________________
व्यतिरेकाशक्यता ]
द्वादशारनयचक्रम्
www
अधोच्येतेत्यादि, अथ परेणोच्येत ननूक्तमेव गुणसमुदायमात्रस्य काणकुण्टादेर्दर्शनासम्भवः, सत्यपि च दर्शने सर्वथाऽनुमानासम्भवः, सर्वप्रकारेणा दृष्टत्वादि [ति] निराकांक्षीकृते मूलत एव पुनरिदान को विचारो दर्शनं स्यादिति ?, स्थिते तु स्वार्थस्याभावे सामान्यरूपस्याभावमात्रस्य निवृत्तिः, अभावभेदासंस्पर्शात्-वृक्ष इत्यवृक्षो न भवति, अग्निरित्यनग्निर्न भवतीत्यवृक्षाननी अभावभेदासंस्पर्शेनोच्येते, न वाऽभावस्य भेदाः सन्ति, तस्मात् सर्वाभावभेददर्शनेन विनैवापोहो गमक इत्यत्रोच्यते-अथ स्वार्थाभावाभावमात्रत्वे 5 त्वदिष्टे कः शब्दार्थ इति पृच्छति - वृक्ष इत्यादि प्रत्युच्चार्य अत्राप्यपोहाभावमापादयितुकामः तच्छन्दोवृक्षशब्दः परार्थेऽनुमाने, स्वार्थे धूमच लिङ्गे, ताभ्यामन्या [व] पोह्यौ - अवृक्षानम्मी घटादिभेदरूपाण्यसंस्पृश्येत्यभिमतार्थसूचनम्, प्रसज्यप्रतिषेधार्थे [न] वृक्षो न भवत्यवृक्ष इति तन्मात्रमेव च गम्येत, न च गम्यत इत्यभिप्रायः, वृक्षादन्योऽवृक्ष इति न वृक्षपर्युदासेन घटादिरर्थात्माऽन्यः कचिल्लभ्यते, अन्यस्यासत्त्वादविवक्षितत्वाच्च वृक्ष एव व्याख्येयो विवक्षितत्वात्, स्वयमनवगतः कथमभावं विशेषयितुं शक्नुयात् ? अवृक्षो 10 वृक्षाभावो न घटाभाव इति खपुष्पमिव वन्ध्यापुत्रः कस्मात् ? तस्य - अभावस्य भावेन लभ्यात्मलाभत्वात्, सः स्वयमसन् कथमसतो विशेषणं स्यात्, उभयत्र च - अन्वये व्यतिरेके च घटादीनां भेदरूपाणां सपक्षासपक्षयोरस्पृशत्वेनेष्टत्वात् न किञ्चित् केनचिद्विशेषयितुं शक्यम् ।
wwwwww
Jain Education International 2010_04
wwww
नास्ति स्वार्थो नाम कश्चित् तथाच शब्देन लिङ्गेन च स्वार्थाभावस्य सामान्यस्य निवृत्तिमात्रं क्रियते, यथा वृक्षशब्दः स्वार्थाभावेनावृक्षसामान्यस्य निवर्त्तकः, न हि वृक्षसामान्याभावो घटपटा दीनवृक्षान् स्पृशति, अभावस्य भेदाभावादित्याह - स्थिते 16 तु स्वार्थस्याभाव इति, शब्दवाच्यस्य वृक्षादिभावरूपस्य स्वार्थस्य गुणसमुदायरूपस्याभावे निश्चितेऽवृक्षोऽपि वृक्षसामान्याभाव एव सामान्यरूपो न तु घटपटादिविशेषात्मको वृक्षाभावः, तस्य घटपटादिविशेषैः संस्पर्शाभावात्, केवलं वृक्ष इति शब्देनापोह्यतया अवृक्षमात्रमुच्यते, अग्निरित्यनेन चाननिमात्रमिति भावः । एवञ्चावृक्षभूतानां घटपटादिनिखिल भेदानामपरिज्ञानेऽपि गमकत्वं सम्भवत्येवेत्याह- तस्मादिति, एवञ्चापोह्यस्यादर्शनादयं भवत्ययं न भवतीत्यन्वयव्यतिरेकौ न भवितुमर्हतः, दृष्टाव हि बुद्धिरन्वियात्तेभ्य एव च व्यावर्त्तयेत्, नात्यन्तादृष्टान् खपुष्पवन्ध्यापुत्रादिविषया नित्यपास्तमिति भावः । अत्राचार्य 20 आह-अथ स्वार्थाभावेति, स्वार्थाभावसामान्याभाव एव यद्यभीप्सितः तर्हि शब्देन न कश्चिदर्थो गम्येतेत्यभिप्रायः । तमेव स्फुटयति- वृक्ष इत्यादीति, आदिना धूम इतीति ग्राह्यम्, वृक्ष इति शब्दः परार्थानुमानभूतो ग्राह्यः, धूम इति स्वार्थानुमानलिङ्गभूतश्च, अत आह- तच्छब्द इति, आभ्यामन्यौ हि अपौह्यौ भवतः, वृक्षशब्देनावृक्षः धूमेनानग्निश्च कथम् ? भेदरूपाणि घटपटादीन्यसंस्पृश्य, एवं तर्हि अवृक्षशब्दस्य वृक्षाभाव एवार्थो न तु वृक्षाभाववान् घटादिः एवमनग्निशब्दस्यापि, भवत्विति चेन्न तथा सति प्रसज्यप्रतिषेधेन वृक्षो न भवति, अग्निर्न भवतीत्यभावमात्रं गम्येत, न च तथा गम्यत इति भावः । 25 गम्यते च पर्युदासेन वृक्षादन्योऽवृक्षो घटपटादिरर्थः भवन्मतेन तु तथाविधोऽन्यरूपोऽर्थो नास्ति, गुणसमुदायरूपस्य तस्यादर्शनात्, कथञ्चित् सन्नपि सोऽर्थोऽत्र न विवक्षितः, वृक्षस्यैव प्रतिपिपादयिषितत्वादित्याशयेनाह - वृक्षादन्य इति । ननु अन्यस्यासत्त्वं भवतु वृक्षस्य विवक्षितत्वादवृक्ष इति वृक्षाभावगतिश्च को दोष इत्यत्राह - स्वयमनवगत इति, वृक्षो हि गुणसमुदायरूपत्वादनवगतः, एवञ्च वृक्षशब्देनापोह्योऽवृक्षो घटाद्यभाव एव कथं न स्यात्, अनवगतो हि वृक्षः स्वाभावं घटाद्यभावाद्व्यावर्तयितुं कथं शक्येत, न ह्यनवगतो बन्ध्यापुत्रः स्वं खपुष्पाद्व्यावर्त्तयितुं शक्नोति, स्वस्वरूपस्यैवा सिद्धेरिति भावः । तमेव हेतुमाह - 30 तस्येति, अभावस्यात्मलाभो भावेन भवति, अयमभावो घटस्य, अयमभावः पटस्येति यदा तु भाव एव स्वयमसन् तदा कथं सोsभावस्य स्वरूपं लम्भयितुं क्षमः स्यादिति भावः । एवञ्चायं वृक्षो भवति, अयमवृक्षो न भवतीत्यन्वये व्यतिरेके च वृक्षाम्यादेः घटपटादेश्व मेदरूपस्यासंस्पर्शात् किं केन कस्माद्व्यावर्त्यत इति दर्शयति-उभयत्र चेति । एवञ्च वृक्षशब्दार्थेऽवृक्षो न भवतीत्येवं
१ सि.क्ष. छा. डे. तोऽर्थसूत्रं च । २ सि. क्ष. छा. डे. 'भावोमदभाव० ।
For Private & Personal Use Only
९६९
www.jainelibrary.org