________________
wwwwwwwww
mmm
विशेषाणां तदतद्रूपता] द्वादशारनयचक्रम्
९६५ आमघटच्छिद्रघटो न भवति, आदिग्रहणात् चित्रलेप्यादिघट इत्यादयो घटा एवाऽघटाः, घटनसामर्थ्याभावादचेष्टत्वात् , घटत्वाद्भुटः स्यात् प्रयोक्तृकर्तरि, तदभावादप्यघटो भवत्येवेति, किश्चान्यत्-अघटोऽपि च घटो भवति चेष्टार्थत्वात् स्वतंत्रः प्रयोक्ता च, तदर्शयति-घटते घटयति वा तन्तुतन्तुवायग[वा] श्वादिरिति, प्रकृत्यन्तात् ण्यन्ताद्वा कर्त्तयपो विहितत्वात् , तथा प्रत्यक्षेत्यादि, गौरित्यगौर्न भवतीत्येतदपि न युक्तम् , यस्माद्गौरगौर्भवति, अगौरपि गौर्भवतीत्येतत् प्रदर्यते-तत्र हि द्वयी शब्दानां गतिः, एकः शब्दोऽनेकार्थोऽनेकः । शब्द एकार्थो भवति, तत्र य एकोऽनेकार्थः स चिन्त्यते-गोशब्दस्य तावद्वागादिषु वर्तमानस्यैकत्वं प्रत्यक्षसिद्धम् , सकृदुचरितस्य वांदिग्भूरश्मीत्यादिषु दृष्टत्वात् , अतः प्रत्यक्षप्रसिद्धेरनन्यत्वं सिद्धम् , तच्चानाशङ्कनीयंकिमन्योऽनन्यो गोशब्द इति, तस्मादन्याय्यमन्यत्वम् , स्यान्मतं भिन्नार्थगते!शब्दस्यान्यत्वम् , सादृश्यात्तु स एव भवतीत्येतच्च न, तच्छब्दविशेषानिरूप्यत्वात् , अयमुदात्तोऽनुदात्तः स्वरितो वा विवर्तते, यदि हीत्यादि, विशेषरूपस्यानिरूप्यत्वान्नास्त्य[न]न्यत्वं प्रत्यक्षस्यानुमानाद्बलीयस्त्वाच, ततः किं ? ततस्तत्सम्बन्धाशक्य- 10 त्वम् , अनिरूप्यात्मरूपाणामसतां पृथगनुपलब्धानां नानार्थैः सह च न शक्यः सम्बन्धः कर्तुम् , अकृतसम्बन्धानाश्च शब्दानामर्थप्रत्यायनमन्याय्यम् , म्लेच्छप्रयुक्तशब्दश्रवणादप्यर्थप्रतीतिप्रसङ्गात् , तस्मादेकात्मकत्वं
घटः चित्र घटः लेप्यादिरूपो घटश्चैते जलाहरणादिचेष्टाननुकूलत्वाचेष्टावद्रूपघटा न भवन्तीति घटत्ववन्तोऽप्यघटा एवेति भावः । एवं घटन क्रियायां कन्तरानपेक्षकर्तरि घटत इति घट इति चेष्टाश्रये घटेऽघटत्वमुक्त्वा घटयतीति घट इति व्युत्पत्त्या कर्तुः प्रयोज्यकर्तृशक्त्यपेक्षप्रयोजयितुः प्रयोक्तकर्तुः तथाविधव्यापाराश्रयत्वाद्धटत्वेऽपि घटत्वलक्षणसामान्यविशेषस्याभावादघटत्वमपीत्याशयेनाह-15 प्रयोक्तकर्तरीति । घटते चेष्टां करोतीति व्युत्पत्त्या यः कोऽपि चेष्टाश्रयः कञन्तरानपेक्षः स्वतंत्रः तदपेक्षो वा प्रयोक्ता दण्डादिः तन्तुवायादिर्वा घटत्वसामान्यविशेषविरहितत्वेनाघटोऽपि घटो भवतीत्याह-अघटोऽपि चेति । घटत इति घटः घटयतीति घट इत्युभयत्रापि घटधातोर्घटिधातोश्च कर्तर्यप्प्रत्ययेनेकविधरूपसिद्धेस्तत्तत्क्रियाश्रय यः कोऽपि घटो वा तद्भिन्नो वा घटकुलालतन्तुतन्तुवायादिर्घट उच्यत इत्यघटोऽपि घटो भवतीत्याह-घटत इति। एवं गोशब्दोऽगोशब्दो भवतीत्येतदर्शनायाह-गौरितीति । अनेकार्थप्रतिपादकैकशब्दत्वमनेकशब्दप्रतिपाद्यैकार्थत्वमिति द्विधा दर्शनारछब्दे विकल्पं दर्शयति-20 तत्र हीति । तत्र प्रथमपक्षमुपस्थापयति-तत्र य एक इति, गवादिशब्द एक एव सन् सम्बन्धभेदादनेकेष्वर्थेषु वर्तत इति पक्षश्चिन्त्यत इत्यर्थः । स्वर्गेषुपशुवाग्वज्रदिङनेत्रघृणिभूजलादिषु अनेकेष्वर्थेषु वत्तमानोऽपि गोशब्दः प्रत्यक्षेणकः सिद्ध इत्येकानेकत्वशकैव नास्तीत्याह-गोशब्दस्येति । एकधोच्चरितेनाप्यनेकार्थबोधदर्शनादित्याह-सकृदुच्चरितस्येति । ननु घटपट शब्दयोरिव भिन्नार्थबोधकत्वेन गोशब्दस्यापि भेद आवश्यकः, एकशब्दत्वव्यवहारस्तु वर्णानुपूर्वीसाम्यादित्याशङ्कय समाधत्ते-स्यान्मतमिति । अयं गोशब्दोऽन्योऽयञ्च गोशब्दोऽन्य इति शब्दे विशेषस्य निरूपयितुमशक्यत्वादेक एव गोशब्दो न त्वनेक इत्याह- 25 तच्छब्दविशेषेति गोशब्दानां परस्परविशेषस्य निरूप्यत्वान्नान्यत्वम् , न चायं गोशब्द उदात्तोऽयमनुदातोऽयञ्च खरित इत्युदात्तानुदात्तस्वरितत्वादिभिर्विशेषेर्गवादिशब्दविशेषा निरूपितुं शक्या इति वाच्यम्, मृदः स्थासकोशकुसूलादीनामिवाङ्गुले: ऋजुत्ववक्रत्वादेरिव वा गोशब्दस्यैकस्यैव ते भेदा उदात्तादयो विवर्तरूपः, अतत्त्वतोऽन्यथाप्रथा विवर्त्त इत्युदीरितः, परिणामरूपा एव वेति भावः । विपक्षे दोषमादर्शयति-यदि हीति, विशेषरूपस्यानिरूप्यत्वेऽप्यनन्यत्वं न मन्यतेऽन्यत्वमेव मन्यते, अनेकत्वप्रत्यक्षस्यैकत्वगमकानुमानाद्बलीयस्त्वादिति चेत्तर्हि गोशब्दानन्त्यान्न सङ्केतोऽर्थेन सह शक्यते कर्तुम् , अनिरूपितखरूपाणां 30 शशशृङ्गादिवदसत्त्वादिति भावः । तथापि गोशब्दस्य सत्त्वाभ्युपगमे तस्य प्रत्यर्थं पार्थक्येनानुपलम्भात् कथमनेकैरर्थस्सह तस्य सम्बन्धः कर्तुं पार्यत इत्याह-पृथगिति । एतदेवाह-अनिरूप्येति । अकृतसम्बन्धाच्च नार्थप्रत्यय इल्याह-अकृतेति ।
१ सि. क्ष. छा. कर्बुदवो०। २ छा. ति. वाग्विमूरित्यादिबु । ३ सि. क्ष. छा. °नुपलब्धं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org