SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ उभयनियमारे गरादागच्छामि, द्वारम्, ग्रामस्यार्धं लभेत, स्थूलपृषतीमालभेतेत्यादिषु निमित्तान्तरैरेकार्थस्यावच्छेदः । ९६८ एवं श्रुतिमात्रेत्यादि, अनेनोक्तन्यायेन श्रुतिमात्रतत्त्वो गवादिरेकः शब्दोऽ[प्र ]तिलब्धबिभागोऽनेकार्थगमकशक्तियुक्तः किमिव ? एकादित्येत्यादि यावत् कारित्ववदिति गतार्थः प्रोक्तार्थोपसंहारः, 6 स्यान्मतमेकस्यानेकार्थकारित्वे विभागप्रतिपत्त्यभावादव्यवच्छेदप्रसङ्ग इति, तन्न, प्रत्यर्थवृत्तीत्यादि यावत् 'विशेषस्मृतिहेतवः' इति यथासंख्यं सकरभाद्युदाहरणं भावितार्थं कारिकाद्वयं निमित्तान्तरादेकार्थावच्छेदाख्यानम्, आदिग्रहणात् गौणमुख्यस्तुतिनिन्दादिभावार्थ कृतव्यवच्छेदादिति । अथोच्येत ननूक्तमेव गुणसमुदायमात्रार्थस्य सर्वथा दर्शनासम्भवः सत्यपि च दर्शनेऽनुमानासम्भव इति पुनरिदानीं को विचारो दर्शनं स्यादिति स्थिते तु स्वार्थाभावे सामान्य10 रूपस्याभावमात्रस्य निवृत्तिः, अभावभेदासंस्पर्शात्, वृक्ष इत्यवृक्षो न भवति अग्निरित्यनग्निर्न भवतीत्यवृक्षानी अभावभेदासंस्पर्शेनोच्येते, तस्मात् सर्वाभावभेददर्शनेन विनैवापोहो गमक इत्यत्रोच्यते अथ स्वार्थाभावाभावमात्रत्वे वृक्ष इति धूम इति तच्छन्दलिङ्गाभ्यामपोह्या घटादिभेदरूपाण्यसंस्पृश्य प्रसज्यप्रतिषेधेन तन्मात्रमेव च गम्येत, न वृक्षादिपर्युदासेन घटादिरर्थात्मा कश्चित्, अन्यस्यासत्त्वादविवक्षितत्वाच्च, स्वयमनवगतः कथमभावं विशेषयितुं शक्नुयात् 16 अवृक्षो वृक्षाभावो न घटाभाव इति, तस्य भावलभ्यात्मलाभत्वात्, उभयत्र सपक्षासपक्षयोः न किञ्चित् केनचिद्विशेषयितुं शक्यम् । ब्दस्यैकत्वेन तद्विशेषस्य निरूपयितुमशक्यत्वात् स एव शब्दोऽनेकार्थबोधकशक्तिमानिति भावः । तत्रादित्यस्य प्रकाशोष्णतापङ्कजविकसनप्रभृत्यनेककार्यकारित्ववदने कार्थबोधकशक्तियुतत्वमित्याह-एकादित्येति । नन्वनेकार्थत्वेऽपि शब्दस्याभेदे विभागेन प्रतिपत्तेरभावात् गोशब्दादेरत्र कोऽर्थो ग्राह्य इत्यनवच्छेदस्य संशयस्य प्रसङ्गः, गोशब्दत्व लक्षणसाधारणधर्मदर्शनादन्यतरविशेषधर्मा20 स्मरणाच्चेत्याशङ्कते - स्यान्मतमिति । नास्ति शब्दार्थानवच्छेदः, अनवच्छेदकप्रतिबन्धकविशेषस्मृतेरुद्बोधकभूताः संसर्गादयो हेतवः सन्तीति दर्शयति- प्रत्यर्थवृत्तीति, अर्थमर्थं प्रति प्रत्यर्थं वर्तनं शब्दस्य, सद्व्यवस्थाविधायका नियतार्थावसायहेतुत्वाद्विशेषस्मृति - तवः संसर्गादय इति भावः । सकरभा धनुः अकरभा धेनुरिति संसर्गविप्रयोगयोरुदाहरणम्, करभस्य संसर्गेण विप्रयोगेण च विशिष्टजातीयघेनोरवगतिः, रामलक्ष्मणावित्य लक्ष्मणसाहचर्याद्दाशरथेः रामार्जुनावित्यत्रर्जुन निसर्गवै रिजामदम्यस्य, अञ्जलिना जुहोति अञ्जलिना सूर्यमुपतिष्ठते इत्यादी जुहोतीत्याद्यर्थवशादञ्जलिशब्दस्य विभिन्नार्थवाचकत्वस्य, सैन्धवमानयेत्यत्र ग्रामभोजनप्रकरणाभ्यामश्वलवणा25 द्यर्थस्य, अक्ताः शर्करा उपदधातीत्यत्र तेजो वै घृतमिति स्तुतिलिङ्गेन घृतसाधनशर्करा कर्मकाञ्जिक्रियाया, अर्जुनः कार्त्तवीर्य इत्यत्र कार्त्तवीर्यशब्दसन्निधानात् कार्त्तवीर्यार्जुनस्य, अनुदरा कन्येत्यादौ सामर्थ्यादुदर विशेषस्य, यश्च निम्बं परशुनेत्यत्रौचित्यात्समुचितछेदनक्रियापदाक्षेपस्य, मथुराया प्राचीनान्नगरादागच्छामीत्यत्र देशवशात् पाटलिपुत्ररूपनगर विशेषस्य, द्वारमित्युक्ते शिशिरे पिधेहीति ग्रीष्मे समुद्घाटयेति पदाक्षेपस्य, ग्रामस्यार्धं लभेतेत्यत्रार्द्धमिति व्यक्तेर्लिङ्गात् समार्धस्य, स्थूलपृषतीमालभेतेत्यादौ स्वरस्यान्तोदात्तस्य श्रवणात् कर्मधारयार्थस्य च निर्णयो भवतीति श्लोकयोरुदाहरणानि । स्वरादय इत्यत्रादिग्रहणग्राह्यान् दर्शयति- आदिग्रहणादिति, ) गौर्वाहीक इत्यादौ गौणमुख्यन्यायाद्भावार्थस्य विनिश्रयः, एवं क्वचिन्निन्दापरवाक्यात् स्तुतिरूपस्य स्तुतिपरवाक्यात् निन्दारूस्यप भावार्थस्य व्यवच्छेद इति भावः । नन्वर्थः गुणसमुदायरूपः, गुणानाञ्च यावतां ग्रहणासम्भवेन सर्वथाऽर्थस्यादर्शनमेव सत्यपि कथचिद्दर्शने कार्त्स्न्येनाविनाभावाग्रहणादनुमानासम्भव एवेति प्रतिपादितत्वात् सत् असदपि दृष्टः द्रव्यमद्रव्यमपि दृष्टम् घटोऽघटव दृष्ट इत्यादि दर्श नविचारस्यावतार एव नास्तीत्याशङ्कते - अथोच्येतेति । तामेव शङ्कामादर्शयति- ननूक्तमेवेति, इति पा सम्बन्धः, मूलतोऽर्थदर्शनमेव नास्तीति दर्शनाकांक्षाया एव निरासे सतिं ततो दर्शन विचारस्यावकाश एवं नास्तीति भावः । तदेवं 30 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy