Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
एकभवनात्मकत्वानुज्ञानम् ] द्वादशारनयचक्रम्
९७३ द्रव्याद्यभावदर्शनानभ्यनुज्ञानादतिस्फुट एवायं विधिवादस्त्वयाऽभ्युपगतः, भवनपरमार्थार्थाभ्युपगमात् , यः कोऽपि भवति वृक्षादिस्तदपि भवनमेव भवत एव भवनात् योऽप्यसौ व्यावृत्त्यभितः तदपि भवनमेव, भवत एव व्यावृत्तेः पर्वतादेः देवदत्तादेः व्यावृत्तिवत् , वैधhण खपुष्पवत् , एवं भवद्भवननिरूपणेऽयमस्य स्थित एवार्थः स चान्यश्चेत्यान्यापोहपरिग्रहोऽनुगमो विधिरेव, तस्मिंश्च सति सर्वथा वा गतिर्भवेदिति ।
__ एवं तह-त्यादि, यदि सत्त्वादीनीत्यादि-सत्ताद्रव्यपंथिवीत्वादीनि विशेषणानि वृक्षस्य वृक्षाद भिन्नानि सन्ति वृक्षो भवन्ति-तानि वृक्ष एवेत्यर्थः, स वा वृक्षस्तानि भवति, तेन तानि विशेष्यन्ते देवदत्तपाण्यादिवदेकभवनात्मनेत्येतदापन्नम् , तस्मिन्नेकभवने प्रयोगः शाखादिमति दर्शनमित्युच्यते, अस्यार्थः स एकभवनात्मकोऽर्थोऽस्य वृक्षशब्दप्रयोगस्य, किमिव? तत्स्वात्मवत्-सत्ताद्रव्यत्वादिवृक्षस्वात्मवत् , वृक्षस्य सत्ताद्रव्यत्वादिस्वात्मवदेकभवनात्मकत्वादित्यर्थः, कस्मात् ? उक्तन्यायेन ततोऽनन्यत्वात्-तेभ्य- 10 स्तस्य, तस्माद्वा तेषामनन्यत्वात् , द्रव्यादिवृक्षभावदर्शनात्-वृक्षद्रव्यादिभावदर्शनादित्यर्थः, कस्मात् ? द्रव्यायभावदर्शनानभ्यनुज्ञानात्-पृथिवीद्रव्यसत्त्वाभावे दर्शनं वृक्षस्य वृक्षाभावे वा पृथिव्यादिभावदर्शनं वृक्षात्मविषयत्वान्नाभ्यनुज्ञायते यस्मात् तस्मादेकभवनात्मकत्वानुज्ञानादन्याभावादतिस्फुट एवायं विधिवादस्त्वयाऽभ्युपगतः, पूर्वेष्वपि पक्षेषु स्फुट एव विधिवादः, अस्मिंस्त्वतिस्फुटः, कस्मात् ? भवनपरमार्था
भ्युपगमात्-वृक्षशब्दस्य सद्रव्यपृथिवीमृदादिवृक्षकभवनात्मकः परमार्थतोऽर्थ इत्यभ्युपगतत्वात् यः कोऽपि 10 भवतीत्यादिना भवनमेवेति दर्शयति-यावद्वैधर्येण खपुष्पवदिति, योऽप्यसावित्यादि, व्यावृत्त्यभिमतोऽपि
amwww
mmanmmmm
तहीति । सत्त्वादीनां वृक्षादिभिः सह तादात्म्याद्विशेषणत्वेऽभिमतेऽत्यन्ताभेदात् सत्त्वादीनि वृक्षादीन्येव न व्यतिरिक्तानि स्युरथवा वृक्षादीन्येव सत्त्वादीनि स्युर्विनिगमकाभावादिति व्याचष्टे-सत्ताद्रव्येति । सत्त्वादीनां वृक्षरूपतायां विशेषणत्वं वृक्षादीनां सत्त्वादिरूपतायां विशेषणत्वं सन् वृक्षः, वृक्षः सन्निति। वृक्षादीनां विशेषणत्वे दृष्टान्तमादर्शयति-देवदत्तेति, पाण्यादीनां देवदत्तो विशेषणम् , तदात्मकत्वात्तस्येति भावः । एकभवभवनात्मनेति, देवदत्तस्य पाण्यादेः, सत्त्वादेवृक्षादेश्च भवनमेकमेव, न पृथग्रूपम् तयोरत्य-20 न्तामेदादिति भावः। तेनैवैकभवनेन सह वृक्षादिशब्दस्य प्रयोगदर्शनादभेदः, तदेवैकभवनं वृक्षादिशब्दाभिधेयं भवतीत्याह-तस्मि
कभवन इति । सत्ताद्रव्यत्वादिवृक्षायेकभवने वृक्षादिशब्दप्रयोग एव शाखादिमति वृक्षे वृक्षशब्ददर्शनमित्युच्यत इति भावः। दृष्टान्तमाह-तत्स्वात्मवदिति, सत्ताद्रव्यत्वादीनां वृक्षखात्मतावत्, यद्वा वृक्षस्य सत्ताद्रव्यत्वादिस्वात्मतावत्, तयोहि भवनमेकमेवेति भावः । एकभवनात्मकत्वे हेतुमाह-उक्तन्यायेनेति, खसम्बन्धिभावाभावाभ्यां दर्शनादर्शनतोऽन्यत्वात् सत्त्वादिभ्यो वृक्षस्य वृक्षात् सत्त्वादीनामिति भावः । उक्तन्यायमेव दर्शयति-द्रव्यादीति, द्रव्यत्वादिभावे एव वृक्षस्य दर्शनात् , वृक्षभाव एव 25 तदात्मनो द्रव्यत्वादेर्दर्शनादित्यर्थः । व्यतिरेकमाह-द्रव्यादीति, खसम्बन्धिभ्योऽन्यत्रादर्शनाभ्युपगमादित्यर्थः । एवञ्चैकभवनात्मकत्वं तयोरुक्तन्यायं वदताऽभ्युपगतमेव स्यात् , ततश्च सत्त्वद्रव्यत्वपृथिवीत्वादिभ्यो वृक्षस्यैकभवनात्मकत्वेन सद्व्यादितोऽन्यस्य कस्याप्यभावादन्यापोहासम्भवेन त्वदीयो वादोऽयं विधिवाद एवेत्यतिस्फुटमिति भावः। अतिशब्दप्रयोजनमाह-पूर्वेष्वपीति । अतिस्फुटत्वे हेतुमाह-भवनपरमार्थेति, सामान्योपसर्जनविशेषविधिप्रधानशब्दार्थः परमार्थस्तस्याभ्युपगमादिति भावः । भवन्नेव भवति वृक्षादिः, नाभवन, खपुष्पादीनामपि भवनप्रसङ्गात् व्यावृत्तित्वेनाभिमतोऽपि भवनमेव, नाभवनम् , भवत एव व्यावृत्तः, 30 यद्यभवतोऽपि व्यावृत्तिः स्यात् , खपुष्पादेरपि व्यावृत्तिः स्यादित्याशयेनाह-यः कोऽपीति। भवत एव व्यावृत्तरित्यत्र भवत इति पदं
१ सि. क्ष. डा. डे. पृधिव्यादीनि । २ सि.क्ष. छा. डे. विषयत्वादभ्य० । ३ सि. क्ष. छा. डे. यस्कोऽपि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430