________________
९६४ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे सच्छब्दः अस् धातोः शत्रन्तस्य सदिति रूपसिद्धेः, यः सच्छब्दः सोऽन्य एव, सदेर्धातोः किबन्तस्य यः सच्छब्दः सोऽप्यन्य एव सदिति सच्छब्दो न भवत्येवासिप्रकृतिसच्छब्दः, तस्मात् शब्दतोऽपि सच्छब्दो भवन्नेव न भवतीति ।
___ एवं द्रव्यादिशब्देष्वपि सत्त्वासत्त्वे द्रष्टव्ये, एवं तावन्महासामान्यापरसामान्यशब्दार्थेषु 5 सर्वस्यादर्शनादयुक्तोऽन्यापोहः ।
एवमित्यादि, यथा सच्छब्दस्य रूपसिद्धिकृतनानात्वकृते सत्त्वासत्त्वे तथा द्रव्यशब्दस्यापि द्रष्टव्ये, तथा द्रोर्विकारो द्रव्यम् , द्रोरवयवो वा द्रव्यम् , द्रव्यश्च भव्ये भवतीति भव्यं द्रव्यम् , द्रवतीति द्रव्यं द्रूयते वा द्रवणात् गुणानां गुणसन्द्रावो द्रव्यमित्यादिव्युत्पत्त्या पृथिव्यादिस्वभेदापेक्षया च द्रव्यशब्दः सन्नद्रव्यशब्दश्च, द्रव्यादिशब्देष्वित्यादिग्रहणात् पृथिव्युदकादिसामान्यशब्देष्वपि खभेदापेक्षेषु वाच्य10 मित्यतिदेशार्थः, एवमर्थेष्वपि द्रष्टव्यम् , एवं तावन्महासामान्यापरसामान्यशब्दार्थेषु सर्वस्यादर्शनादयुक्तोऽन्यापोहः।
विशेषशब्दार्थेषु तु घट इत्यघटो न भवतीत्यत्रापि न भवत्यघटो भवत्यघटः, तद्यथा-आमच्छिद्रादिघटोऽघटः घटनसामर्थ्याभावादचेष्टत्वात् , अघटोऽपि च घटो भवति
चेष्टार्थत्वात् , घटते घटयति वा तन्तुतन्तुवायगवाश्वादिरिति, तथा प्रत्यक्षसिद्धं हि वागादिषु 15 वर्तमानस्य गोशब्दस्यैकत्वम् , अतोऽनन्यत्वमनाशङ्कनीयं किमन्योऽनन्यो गोशब्द इति, तच्छब्दविशेषानिरूप्यत्वात् , यदि हि विशेषरूपस्यानिरूप्यत्वान्नास्त्यनन्यत्वं ततः तत्सम्बन्धाशक्यत्वात् शब्दानामर्थप्रत्यायनमन्याय्यम् , तस्मादेकात्मकत्वं गोशब्दस्य, तस्मिंश्च सति शब्दस्य शक्तिभेदात् सम्बन्धिभिरभिव्यक्तात्तत्तदर्थप्रत्यायनशक्तयः प्रकल्प्याः , एकपुरुषपितृपुत्रादिवत्, प्रतिसम्बन्धमन्यथावृत्तेः, तस्मात्-वागादिभिन्नार्थवाचित्वाद्गौरेवागौर्भवति, 20 अगौरपि गौर्भवति ।
विशेषशब्दार्थेष्वित्यादि, तुशब्दो भेदाङ्गीकरणाकरणविकल्पाभावं सामान्यशब्दार्थाद्विशेषशब्दार्थेषु दर्शयति, घट इत्यघटो न भवतीत्यत्रापि न भवत्यघटो भवत्यघट इति, तद्यथा आमच्छिद्रादीति,
असूधातुनिष्पन्नः सच्छब्दः सद्धातुनिष्पन्नसच्छब्दापेक्षयाऽन्यत्वादसच्छब्दः सच्छब्दोऽपि सन्निति भावः । एवं द्रव्यादिशब्देष्वपि भिन्नभिन्न प्रकृतिजत्वापेक्षया तदतत्त्वं भाव्यमित्याह-एवं द्रव्यादिशब्देष्वपीति । व्याचष्टे-यथा सच्छब्दस्येति । अर्थतः 25 शब्दतोऽपि द्रव्याद्रव्यशब्दतामादर्शयति-द्रोर्विकार इति, तिस्रो व्युत्पत्तयः दुशब्दनिष्पन्नाः, द्रवतीति द्रूयत इति वा द्रव्यम् ,
दुधातुनिष्पन्नम् , गुणसन्द्रावो द्रव्यमिति तु पारिभाषिकम् , अर्थतश्च पृथिव्याद्यन्यतमवाचित्वापेक्षया द्रव्यशब्दः सन्नपि तदन्यतमानभिधायकत्वापेक्षयाऽद्रव्यशब्दोऽपीति भावः। एवमेव पृथिव्यादिसामान्यशब्देष्वपि तदतत्त्वं भाव्यमित्याह-द्रव्यादीति । सामान्यशब्दार्थेषु तदतत्त्वनिरूपणमुपसंहरति-एवं तावदिति । विशेषशब्दार्थेष्वपि तदर्शयति-विशेषशब्दार्थेषु त्विति । तुशब्दग्रहणप्रयोजनं दर्शयति-तुशब्द इति, विशेषशब्दस्यान्त्यविशेषपरत्वेन तदवान्तरभेदाभावादगीकृतार्थान्तरवृत्तित्वानङ्गीकृतर्थान्तर30 वृत्तित्वविकल्पयोः सामान्यशब्देष्विवात्रावकाशो नास्तीति तुशब्दो विशेषं द्योतयतीति भावः। घट इत्यघटो न भवतीत्ययुक्तम् , युक्तं तु
घटोऽघटोऽपि भवतीति रूपयति-घट इतीति। घटस्याघटत्वं तावदाह-आमच्छिद्रादीति, अग्निपाकमनवाप्तो घटः, सरन्ध्रो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org