Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 402
________________ स्वसम्बन्धिभिन्नव्यावृत्तिशङ्का] द्वादशारनयचक्रम् तद्यथा-सर्वथा वाऽगतिर्भवेत् प्रश्लेषलभ्याकारत्वात् , अगतिरज्ञानं वृक्षशब्दोच्चारणाद्भवेत् सर्वथा, कस्मात् ? गन्तव्याभावात् , गन्तव्याभावश्चाभावाभावमात्रवृत्तित्वाच्छब्दानुमानयोरिति । ____ अत्रोच्येत न स्वभेदा अपोह्यन्ते नाप्यशेषभेदासंस्पर्शेनाभावमात्रम्, किन्तर्हि ? स्वसम्बन्धिसामान्यधर्मानुबन्धिभेदेष्वविनाभाविषु दर्शनसंस्पर्शने तद्व्यतिरिक्तेष्वन्यापोहस्य प्रवृत्तिरिति नोक्तदोषाः, अत एव चेदं स्वसम्बन्धिभ्योऽन्यत्र[]दर्शनात्तद्व्यवच्छेदानु- 5 मानमिति, अस्य व्याख्या-यत्र दृष्टः सोऽत्र सम्बन्ध्यभिप्रेतो न त्वविनाभावित्वसम्बन्धेन, .........अवृक्षोऽनग्निर्वा न भवतीति, एवश्च कृत्वा वृक्षशब्दाळूमाच्चानेकाविनाभाविनां पृथिवीद्रव्यत्वादीनामनुमानमुपपन्नं भवति, तदर्शनस्पर्शनवृत्तत्वात् , इतरथा त्वनुबन्धिनामन्यत्वादतुल्ये एव वृत्तरपक्षधर्मत्वादनैकान्तिकत्वविरुद्धत्वानुमानाभासदोषाः स्युः, अनुबन्धिनां त्यागे च तदविनाभाविनः स्वार्थस्यासम्भव एव, ततः प्रत्याय्यप्रत्यायनयोरनुपपत्तिः, तस्मात् 10 स्वसम्बन्धिभावाभावाभ्यां दर्शनादर्शनयोरभिप्रेतानुमानसिद्धिरिति । अत्रोच्येतेत्यादि, स्वभेदाभावव्यावृत्तिलक्षणान्यापोहेऽनन्तत्वादसम्भवसम्बन्धाभिधानादिदोषा उक्ताः, सामान्याभावाभावमात्रे सर्वैकत्वानर्थक्यापोहाभावदोषा उक्ताः, तेषां पक्षद्वयानभ्युपगमात् परिहारः। नाप्यशेषेत्यादि, किं तीति पक्षान्तरं श्रयते निर्दोष मन्यमानः, स्वसम्बन्धि[नोवृक्षस्यामेर्वा सत्ताद्रव्यत्वादिसामान्यधर्माः तदनुबन्धिनो भेदाश्च शिंशपादयः तेष्वविनाभाविषु दर्शनसंस्पैर्शने तद्व्यतिरिक्तेषु 16 घटादिष्वदर्शनसंस्पैर्शने जलादिषु चान्यापोहस्य प्रवृत्तत्वान्न सम्भवन्त्युभयपक्षगता दोषाः, अत एव चेदमि mmmmmmmmmmmmmmmm www.amammmmmm स्यादित्याह-अगतिरज्ञानमिति । कथमज्ञानं भवेदित्यत्राह-गन्तव्याभावादिति, अर्थगत्यर्थो हि शब्दप्रयोगो न ह्यत्र पक्षे कश्चनार्थों गम्यत इति भावः। सोऽपि कथमित्यत्राह-गन्तव्याभावश्चेति, शब्दानुमानयोर्भेदनिरपेक्षाभावमात्रवृत्तः ज्ञातव्यं प्राप्यं वा न किमप्यस्तीति भावः । ननु वृक्षादिशब्देन मेदानामभिधानपक्षे वृक्षार्थानामानन्यात् सम्बन्धाशक्यत्वादन्वयाभावाचान भिधेयतावत् व्यावानामपि घटपटादीनामानन्त्यात् तेन तेन प्रकारेणादृष्टत्वादप्रतिपत्त्याऽपोहासम्भव इत्यादिदोषा उक्ताः, 20 अन्वयव्यतिरेकयोर्भेदरूपाणामसंस्पर्श चाभावाभवमात्रस्यैकत्वेन घटपटवृक्षाग्न्यादीनां सर्वेषामेकत्वं विशेषवचनप्रत्ययवैयर्थ्यं सर्वेषां वृक्षत्वेनापोह्याभावादपोहाभावदोषा उक्ताः, तदिदं पक्षद्वयं परित्यज्य वादी शङ्कते-अत्रोच्येतेति । व्याचष्टे-स्वमेदेति, वृक्षादीनां ये भेदास्तदभावव्यावृत्तिस्वरूपान्यापोहपक्षे भेदानामनन्तत्वात् सम्बन्धाशक्यत्वादन्वयाभावाच्चापोहाभावदोषाः एवं व्यतिरेके भेदविवक्षणेऽपि विज्ञेयम् । भेदरूपासंस्पर्शपने दोषमाह-सामान्याभावेति, घटपटवृक्षामन्यादीनामेकत्वं विविधवचनप्रत्ययानर्थक्यमपोथाभावादपोहाभावदोषा उक्ता प्राविस्तरेणेति भावः। उक्तदोषाणां परिहारश्चोक्तपक्षद्वयानभ्युपगमादित्याह-25 तेषामिति, उक्तदोषाणामित्यर्थः । शब्दलिङ्गापोह्यावृक्षानग्निमात्रं नापोह्यत इति द्वितीयपक्षं दर्शयति-नाप्यशेषेत्यादीति। वृक्षस्याग्नेर्वा ये सम्बन्धिनः सामान्यधर्माः तदनुबन्धिनो विशेषाश्च, एतेऽन्वयरूपा अत्र दर्शन संस्पर्शनञ्च सम्भवति, एतन्यतिरिक्तेषु दर्शनस्य संस्पर्शनस्य चाप्रवृत्तेरन्यापोहः प्रवर्तत इति पक्षान्तरं दर्शयति-स्वसम्बन्धिन इति। तेष्वविनाभाविष्विति. एभिर्विना वृक्षादेरसम्भवः, एषु दर्शनं संस्पर्शनञ्च भवति वृक्षादिशब्दादेः, न गुणसमुदायमात्रता विवक्षिता, दर्शनाद्यसम्भवादिति २ सि. क्ष. छा. डे. वृक्षान्तः । ३ सि.क्ष. छा.डे. संस्पर्शन । सि.क्ष. छा. डे. तद्यथाविकल्पः सर्वथा। ४ सि.क्ष. छा. डे, संस्पर्शान । Jain Education International 2010_04 For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430