Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 406
________________ शब्दार्थप्रतिपत्तिः] द्वादशारनयचक्रम् ९७५ शुद्धिफलत्वादस्य सर्वविकल्पाः संक्षेपेण विधिप्रतिषेधौ, तावुभावित्थं गृहीताविति दर्शयति-विधिविकल्पोऽपि सदाद्यात्मकार्थग्रहणादिति विधि अपोहविकल्पोऽपि स्वसम्बन्ध्यन्यप्रतिषेधार्थत्वादिति प्रतिषेधमेतौ त्वद्वचनादेवापतितौ, तेन सर्वथा विकल्पानां [गतिः ]वागतिः स्याद्वादः, स च द्रव्यार्थपर्यायार्थावैकान्तत्यागरूपैकवाक्यमत्यात्मकौ, तयोर्विषयविभागेन शब्दार्थमुपसंहृत्य दर्शयति यथासंख्यं द्रव्यार्थत इत्यादि गतार्थं सोदाहरणं यावत् स्यादनपोह इत्यादि, आदिग्रहणादन्यदपि यत्किंचिदन्यैरप्युद्राहितं वस्तूदाहरणमेवास्य । सर्वगतासर्वगतकारणकार्यत्वादीत्यभिप्रायः, न च तेनेत्यादि यावत् सर्वेषामपीति वादपरमेश्वरत्वप्रदर्शनं स्याद्वादस्य गतार्थम् । ततश्चेदमपि दुरधीतमेवान्यापोहवादिनेत्युक्तार्थानुसारेणातिदेशेन दूषयति कारिकाम् , अन्यापोहस्य केवलस्य दूषितत्वात् , दर्शनबलेनैव शब्दार्थप्रतिपत्तेर्व्याख्यातत्वात् , अन्ते वा स्याद्वादोपसंहारात् , एकान्तविधिवाददूषणस्य प्रकाशितप्रकाशनवद्वैयर्थ्यादिति । यत्तूक्तं वृक्षो मञ्चकः क्रियत इत्यत्र वृक्षशब्दोऽर्थप्रकरणशब्दान्तरसन्निध्यादिभिः शिंश- 10 पादिष्वपि दृष्टत्वात् सर्वत्र सर्वथा केवलोऽपि शिंशपावाची स्यात् अथ बहुषु पलाशादिषु दृष्टोऽयं वृक्ष इति सामान्यात् संशयो भवतीति चेदेवं सति वृक्षार्थे सत्त्वद्रव्यत्वपार्थिवत्वानि दृष्टानि तेषु निश्चयस्तु दृष्टः, अवृक्षनिवृत्त्यर्थाभिधानवदपृथिव्यद्रव्यासत्त्वव्यावृत्त्या वृक्षाभिधानात् , यथा हि वृक्षादिशब्दाः स्वावयवान् तदनुबन्धिनश्चार्थान् व्याप्नुवन्ति स्वार्थाभावे न वर्त्तन्त इति व्यावृत्तिबलेन निश्चयहेतवः, शिंशपादिस्वार्थाभावेऽपि पलाशादौ वृत्तेरन्वये संशय-15 हेतव इति वयन्तु ब्रूमो गुणे दोषाभिमानस्ते स्वपक्षरागात्, अन्वयद्वारेणादृष्टत्वात् केवलात् संशयः यथादर्शनमनुमानप्रवृत्तेर्विशेष एवार्थादिरपि निश्चयस्तु विशेषसहितस्य दृष्टत्वात् , सत्त्वद्रव्यत्वपार्थिवत्वादावपि निश्चयो दृष्टबलादेव । यत्तूक्तमित्यादि, यत्परेण दोषजातमुपन्यस्तं विधिवादिनं प्रति तत्परिहतुकामः पूर्वपक्षयतिवृक्षो मञ्चकः क्रियत इत्यादि, अर्थप्रकरणशब्दान्तरसन्निध्यादिभिः' शिंशपादिष्वपि दृष्टत्वात् सर्वत्र सर्वथा 20 केवलोऽपि शिंशपावाची स्याद्वृक्षशब्दः, अनिष्टञ्चैतत् , केवलस्याप्रत्यायनात् , अथ बहुवित्यादि, सोऽन्या परित्यक्तैकान्तद्रव्यार्थपर्यायार्थोभयविषयविज्ञानजनकैकवाक्यत्वरूपत्वमित्याह-तेन सर्वथेति । द्रव्यार्थपर्यायार्थयोर्विषयविभागेन सोदाहरणं शब्दार्थतां दर्शयति-तयोर्विषयविभागेनेति, अत्र मूलं नोपलब्धम् । अन्येषामप्यन्यैरप्युपगतानां सर्वगतत्वासर्वगतत्वादीनां वस्तूनामपि द्रव्यार्थपर्यायार्थयोरुदाहरणत्वं विज्ञेयमित्यादिना दर्शयति-आदिग्रहणादिति । तैः सर्वगतादिविषयविकल्पैः सह न स्याद्वादस्य विरोधः, स्याद्वादस्य निखिलविकल्परूपलोकस्य नाथत्वात् , स हि सर्वेषां वादानां विरुद्धांशं त्याजयित्वा 25 साम्यतामापाद्य पालनं विधत्त इत्याह-नच तेनेत्यादीति । अन्यापोहवाद्युक्तं कारिकान्तरमतिदेशेन दूषयति-ततश्चेदमपीति, अत्र कारिका नावगम्यते, अथ वृक्षो मञ्चकः क्रियत इत्यादौ सामान्येनोक्तस्य वृक्षशब्दस्य विशेषविषये संशायकत्वात् तन्निर्णय. कार्यर्थप्रकरणशब्दान्तरसन्निध्यादिभिः शिंशपादिविशेषविषयत्वेन निर्णयात् सर्वत्र वृक्षशब्दः शिंशपावाच्येव स्यात्, न सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्वादिविशिष्टाभिधायी स्यात् यदि दर्शनबलेन शब्दार्थप्रतिपत्तिः स्यादित्याशङ्कते-यत्तूक्तमिति । व्याचष्टेयत्परेणेति । न चेष्टापत्तिः वृक्षशब्दस्य केवलशिंशपाप्रत्तिपत्तिजनकत्वाभावादिल्याह-अनिष्टश्चैतदिति । तथाऽऽशङ्कान्तरं 30 सि.क्ष. छा. शिंशपादिभिः । द्वा० न० ४६ (१२३) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430