________________
९७०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे ___ ततश्च वृक्ष इत्यवृक्षो न भवतीत्युक्ते इदमुक्तं भवेत् योऽभावाभावः स वृक्ष इति नान्यदभावनिवृत्तेः, ततो घटपटादीनां वृक्षतावत् वृक्षशब्दार्थत्वप्राप्तेः कुतोऽपोहस्तेषां स्थात्, सर्वथा वा गतिर्भवेत् , अतः सर्वदर्शननिराकाऋतायां सत्यां. शब्दादनुमानाद्वाऽभावाभावमात्रवृक्षाग्नित्वाद् विशेषवचनप्रत्ययानर्थक्यम्, अभावाभावमात्रस्यैकत्वात् , भेदविषयवचनानुमान5 व्यवहारनिर्विषयत्वात्, अभूतभेदविषयत्वाद्वा खपुष्पादिवत्, अगतिरज्ञानं वा वृक्षशब्दोच्चार
णाद्भवेत् सर्वथा, गंतव्याभावात् , अभावाभावमात्रवृत्तित्वाच्छब्दानुमानयोरिति । ..ततश्चेत्यादि, अस्मादुक्तन्यायादेष शब्दार्थः संवृत्तः, वृक्ष इत्यवृक्षो न भवतीत्युक्ते इदमुक्तं भवेत् सम्भाव्येत, योऽभावेत्यादि, अभावस्याभावो वृक्ष इत्युक्तं स्यात् , नान्यदभावनिवृत्तेः, ततो घटपटादीनामभावनिवृत्तिमात्रत्वात् वृक्षतावत् वृक्षशब्दार्थवत्वं प्राप्तम् , कुतोऽपोहस्तेषां स्यात् ? तत्संस्पर्शे हि स्यादपोह10 स्तेऽवृक्षो न भवतीति, इत्थमपोहाभावः, अनिष्टञ्चैतत् , किश्चान्यत्-सर्वथा वा गतिर्भवेत्-अभावाभावमात्रं
हि वृक्षोऽग्निर्वा स्यात् , न सपक्षासपक्षभेदसंस्पर्शन दृष्टवत्, अतः सर्वदर्शननिराकाङ्कता, तस्याश्च सत्यां शब्दात्-वृक्षात अनुमानाद्वा-धूमादभावाभावमात्रवृक्षाग्नित्वात् दृष्टभेदासंस्पर्शादेव त्वदुक्तात् वृक्षोऽग्निरिति च विशेषवचनप्रत्ययानर्थक्यं स्यात् , कस्मात् ? अभावाभावमात्रस्यैकत्वादिति, स्वपरार्थानुमानयोः
सामान्येन हेतुः खपुष्पादिवदिति दृष्टान्तः, विशेष्य वा हेतुः-भेदविषयवचनानुमानव्यवहारनिर्विषयत्वात् , 15 अभूतभेदविषयत्वादिति, सामान्येन स एव दृष्टान्तः सर्वत्रान्तेऽभिहितत्वात् , अयमन्यो व्याख्याविकल्पः,
AA
रूपे यद्यवृक्षो व्यतिरेको भेदं न स्पृशति तथा तदपोहोऽन्वयोऽपि भेदं न स्पृशति तीभावाभावमात्रं वृक्षशब्दार्थः स्यादित्याहततश्चेति । व्याचष्टे-अस्मादुक्तन्यायादिति, गुणसमुदायमात्रार्थत्वाभावसामान्यव्यावर्त्तनन्यायादित्यर्थः । वृक्षशब्दस्यावृक्षो न भवतीत्यर्थकत्वे किमुक्तं भवेदिति सम्भाव्यत इत्यत्राह-योऽभावेत्यादीति, योऽभावाभावः-अभावसामान्यस्याभावः स एव वृक्ष इत्युक्तं सम्भाव्यते, तथा सति सर्व घटपटादि वस्तु अभावनिवृत्तिरूपत्वादृक्षस्वरूपं प्राप्तम् , तद्वत् वृक्षशब्दार्थत्वमपि घटपटादीनां 20 प्राप्तम् , वृक्षस्य वृक्षशब्दार्थत्वात् , तेषाञ्च वृक्षत्वात् , न ह्यभावनिवृत्तेरन्यो वृक्षः, तस्मादृक्षशब्देन न घटपटादीनामपोहः स्यादिति
भावः । यद्यवृक्षो घटपटादिभेदरूपाणि संस्पृशेत्तर्हि तेषां व्यावृत्तिः वृक्षशब्दाद्भवेत् , नेष्यते च तथा, तस्मात्तदपोहो न स्यादेवेत्याह-तत्संस्पर्श हीति । दोषान्तरमाह-सर्वथा वेति, वस्तुमात्रं ह्यभावाभावरूपमतोऽभावाभावमात्रेण सर्वेषां सर्वथाऽवगतिर्भवेत् , वृक्षशब्दादेव वृक्षवदन्निघटपटमठादेरवगतिः स्यात्, न त्ववृक्षा ये घटपटादयस्तद्भिन्नो वृक्ष एव वृक्ष
शब्दार्थः, नाम्न्यादिः, अनग्नियः घटपटादिस्तदन्योऽग्निरेव धूमेन गम्य इति लोकेन यथा दृश्यते तथा न स्यादिति भावः । एवञ्च 25 लोकेन दृष्टानां विविधानां दर्शनानां त्वयाऽनाकांक्षणादृक्षोऽयं वृक्षशब्दवाच्यः, अग्निरयं धूमलिङ्गगम्य इत्येवं विशेषवचनानां
प्रत्ययानाञ्च वैयर्थ्यमेव कृतं स्यात् शब्दगम्येऽनुमानगम्ये चाभावाभावे वैलक्षण्याभावादित्याह-अतः सर्वदर्शनेति, एकेनैव शब्देनानुमानेन वाऽभावाभावमात्रत्वेन निखिलवस्त्ववगतेः सर्वदर्शनानां निराकांक्षतेत्यर्थः। भवतु तन्निराकांक्षतेत्यत्राह-तस्याश्च सत्यामिति । अभावाभावमात्रस्यैकत्वादिति हेतुर्विशेषवचनानर्थक्यलक्षणपरार्थानुमाने विशेषप्रत्ययानर्थक्यलक्षणस्वार्थानुमाने
चैकहेतुरित्याह-स्वपरार्थेति । खपुष्पमप्यभावाभावमात्रमनर्थकञ्चेति दृष्टान्तमाह-खपुष्पादीति । उभयत्र विशेष्य हेतुद्वयमाह30 भेदविषयेति, विशेषवचनमनर्थकम् , भेदविषयवचनव्यवहारनिर्विषयत्वात् , विशेषप्रत्ययोऽनर्थको भेदविषयानुमानव्यवहारनिर्वि
षयत्वात् , खपुष्पादिवदिति भावः । उक्तहेतुद्वयेनापि सामान्यहेतुं सिद्धमाह-अभूतभेदविषयत्वादिति, अविद्यमानभेदविषयवादित्यर्थः । सर्वत्र खपुष्पादिरेव दृष्टान्त इत्याह-स एवेति। तत्र हेतुमाह-सर्वत्रेति । सर्वथा वा गतिर्भवेदिति मूलमकारं प्रश्लिष्य सर्वथा वाऽगतिर्भवेदिति मत्त्वा प्रकारान्तरण व्याचष्टे-अयमन्य इति । वृक्षादिशब्दोच्चारणे भेदनिर्विषयत्वादज्ञानमेव कस्यापि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org