Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९७६
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
www.ww
पोहवाद्येव परमतमाशङ्कते - बहुषु पलाशादिषु दृष्टोऽयं वृक्षः, तस्मात् कतम एषां विवक्षितः स्यादिति सामान्यात् संशयो भवतीत्याशङ्कय तत्रापि दोषं ब्रूयादन्यापोहवादी एवं सतीत्यादि, वृक्षार्थे सत्त्वद्रव्यत्वपार्थिवत्यानि[ दृ]ष्टानि तेषु निश्चयस्तु दृष्ट इत्यनैकान्तिकमेतत् केन पुनर्न्यायेनेति चेत्-अवृक्षनिवृत्त्यर्थाभिधानवदपृथिव्यद्रव्यासत्त्व[ व्या ]वृत्त्या वृक्षाभिधानात्, व्यावृत्तिबलेनेत्यस्य च न्यायस्य गुणोपचयवर्णनं 5 – यथा हि वृक्षेत्यादि गतार्थं यावत् संशयहेतवः इति, वयेन्तु ब्रूमो गुणे दोषाभिमानस्ते स्वपक्षरागादिति, व्याख्या-अन्वयद्वारेणदृष्टत्वात् केवलात् संशयः, किं कारणं ? यथादर्शनमनुमानप्रवृत्तेर्विशेष एवार्थादिरपि, शिंशपादिवद्विशेषादर्शनादेव पलाशदावपि वृक्षशब्दसामान्यात् संशयो भवत्यदृष्टत्व [[ ]द्विशेषविरहितस्य, निश्चयस्तु विशेषसहितस्य दृष्टत्वात् यदप्युच्यते सत्त्वद्रव्यत्वपार्थिवत्वादिषु कस्मान्निश्चयो भवतीति, तत्रापि दृष्टबलादेव |
wwwm
एवमेव च वृक्षार्थभवनप्रतीतिवद्वृक्षशब्दात् पार्थिवद्रव्यसत्त्वानि प्रतीयन्ते तैर्विना वृक्षभवनस्यैवादर्शनात् विधिरूपेण दर्शनसामर्थ्येनैव वृक्षपार्थिवद्रव्यसच्छन्दा आनुलोम्येन त्रिये कार्थनिश्चयहेतवः प्रातिलोम्येन संशयहेतवः, एवङ्गम्यतामर्थप्रकरणादिसहिताद्वृक्षशब्दात् शिंशपाया वृक्षत्वतत्त्वाद्धवादिभ्योऽर्थेभ्योऽन्यस्याः शिंशपादिशब्दादिव गतिर्विशेषदर्शनादेवेति ।
10
एवमेव च वृक्षार्थेत्यादि, यावद्वृक्षभवनस्यैवादर्शनादिति, एतदुक्तं भवति यथा वृक्षः स्वार्थभवनेन 15 विना न भवतीति वृक्षशब्दात्तद्भवनं प्रतीयते तथा पार्थिवद्रव्यास्तित्वैर्विना वृक्षत्वस्य [[भवनात् वृक्षार्थभवन ]विधत्ते - बहुष्विति । 'बहुधाऽप्यभिधेयस्य सामान्यात् संशयो भवेत् । शब्दात्तु निश्चयो दृष्टोऽवृक्षव्यावृत्तधीरिव ॥' वृक्षशब्दः पलाशसरलरसालपनसपिप्पलकदम्बनिम्बादिषु दृश्यते तस्मात् पलाशत्वतदभावसहचरितवृक्षत्वसामान्यज्ञानात् वृक्ष इत्युक्त संशयः स्यात्, किं पनसो विवक्षित उत सरल इति, एवं संशये परेणोद्भावितेऽन्यापोहवादी तत्र समाधिमभिधत्त इत्याह- बहुषु पलाशादिविति । समाधिमेव निदर्शयति-वृक्षार्थ इति, सामान्यमात्रस्य संशयहेतुत्वे व्यभिचारः, त्वया हि वृक्षशब्दार्थः सत्ताद्रव्यत्वपृ20 थिवीत्ववृक्षत्वविशिष्टो विशेष उच्यते तथा च सत्ताद्रव्यत्वादौ वृक्षशब्दसामान्यस्य सत्त्वतदभावसहचरितस्य दृष्टत्वात् संशयः स्यात्, न च भवति, किन्तु निश्चय एव दृष्ट इति व्यभिचारः, वृक्षशब्दो हि सम्बन्धानुरूप्यात्तज्जातीये दृष्टोऽर्थान्तरनिवृत्तिद्वारेणैवाभिधायको दृष्टः, अत्रृक्षनिवृत्तिद्वारेणैव हि वृक्षशब्दो वृक्षस्याभिधायकः, तद्वदपृथिव्यद्रव्यासत्त्वव्यावृत्त्या वृक्षस्याभिधायक इति भावः । इतरव्यावृत्तिरूपेणैवाभिधायकत्वमिति न्यायमाह - अवृक्षेति । शब्दानामन्वयद्वारेणाभिधायकत्वे संशयो दोषः, व्यावृत्तिबलेनाभिधायकत्वेऽवृक्षाद्यपोहस्य वृक्षतदवयवतदनुबन्धिव्याप्तत्वेन तेषां सत्त्वादीनां निश्चयो भवतीति गुण इत्याशयेनाह - व्यावृत्ति बलेनेति । योऽयं गुणे दोषाभिमानस्ते केवलं स्वीये पक्षेऽनुरागादेव न वस्तुस्थित्या, अन्वयद्वारेणाभिधायकत्वे संशयो न सर्वत्र, किन्तु यत्र विशेषो न दृश्यते तत्रैत्र संशय इत्याशयेनाह - वयन्तु ब्रूम इति । अन्वयद्वारेणेति, अन्वयद्वारेण विशेषविरहितस्य सामान्यस्यादृष्टत्वात् अनुमानादिप्रमाणेन विशेषसहितस्यैव दर्शनाच्च केवलाद्वृक्षादिशब्दात् संशयो धवपनसशिंशपादिविषयः स्यादिति भावः । इदमेवाहशिंशपादीति । वृक्षादिशब्दवाच्यस्य सदादित्वेन न संशयोऽपि तु निश्चय एव, अव्यभिचरितत्वेन तेषां दर्शनादित्याह - यदप्युच्यत इति सदादीनामव्यभिचरितत्वमेव तावदुपपादयति एवमेव चेति । वृक्षवृक्षार्थ भवनयोर्यथाऽव्यभिचरितत्वं वृक्षार्थभवनेन विना वृक्षस्यादर्शनात्, अत एव च वृक्षशब्दात्तद्भवनं नियमेन प्रतीयते तथा वृक्षत्वस्य पार्थिवभवनाद्यव्यभिचरितत्वात् वृक्षशब्दात्तत्प्रतीतिर्नियमेन भवतीत्याचष्टे - एतदुक्तं भवतीति । व्यावृत्तिबलेनाभिधायकत्वे यद्गुगोपचयवर्णनं यथा हीत्यादिनोक्तं तन्निराकरोति
25
30
१ सि. छा. डे. निश्चयो न दृष्टः । २ सि. क्ष. छा. डे. वयन्त्वक्रमे । ३ सि. क्ष. 'णानष्ट० । ४ सि. क्ष. पलाशाद्यपि । ५ अत्र क्षप्रतो यावत्सार्धंकपत्र मन्त्रानुपयोगिपाठो दृश्यते सोऽस्माभिरितरत्र नवमेऽनुगुणत्वात् परिगृहीतः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430