टे तत्पर्युदासेनान्यस्मिन् पितृविपरीतबुद्धगृहीतेरेष पिता देवदत्तो नेमे वसुरातादय इति प्रत्ययोत्पत्तिरिति युक्तम् , त्वदर्शने पुनर्गुणसमुदायस्य न तु । पितुरेवादर्शने, असति वा।
(अपितृत्ववदिति,) अपितृत्ववत् स्यादिति चेत्-स्यादियमाशङ्का यथेत्यादि, तव्याख्या, पितुरन्ये सर्वे पुरुषा अनाश्रितभेदरूपाः तदन्वयाहतेऽपि दृष्टात् पितुरन्यत्वव्यावृत्तिबुद्धिमात्रेण स्वभेदानपेक्षा निरवयवा एव प्रतीयन्त इति दृष्टान्तः, तथाऽनिवृक्षाभ्यामन्येऽवृक्षाज्वलनाः वृक्षज्वलनपर्युदासेनानन्तभेदा अपि व्यावृत्तिबुद्धिमात्रेण निरवयवाः प्रतीयेरन् को दोष इत्यत्र दोषकुतूहलञ्चेद्ब्रमः-10 सर्वस्यादर्शनान्न स्यात् , युक्तं पितुरस्मद्दर्शनेन विधिरूपेण दृष्टस्य 'अङ्गादङ्गात् सम्भवसि' (बृ. उ, ६.४.९.) इत्यादि न्यायात् स्वपुत्रस्य गुणसमुदायरूपस्य प्राणान् दत्तवतः पर्युदासेनान्यस्य भ्रात्रादेः स्वजनस्य पितृविपरीतबुद्धरध्यासेन ग्राह्यस्यैष पिता देवदत्तो नेमे वसुरातादय इति पितुरपितुश्च व्यक्तग्रहणोत्तरकालं परजनस्य वान्यस्यापितृत्वं प्रतिपाद्यतेत्येषोऽस्ति न्यायः, त्वदर्शने पुनर्गुणसमुदायस्य न तु पितुरेवादर्शने, युक्तमिति वर्त्तते, न घटते पितुरेव ग्रहणासम्भवे, असति वा पितरि गुणसमुदायमात्रार्थग्रहणाभिधाना-15 भावप्रकारेण उक्तेन, स[]हि पितरीत्यादिना दर्शनविधिं पितुः पितृदर्शनाच्चापितॄणां तदितरभेदानाच कथयति दर्शनविधिं यावत् प्रत्ययोत्पत्तिरिति ग्रन्थेन, एषा दृष्टान्तवर्णना ।
wwwwwww
ग्रहणादेवेत्यर्थः । अथ तत्तद्रूपेण ग्रहणाभावेऽप्यवृक्षानन्यादिरूपतो ग्रहणं स्यादेवेत्याशङ्कते-अपितृत्ववदिति । व्याचष्टेस्यादियमाशङ्केति, पितृव्यतिरिक्तानां सर्वेषां पुरुषाणां तत्तद्रूपेण ग्रहणाभावेनानाश्रितमेदरूपाणां विधिरूपमन्तरेणापि पितुरन्यत्वरूपव्यावृत्तिबुद्धिमात्रेण निरवयवतया ग्रहणं यथा भवतीति भावः । दार्टान्तिकमाह-तथाऽग्निवृक्षाभ्यामिति, 20 अग्निना वृक्षशब्देन च व्यावा यद्यपि बहुविधास्तत्तद्रूपेण ग्रहीतुमशक्यास्तथापि तेष्वग्निव्यावृत्तिवृक्षव्यावृत्त्योः समानत्वात्तबुद्धिमात्रेणानपेक्षितावान्तरभेदाः प्रतीयेरन् को दोष इति भावः । तत्र दोषमादर्शयति-सर्वस्येति, तव मतेन पितृदृष्टान्तोऽपि न युज्यते, गुणसमुदायरूपो हि पितृरूपोऽर्थः, गुणाश्च सर्वे ग्रहीतुमशक्याः अत एव तत्समुदायरूपस्य पितुरग्रहणात्तदन्यस्य प्रतिपत्तिर्न भवेदेव, अस्मन्मते तु पिता विधिरूपेण दृष्टः, तत्कल्पाश्च स्वजना भ्रात्रादयः, पितृकल्पत्वादेव पितृविपरीतबुद्धेरध्यासेनैष मे पिता देवदत्तः, नेमे वसुरातादय इति ग्राह्याः, तदेवं पितुरपितुश्च स्फुटं परिज्ञानादनन्तरं परजनेषु पितुरन्यत्वं प्रतिपत्तुं शक्यत 25. इति भावः । तदेव स्वमतेन प्रतिपत्त्यौचित्यं निरूपयति-युक्तमिति घटत इत्यर्थः, तव मते तु नैवं प्रतिपत्तिः सम्भवतीत्याहत्वदर्शने पुनरिति, तव मते पिता गुणसमुदायरूपः, न हि सर्वेऽवयवा गम्यन्त इति पितुरदर्शनम् , ततः कथं तदन्यत्वप्रतिपत्तियुज्यत इति भावः । गुणसमुदायमात्रेति, पितृरूपोऽर्थः गुणसमुदायमात्रं, अत एव तस्य ग्रहण केनचिच्छब्देनामिधानं वा न सम्भवतीति ग्रहणाभावरूपेणाभिधानाभावरूपेण च पिताऽसन्निति भावः। मूलेन दृष्ट इत्यन्तेन पितुर्दर्शनविधिः व्यक्तग्रहणोत्तरकालमित्यन्तेनापितॄणां दर्शनविधिः शेषेण ग्रन्थेन तदितरभेदानां दर्शनविधिश्च सूच्यत इति दर्शयति-सा हीति, व्यावृत्तिबुद्धि-30:
सि.क्ष. छा० डे. ख्यासेन। २ सि.क्ष. छा. डे, थान्यस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430