________________
९६६ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे गोशब्दस्य, तस्मिंश्च-एकात्मकत्वे सति शब्दस्य शक्तिभेदात् सम्बन्धिभिरभिव्यक्तात् तत्तदर्थप्रत्यायनशक्तयः प्रकल्प्याः किमिव ? एकपुरुषपितृपुत्रादिवत्-यथैक एव पुरुषोऽनेकशक्ति[:]सम्बन्धिभेदापेक्षया पिता पुत्रो मातुलो भागिनेय इत्यादि व्यपदेशभाग् भवति तथा गोशब्दोऽपि वागादिषु ? कस्मात् ? प्रतिसम्बन्ध
मन्यथावृत्तेः-से एव सम्बन्धं सम्बन्धं प्रति सम्बन्धिजनितमन्यथा वर्त्तते तस्मादेकत्वाद्गोशब्दस्य वागादि5 भिन्नार्थवाचित्वाद्गौरेव वागादिरगौर्भवति, अगौरपि गौर्भवति ।
___ स्यान्मतं निमित्तभेदाद्गोशब्दा भिद्यन्ते, तानि च निमित्तानि गदनगर्जनगमनगरणादीनि, पृषोदराद्याकृतिगणत्वाद्रूपसिद्धेरन्यत्वमेवेत्येतञ्चोक्तविधिना न युक्तमप्यभ्युपगम्य
- गदनादिविशेषनिरूप्यान्यत्वे वा गवान्तरवद्गौरेवेत्यस्मिन्नपि पक्षे गौरित्यगौर्भवतीत्यपि, वागादिगवाव्यतिरेकातिरेकवत् , अनेकशब्दैकार्थत्वेऽपि एकोत्तरशतनामत्वाच्चाम्भसो विष10 मविषं भवत्यविषमपि विषं जीवनात्मकमप्युदकादि मारणात्मकं दुःप्रयोगात् , तथा पीलुर्व
क्षोऽवृक्षत्वादपीलुर्भवति धनादिवत् , हस्तिवत् पीलुर्वा तथा विपर्ययेण, अतः पीलुरपीलुश्च, अपीलुरपि पीलुश्च, एवं हरिरामार्जुनादयोऽपि, शक्रसिंहवासुदेवमण्डूकवानरहयादिषु रम्य वर्णदाशरथिबलदेवजामदग्न्येषु तृणसुवर्णवृक्षपाण्डवकार्तवीर्येषु च दर्शनात् ।
(गदनादीति) गदनादिविशेषनिरूप्यान्यत्वे वा गवान्तरवत् गौरेव-यथाहि गोशब्दः साना15 दिमत्येकस्मिन्नप्यर्थे गमननिमित्ते वृत्तोऽपि खण्डमुण्डशाबलेयबाहुलेयसौरभेयादिषु गवान्तरेषु गौरेव, इति[:]हेत्वर्थे, यस्मात् खण्डादिविशेषापेक्षया सामान्यशब्दो गोशब्दः, तस्मात् पूर्ववदस्मिन्नपि पक्षे
अन्यथाऽनिष्टप्रसङ्गमाह-म्लेच्छेति, शब्दसंस्कारविरहिता म्लेच्छाः, ते हि अपभ्रंशशब्दानाहुः, म्लेच्छो ह वा यदपशब्द इति श्रुतेः, अवाचका एवापभ्रंशशब्दाः, न ह्यपभ्रंशानामर्थन कश्चित् सम्बन्ध इति भावः । उपसंहरति-तस्मादिति । ननु गोशब्दस्यैकात्मकत्वे
तदुच्चारणात् सकृदेव यावत्तदर्थप्रतिपत्तिर्भवेदित्यत्राह-एकात्मकत्वे सतीति, प्रत्यर्थ शब्दाभेदेऽपि शक्तिभेदात् वक्तृविवक्षोपस्था20 पितार्थविशेषेणाभिव्यक्ता गवादिशब्दगता शक्तिस्तदर्थं प्रत्याययति नानार्थत्वेपीतिभावः । दृष्टान्तमत्राह-एकपूरुषेति । प्रोक्तमेव
हेतुमाह प्रतिसम्बन्धमिति, तत्तत्सम्बन्धितानिरूपकसम्बन्धतापेक्षयकगोशब्दस्याप्यन्यथा-अन्यार्थविषयकबोधजनकत्वेन वर्तनादिति भावः । तथा च किमित्यत्राह-तस्मादेकत्वादिति, एकत्वादेव वागायेकतमार्थवाचकत्वेन गौरेव सन् वागाद्यन्यतमावाचकत्वेनागौरपि भवति, तथा वागवाचकत्वेनागौरपि दिग्वाचकत्वेन गौरपि भवतीति भावः । अथ निमित्तानां शब्दप्रवृत्तिनिमित्तभूतानां
गदनगर्जनादीनां भेदाद्गोशब्दोऽपि भिद्यते गद व्यक्तायां वाचि, गर्ज गर्जने, गम्ल गतौ, गृ निगरणे इत्यादिभिर्धातुभिर्निष्पन्नो गौशब्दः 25 पृषोदरादित्वात् , उक्तञ्च हरिणा 'कैश्चिन्निर्वचनं भिन्नं गिरतेर्गर्जतेर्गमेः । गुवतेर्गदतेऽपि गौरित्यत्रानुदर्शितम् ॥' इति, तस्मात्
प्रतिनिर्वचनं गोशब्दस्यान्यत्वमित्याशङ्कते-गदनादिति । भवतु गोशब्दविशेषस्य गदनगर्जनादिरूपेण निरूप्यता, तथापि गोशब्द एक एव, अर्थस्य हि नानाविधा अवस्था दृष्टाः, यथा गोः खण्डमुण्डशाबलेयबाहुलेयसौरमेयादयः, तदवस्थाभेदेन मेदेऽपि गमननिमित्तैक्यात् सर्वे गौरेव, तथाविधावस्थावाचकशब्दापेक्षयाः च गोशब्दः सामान्यशब्दो भवति, एवं तच्छब्दनिर्वचनभेदेऽपि
तत्सहचारिभूतनिर्वचनविशेषगमनमवलम्ब्य गोशब्दस्वरूपमात्रमवलम्ब्य वाऽनन्य एव गोशब्दः, तथा च पूर्ववत् गौरपि 30 अगौर्भवति, न त्वगौर्न भवतीत्याह-गदनादिविशेषेति । सामान्यवस्त्वभावे विशेषो न निरूप्यो भवत्यस्य विशेषोऽयमिति,
तथा सामान्यशब्दाभावे विशेषशब्दा अप्यनिरूप्या एवेत्याशयेन व्याचष्टे-यथाहीति । गोरगोत्वे हेतुमाह-वागादिगवा.
सि. क्ष. छा. डे०।
२ सि. स्मएव. छा. क्ष. डे. साएव ।
३ छा.°जनितमन्यत्वमव्यथा ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org