________________
ww
mmmmmmm
शब्दस्यैकस्यानेकार्थशक्तता] द्वादशारनयचक्रम् गौरित्यगौर्भवतीत्यभिमत[म्, क]स्मात् ? वागादिगवाव्यतिरेकातिरेकवत्-तद्यथा गौरित्युक्ते वागादिषु न व्यतिरिच्यते गोत्वं, गोशब्दवागित्युक्ते दिगादिभ्यो व्यतिरिच्यते बौदिगिति, ततो गौरगौरपि भवतीति गतार्थमुदाहरणम् , एवं तावदनेकार्थे कशब्दत्वेऽन्यापोहाभावः, अनेकशब्दैकार्थत्वेऽपि तद्यथा-एकोत्तरशतनामत्वाचाम्भस इत्यादि सलिलमुदकममृतं वारि]जीवनं विषमित्यायकोत्तरशतमुदकनामानि निरुक्ते पठ्यन्ते, ततो विषमविषं भवति, अविषमपि विषं भवति, अपानीयं ग्रन्थिसादि विषं म[]रणात्मकं न जीवनात्मकं । जीवनात्मकमप्युदकादि मारणात्मकं दुःप्रयोगादित्यादि गमनिका, आदिग्रहणात् घृतमघृतमित्यादि, तथा पील[:]वृक्षोऽवृक्षत्वादपीलुर्भवति धनादिवत् , हस्तिवत् पीलुर्वा हस्त्यपि पीलुरपीलुर्भवति हस्तित्वात् मनुष्यवत् , तथा विपर्ययेण-अहस्तित्वादपीलुर्भवति पीलुवृक्षः, अवृक्षत्वात् अपीलुहस्तीति, अत इत्युपसंहरति-पीलुरपीलुश्चापीलुरपि पीलुश्चेति, एवं हरिरामार्जुनादयोऽपीति व्यापितामस्य न्यायस्योदाहरणबाहुल्येन दर्शयति, शक्रसिंहवासुदेवमण्डूकवानरहयादिषु हरिशब्ददर्शनादहरिर्हरिश्च, रामो रम्यवर्णदाशरथिबलदेवजामदग्न्येषु, 10 अर्जुनः तृणसुवर्णवृक्षपाण्डवकार्त्तवीर्येषु दर्शनादित्यादि, तच्चातञ्च पूर्ववत् ।
एवं श्रुतिमात्रतत्त्वो गवादिरेकः शब्दोऽप्रतिलब्धविभागोऽनेकार्थगमकशक्तियुक्तः, एकादित्यानेकार्थकारित्ववत्, प्रत्यर्थवृत्तिव्यवस्थापका हेतवो यथोक्तं-'संसर्गो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः॥ (वाक्यप. का. २ श्लो. ३१७-३१८) 15 सकरभा घेनुरकरभा धेनुः रामलक्ष्मणौ, रामार्जुनौ, अञ्जलिना जुहोति, सैन्धवमानय, अक्ताः शर्करा उपदधाति, अर्जुनः कार्तवीर्यः, अनुदरा कन्या, सीरासिमुसलैः, मथुरायाः प्राचीनान्नव्यतिरेकेति । व्याचष्टे-तद्यथेति, सामान्येन यदि गौरित्युच्यते तदा गोत्वं वागादिषु सर्वेष्वर्थेषु समानं न तु कस्मादपि विशिष्ठम् , यदा च वागुद्देशेनेयं गोशब्दवाच्येत्युच्यते तदा गोशब्दस्य तत्रैव वृत्तर्वाक् न दिगिति दिगादिभ्यो व्यतिरिच्यते, तस्माद्वाक् गोशब्दवाच्यत्वेन गौरपि सती गोशब्दवाच्यदिगादिव्यतिरिक्तत्वेनागौरपि भवति, तथा तद्गोशब्दोऽपि, 30 तदेवमनेकार्थकशब्दपक्षेऽन्यापोहो न सम्भवतीति भावः । एकोऽर्थः, अनेके शब्दा इति पक्षेऽप्यन्यापोहासम्भवं दर्शयति-अनेक शब्देति । तनिरूपयति-एकोत्तरेति, एकोत्तरशतं सलिलनामानि निरुक्ते पठ्यन्ते, जीवनात्मकमप्युदकादिजलमविषं दुष्प्रयोगादिना मरणात्मकं विषं भवति, तथा विषमपि सुप्रयोगादिनाऽविषं भवतीत्येवं विभावनीयमर्थे शब्दे चेति भावः । एतदेव दर्शयति-ततो विषमिति । अनेकार्थंकशब्दपक्षदााय निदर्शनान्तराण्याह-तथा पीलवक्ष इति 'द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः' इत्यमरः, वृक्षभूतपीलुरवृक्षत्वाद्धनादिवदपीलुर्भवतीति पीलोर्मातङ्गार्थत्वेनावृक्षत्वं सिद्धम् , 25 तथा स एवावृक्षत्वात हस्तिवत् पीलुरपि भवति, हस्ती हि अवृक्षः पीलुशब्दवाच्यत्वात् पीलुरपीति भावः । इत्थं पीलुरपि हस्ती हस्तशालिमनुष्यस्यापीलुत्ववदपीलुरपि हस्तित्वाद्भवतीत्याह-हस्त्यपीति। अपीलुरपि पीलुर्भवतीत्याह-तथा विपर्ययेणेति । न्यायस्य तदतत्त्वलक्षणस्य व्यापकत्वमादर्शयितुं प्रचुरनिदर्शनोपन्यसनमित्याह-एवं हरिरामेति । हरिशब्दानेकार्थमाह-शक्रेति, एकहरिशब्दार्थत्वेन हरित्वेऽपि तदन्यहरिशब्दार्थभिन्नत्वेनाहरिरपीति बोध्यमेवं सर्वत्र । रामशब्दानेकार्थमाह-राम इति। अर्जुनशब्दानेकार्थमाह-अर्जुन इति । एवमेकः शब्दोऽनेकार्थवाचकशक्तिः नास्ति शब्दस्य भेदः, श्रुतिविषयीभूतशब्दस्वरूपे 30 विशेषांभावादित्याह-एवं श्रुतिमात्रतत्त्व इति । व्याचष्टे-अनेनेति, श्रुतिविषयीभूतगकारोत्तरीत्वरूपतत्त्वापेक्षया गोश
१२. गौर्भवती । . २ सि. क्ष. छा. डे. °तिरेकवत् । : ३ सि. क्ष. वानदिगिति। , . . . . ... . .. द्वा०४५ (१२२)
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org