________________
द्वादशारनयचक्रम्
९६३
mmmmmmmmmmmm
www
शब्दार्थो सदसद्रूपौ] ब्दोऽसच्छब्दोऽपि भवति तत एव लोकेऽन्यापोहवादे च घटशब्दाधुदाहरणमवकाशं लभते, सच्छन्द एव सन्नसच्छब्दो भवति, एवं सदेव शब्दयन घटादिः पटाद्यशब्दतां गमनादसच्छब्दो भवत्येव, इतरथा सत्त्वाभावात् सङ्करादिदोषाच्च, एवमर्थतोऽसच्छब्दो न भवतीत्ययुक्तम् शब्दतोऽपि रूपसिद्धिकृतनानात्वात् सच्छब्दो भवन्नेव न भवतीति ।
(नन्विति) ननूच्यमानसच्छब्दवदेतत्सिद्धिः-सिद्धं सच्छब्दमसत्स्वरूपविनिर्मुक्तं मन्यमानश्चो-b दयति-यः स[त् ] शब्दः [स] सतः शपनादाह्रानात् , अतः शब्दाद्यथा सच्छब्द एव संद्वाच्येव च, नासच्छब्दः, नासदर्थवाची वा, तथा सद्वस्त्वपि स्यादिति, घटशब्दादिरेप्यविशेषशब्दः, तदर्थश्च, तथा न पटादिशब्दस्तदर्थो वा भवितुमर्हतीति, तस्मादयुक्तमुच्यते सनसन् भवतीति, अत्र ब्रूमः-यदि सच्छब्दोऽसच्छब्दोऽपीत्यादि, नाभ्युपगच्छाम एतत् [सच्छब्दोऽ] सच्छब्दो न भवतीति, तथोदाहरणत्वासम्भवात् , सच्छब्दासच्छब्दत्व एवोदाहरणत्वसिद्धेः, यदि हि सच्छब्दोऽसच्छब्दोऽपि भवति तत एव लोकेऽन्या- 10 पोहवादे च घटशब्दाद्युदाहरणमवकाशं लभते, अन्यथा कुतोऽस्य घटायुदाहरणस्यावकाशः, तद्व्याचष्टेसच्छब्द एव हि सन्नसच्छब्दो भवति, एवं सदेव शब्दयन् घटादि पैटाद्यशब्दतां गमनादसच्छब्दो भवत्येव, इतरथा-घटस्य सतः पटाद्यसत्त्वाभावे सत्त्वाभावः, सत्त्वाभावात् सङ्करादिदोषाच्च, न त्वेकस्य सतः शपनाच्छब्दः स्यात् शब्दोऽङ्गीकृतभेदार्थत्वे, तस्मादयुक्तमुक्तं सच्छब्दवदसन्न भवति सद्वस्त्विति, एवमर्थतः-सतः शब्दः सच्छब्द इत्यर्थद्वारेण सच्छब्दोऽसच्छब्दो न भवतीत्ययुक्तम् , शब्दतोऽपि चास्ति 1B
wammanwwwwwanmanwww
mmmmmmmmmmm
सच्छब्दमिति, अभिधानात् प्राक् सच्छब्दोऽसिद्धोऽसत्स्वरूपश्चेति तदानीं सोऽसच्छब्दरूपोऽपीति न तत्र विवादः, उच्यमानसच्छब्दस्तु सिद्धोऽसत्स्वरूपविनिर्मुक्तश्चेति कथमसावसच्छब्दः स्यादित्याशयः । शप आक्रोश इति धातुना निष्पन्नः शब्दः सतः शब्दः सच्छब्दः सदभिधायीत्यर्थ इत्याह-य इति । उच्यमानत्वेन शब्दवरूपात् सच्छब्दः सच्छब्द एव, नासच्छब्दः, सदर्थवाचित्वात् , असदानाहानात् तथा सद्वस्त्वपि सद्रूप एव नासद्रूप इत्याह-अतः शब्दादिति । एवं सामान्यशब्दार्थयोरेकान्तखरूपतामुक्त्वा विशेषशब्दार्थयोस्तामाह-घटशब्दादिरपीति, घटशब्दोऽपि घट शब्द एव, घटस्यैवाह्वानात् न 20 विशेषशब्दो न व्यावृत्तिशब्दः, अघटशब्दः, नाघटखरूपपटादिवाचिशब्दः, तथा तदर्थोऽपि घट एव नाघटः पटादिः, एवञ्च सन्नसन् भवतीति यदुक्तं तदयुक्तमिति भावः । सच्छब्दो न भवत्यसच्छब्द इति न वयमभ्युपगच्छाम इत्याह-अत्र ब्रूम इति। सच्छब्दमसच्छब्दं न चेन्मन्यसे सच्छब्दोऽयमित्युदाहतु कथं पारयसि, सदसदात्मकत्वाद्वस्तुनस्तदभिधायकस्यैव शब्दत्वेन केवलं सतोऽभिधायकस्य व्यावृत्तेरपि वाच्यत्वाभ्युपगमपक्षे शब्दत्वाभावादिति दर्शयति-नाभ्युपगच्छाम इति । कस्योदाहृतियोग्यत्वमित्यत्राह-सच्छब्दासच्छब्दत्व एवेति, सतोऽसतश्चाभिधायकत्व एव शब्दस्य सच्छब्दत्वे सत्यसच्छब्दत्वात् 25 खरूपलाभेनोदाहरणत्वसिद्धेरिति भावः । तदेव स्फुटयति-यदि हीति । व्याख्यया तदेव व्यक्तीकरोति-सच्छब्द एव हीति । सद्रूपं घटादिवस्त्वभिधीयमान एव सच्छब्दरूपो घटादिशब्दोऽसद्रूपपटाद्यभिधानाक्षमत्वादसच्छब्दः घटाद्यशब्दो भवति, सद्रूपस्य घटस्य पटाद्यसद्रूपत्वात, घटस्य यदि पटाद्यसद्रूपत्वं नेष्यते सद्रूपमेवेष्यते त्वया भेदार्थताया अप्यङ्गीकारात् सदेकरूपवस्त्वभाव एव, घटस्य पटादिवरूपापत्या च वस्तुसङ्करादिदोषः स्यात्, तथाविधैकरूपाभिधायकस्य शब्दत्वाभावाचायं घटादिशब्द इत्युदाहर्तुमनवकाश एव स्यादिति भावः । एवञ्च यदुक्तं त्वयोच्यमानसच्छब्दवत् सद्वस्तु असन्न भवतीति तदयुक्तमित्याह-तस्मादिति । इदश्च 30 सदसद्रूपवस्त्वभिधायकत्वापेक्षया शब्दस्य सदसद्रूपत्वमुक्तमित्याह-एवमर्थत इति । शब्दरूपेणापि तदाह-शब्दतोऽपीति,
सि. छा. सदवाच्येवचनासच्छब्दोनाव. । २ सि. क्ष. छा. रपिरविशे०। ३ सि.क्ष. छा. डे. पटायशब्दनाममनादस०। ४ सि.क्ष. छा. डे, सत्वेकस्य । ..
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org