________________
स्वसम्बन्धिभिन्नव्यावृत्तिशङ्का] द्वादशारनयचक्रम् तद्यथा-सर्वथा वाऽगतिर्भवेत् प्रश्लेषलभ्याकारत्वात् , अगतिरज्ञानं वृक्षशब्दोच्चारणाद्भवेत् सर्वथा, कस्मात् ? गन्तव्याभावात् , गन्तव्याभावश्चाभावाभावमात्रवृत्तित्वाच्छब्दानुमानयोरिति । ____ अत्रोच्येत न स्वभेदा अपोह्यन्ते नाप्यशेषभेदासंस्पर्शेनाभावमात्रम्, किन्तर्हि ? स्वसम्बन्धिसामान्यधर्मानुबन्धिभेदेष्वविनाभाविषु दर्शनसंस्पर्शने तद्व्यतिरिक्तेष्वन्यापोहस्य प्रवृत्तिरिति नोक्तदोषाः, अत एव चेदं स्वसम्बन्धिभ्योऽन्यत्र[]दर्शनात्तद्व्यवच्छेदानु- 5 मानमिति, अस्य व्याख्या-यत्र दृष्टः सोऽत्र सम्बन्ध्यभिप्रेतो न त्वविनाभावित्वसम्बन्धेन, .........अवृक्षोऽनग्निर्वा न भवतीति, एवश्च कृत्वा वृक्षशब्दाळूमाच्चानेकाविनाभाविनां पृथिवीद्रव्यत्वादीनामनुमानमुपपन्नं भवति, तदर्शनस्पर्शनवृत्तत्वात् , इतरथा त्वनुबन्धिनामन्यत्वादतुल्ये एव वृत्तरपक्षधर्मत्वादनैकान्तिकत्वविरुद्धत्वानुमानाभासदोषाः स्युः, अनुबन्धिनां त्यागे च तदविनाभाविनः स्वार्थस्यासम्भव एव, ततः प्रत्याय्यप्रत्यायनयोरनुपपत्तिः, तस्मात् 10 स्वसम्बन्धिभावाभावाभ्यां दर्शनादर्शनयोरभिप्रेतानुमानसिद्धिरिति ।
अत्रोच्येतेत्यादि, स्वभेदाभावव्यावृत्तिलक्षणान्यापोहेऽनन्तत्वादसम्भवसम्बन्धाभिधानादिदोषा उक्ताः, सामान्याभावाभावमात्रे सर्वैकत्वानर्थक्यापोहाभावदोषा उक्ताः, तेषां पक्षद्वयानभ्युपगमात् परिहारः। नाप्यशेषेत्यादि, किं तीति पक्षान्तरं श्रयते निर्दोष मन्यमानः, स्वसम्बन्धि[नोवृक्षस्यामेर्वा सत्ताद्रव्यत्वादिसामान्यधर्माः तदनुबन्धिनो भेदाश्च शिंशपादयः तेष्वविनाभाविषु दर्शनसंस्पैर्शने तद्व्यतिरिक्तेषु 16 घटादिष्वदर्शनसंस्पैर्शने जलादिषु चान्यापोहस्य प्रवृत्तत्वान्न सम्भवन्त्युभयपक्षगता दोषाः, अत एव चेदमि
mmmmmmmmmmmmmmmm
www.amammmmmm
स्यादित्याह-अगतिरज्ञानमिति । कथमज्ञानं भवेदित्यत्राह-गन्तव्याभावादिति, अर्थगत्यर्थो हि शब्दप्रयोगो न ह्यत्र पक्षे कश्चनार्थों गम्यत इति भावः। सोऽपि कथमित्यत्राह-गन्तव्याभावश्चेति, शब्दानुमानयोर्भेदनिरपेक्षाभावमात्रवृत्तः ज्ञातव्यं प्राप्यं वा न किमप्यस्तीति भावः । ननु वृक्षादिशब्देन मेदानामभिधानपक्षे वृक्षार्थानामानन्यात् सम्बन्धाशक्यत्वादन्वयाभावाचान भिधेयतावत् व्यावानामपि घटपटादीनामानन्त्यात् तेन तेन प्रकारेणादृष्टत्वादप्रतिपत्त्याऽपोहासम्भव इत्यादिदोषा उक्ताः, 20 अन्वयव्यतिरेकयोर्भेदरूपाणामसंस्पर्श चाभावाभवमात्रस्यैकत्वेन घटपटवृक्षाग्न्यादीनां सर्वेषामेकत्वं विशेषवचनप्रत्ययवैयर्थ्यं सर्वेषां वृक्षत्वेनापोह्याभावादपोहाभावदोषा उक्ताः, तदिदं पक्षद्वयं परित्यज्य वादी शङ्कते-अत्रोच्येतेति । व्याचष्टे-स्वमेदेति, वृक्षादीनां ये भेदास्तदभावव्यावृत्तिस्वरूपान्यापोहपक्षे भेदानामनन्तत्वात् सम्बन्धाशक्यत्वादन्वयाभावाच्चापोहाभावदोषाः एवं व्यतिरेके भेदविवक्षणेऽपि विज्ञेयम् । भेदरूपासंस्पर्शपने दोषमाह-सामान्याभावेति, घटपटवृक्षामन्यादीनामेकत्वं विविधवचनप्रत्ययानर्थक्यमपोथाभावादपोहाभावदोषा उक्ता प्राविस्तरेणेति भावः। उक्तदोषाणां परिहारश्चोक्तपक्षद्वयानभ्युपगमादित्याह-25 तेषामिति, उक्तदोषाणामित्यर्थः । शब्दलिङ्गापोह्यावृक्षानग्निमात्रं नापोह्यत इति द्वितीयपक्षं दर्शयति-नाप्यशेषेत्यादीति। वृक्षस्याग्नेर्वा ये सम्बन्धिनः सामान्यधर्माः तदनुबन्धिनो विशेषाश्च, एतेऽन्वयरूपा अत्र दर्शन संस्पर्शनञ्च सम्भवति, एतन्यतिरिक्तेषु दर्शनस्य संस्पर्शनस्य चाप्रवृत्तेरन्यापोहः प्रवर्तत इति पक्षान्तरं दर्शयति-स्वसम्बन्धिन इति। तेष्वविनाभाविष्विति. एभिर्विना वृक्षादेरसम्भवः, एषु दर्शनं संस्पर्शनञ्च भवति वृक्षादिशब्दादेः, न गुणसमुदायमात्रता विवक्षिता, दर्शनाद्यसम्भवादिति
२ सि. क्ष. छा. डे. वृक्षान्तः ।
३ सि.क्ष. छा.डे. संस्पर्शन ।
सि.क्ष. छा. डे. तद्यथाविकल्पः सर्वथा। ४ सि.क्ष. छा. डे, संस्पर्शान ।
Jain Education International 2010_04
For Private & Personal Use Only
For Private & Personal use only
www.jainelibrary.org