________________
९६२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
सोsन्नपि केनचित्प्रकारेण दृष्टो भावः, यथा घटादन्यः पटो घटत्वेनासन्नेव पटत्वेन सन् दृष्ट इति तद्वदिदमप्यसदेव सद्भवतीति तथा प्रत्येकवृत्तित्वादिति; एवंमङ्गीकृतार्थभेदत्वे सद्भवत्येवासत्, अभ्युपगतमपि चैतत्त्वयाऽपि विस्मृतमधुना मया स्मार्यमेतत् यथा घट इत्यघटो न भवतीति वृक्ष इत्यवृक्षो न भवतीत्येवमाद्यन्यापोहशब्दार्थवादित्वाद्भवतः, एष सच्छब्दसामान्यार्थ उक्तः ।
>
द्रव्यादिसामान्य शब्दार्थेष्वपि द्विविधा सैव तत्र तावदनङ्गीकृतार्थान्तरतायां द्रव्यमित्युक्तेऽद्रव्यं न भवतीति द्विर्न प्रयोगात् द्रव्यमेव 'सिद्धे सत्यारंभो नियमार्थ' इति नियम्यते यो न भवति यथा वा न भवतीति तस्य द्विविधस्याप्यत्र सम्भवो न भवतीत्युक्तं भवति, स च प्रतिषेधो न विधिप्रधानः पर्युदासः, प्रसज्यप्रतिषेधमात्रं तत्, ततश्च भाविततदभ्युपगमत्यागः, अर्थान्तरापोहतायां प्रतिस्वसन्यायात् यथायोगं तथैव योज्यम् ।
wwwwwww
www.ww
(द्रव्यादीति) द्रव्यादिसामान्यशब्दार्थेष्वपि द्विविधा सैव, अ [नङ्गीकृता ] ङ्गीकृतभेदार्थवृत्तित्वात्, तत्र तावदनङ्गीकृतार्थान्तरतायामित्यादि, स एव न्यायः प्राक्तनोऽद्रव्यं न भवतीति [द्वि] र्नव्प्रयोगात् द्रव्यमेवेति 'सिद्धे सत्यारम्भो नियमार्थो' यो न भवति येन न भवतीत्यादि स एव ग्रन्थो विधिप्रधानपर्युदासात्मकाद्रव्यशब्दार्थत्यागादिदोषापादनः प्रसज्यप्रतिषेधमात्रार्थत्वादित्येतदर्थातिदेशो गतार्थो यावद्भाविततदभ्युपगमत्यागः, द्वितीयविकल्पेऽप्यर्थान्तरापोहतायामित्यादि तमेव न्यायमतिदिशति प्रतिस्वसन्या यात्-प्रति15 स्वद्रव्यत्वात् सर्वद्रव्याणां द्रव्यमित्यद्रव्यं भवति, इतरेतराभावादिभ्य इत्यादि यथायोगं योज्यं तथैव ।
5
10
अत्राह—
www
ननूच्यमानसच्छब्दवदेतत्सिद्धिः, यः सच्छन्दः स सतः शपनादाह्वानात्, अतो यथा सच्छब्द एव सद्वाची एवञ्च नासच्छन्दः तथा सद्वस्त्वपि स्यादिति, अत्र ब्रूमः - यदि सच्छसर्वं हि वस्तु यत आत्मरूपेण वर्त्ततेऽत एवापररूपेण न वर्त्तत इति सिद्ध्यतीति भावः । तदेवं सतोऽसत्त्वमुपदर्थ्यासतोऽपि सत्त्वमाह - 20 अथ वेति सत्त्वेन यः सन् य आत्मरूपेण वा वर्त्तते सः केनचित्प्रकारेणासन्नपि सन् दृष्टः, तेन प्रकारेण प्रत्येक वृत्तित्वादेव, यथा घटत्वेनासन्नेव पटः पटत्वेन सन् दृष्ट एवं केनचिद्रूपेणासदपि सद्भवतीति भावः । यदि त्वयाऽर्थान्तरमङ्गीक्रियते तर्हि तदेवार्थान्तरं भवतीति सत् असदपि भवत्येवेत्याह, एवमिति । इत्थं त्वयाऽप्यभ्युपगतमेवेदानीं विस्मृतोऽत एव मया स्मार्यमित्याह- अभ्युपगतपीति । यत एवार्थान्तरमपोह्यतेऽत एवार्थान्तरमभ्युपगतमेवेति दर्शयति-यथा घट इतीति, त्वया हि अर्थान्तरापोहेन स्वार्थ शब्दोऽभिधत्त इत्यभ्युपेयते, वृक्षादिरवृक्षो न भवतीत्युक्तौ सन्नेव वृक्षोऽवृक्षादिरूपेणासदपीति स्यात्, वृक्षो भवन्नवृक्षो न भवतीत्यर्थात् 25 पर्युदासरूपात्, भवनस्वरूपवृक्षानभ्युपगमेऽवृक्षप्रतिषेधमात्रशब्दार्थतापत्त्याऽभ्युपगमादिदोषाः स्युरिति भावः । द्रव्यादिसामान्यशब्दार्थेषु प्रोक्तन्याय मतिदिशति-द्रव्यादीति । विकल्पोऽप्यत्रानङ्गीकृतार्थान्तरवृत्तिर्द्रव्यशब्दार्थोऽङ्गीकृतार्थान्तरवृत्तिर्वेति पूर्ववदेवेत्याहद्रव्यादिसामान्येति । अद्रव्यं न भवतीति अर्थान्तरमनभ्युपेत्य द्रव्यशब्दार्थो यद्युच्यते तर्हि नञ्द्वयप्रयोगेण प्रकृतार्थस्य सिद्धस्य पुनरारम्भेग नियमनात् द्विविधाद्रव्यभवनप्रतिषेधमात्रलाभेन विधिप्रधानपर्युदासात्मकाभ्युपगमत्यागः पूर्ववदेव प्रसज्यत इत्याह-तत्र तावदिति । अङ्गीकृतार्थान्तरवृत्तिपक्षाभ्युपगमे तु सर्वस्य द्रव्याद्रव्यात्मकतयाऽद्रव्यं न भवतीति विघटते प्रतिस्वं 30 सर्वस्य द्रव्यत्वादितरेतराभावादिभ्योऽद्रव्यत्वाच्च घटादि केनचिद्रूपेण द्रव्यं भवदपररूपेणाद्रव्यमपि प्रत्येकवृत्तेरिति प्रागुक्तमेव न्यायमतिदिशति - द्वितीयविकल्पेऽपीति । ननु यथा प्रोच्यमानः, सच्छब्दः सदर्थमेवाह, नासदर्थम्, असच्छब्दोऽपि न सदर्थम्, तथा सद्वस्त्वपि सत्स्वरूपमेव नासत्स्वरूपमित्याशङ्कते - ननूच्यमानेति । सच्छब्दस्योच्यमानत्वविशेषणप्रयोजनं सूचयति - सिद्धं
१ सि. क्ष. छा. डे. एवमनङ्गी० । २ सि.क्ष. छा. डे. द्रव्यं न भ० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org