________________
www
marwa
अङ्गीकृतार्थान्तरापोहपक्षभञ्जनम् ] द्वादशारनयचक्रम् दोषः स्यात् , किश्चान्यत्-तत एवार्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इत्येतस्यार्थान्तरापोहेन स्वार्थाभिधानमिति लक्षणस्य त्यागः कृतः स्यात् , एषोऽप्यभ्युपगमत्यागदोषोऽपर इति, एवन्तावदनङ्गीकृतार्थान्तरवृत्तिः सदित्यसन्न भवतीति सामान्यशब्दार्थेऽन्यापोहो न युक्तः, विधिरेव युक्त इति ।
अथैतेभ्य एव भयादङ्गीकृतार्थान्तरपोह इष्यते तत इदं विघटते सदित्यसन्न भवतीति, प्रतिस्वं सत् सर्वमपि घटादीति, सर्वमपि हि प्रतिस्वं प्रत्यात्म सदेवासदपि भवतीतरेतरा- 5 भावादिभ्यः, अत्र प्रयोगः-असताऽपि हि तेन सता केनचिद्भवितव्यम् , प्रत्येकवृत्तित्वात् , यथा घटादन्यः पटो घटत्वेनासन्नेव पटत्वेन सन् दृष्ट इति, एवमङ्गीकृतार्थभेदत्वे सद्भवत्येवासत्, अभ्युपगतमपि चैतत्त्वयापि घट इत्यघटो न भवतीति वृक्ष इत्यवृक्षो न भवतीत्येवमाद्यन्यापोहशब्दार्थवादित्वादिति ।।
अथैतेभ्य एवेति, अथ मा भूवन्नेते पर्युदासात्मकान्यशब्दार्थान्तरापोहस्वार्थाभिधानलक्षणा- 10 भ्युपगमत्यागदोषा इति तेभ्य एव भयादङ्गीकृतार्थान्तरवृत्तिरपोह इष्यते तत इदं विघटते सदित्यसन्न भवतीति, कस्मात् ? प्रतिवं सत् सर्वमपि घटादीति, इतिशब्दस्य हेत्वर्थत्वात् प्रतिस्वं सर्वस्य सत्त्वात् , सर्व हि प्रतिस्वं प्रत्यात्म-प्रत्येकमात्मना सदेवासदपि भवति, न ह्यसन्न भवति, कुतः, ? इतरेतराभावादिभ्यः प्राक्प्रध्वंसेतरेतर[भिाव]संयोगसमवायप्रमाणसामर्थ्यादिभेदेन सदेवासद्भवतीति विस्तरत उत्पतद्भिरेव प्रतिपादितमस्माभिः घटो घटात्मना सनं भवत्यसन्नेव पटात्मनेत्यादि, अत्र प्रयोगः-असताऽपि हि तेन 15 सता केनचिद्भवितव्यमिति प्रतिज्ञा, यो भवति येन प्रकारेण च भवति तेन द्विविधेनाप्यसता भवितव्यमित्यर्थः, कस्मात् ? प्रत्येकवृत्तित्वात्-प्रतिस्वमात्मरूपेण वर्तमानत्वात् , अथवा सत्त्वाद्यः सन् प्रत्येकं वा वर्तते
mommmmmmmm
wwwwww
न्तरापोह हि स्वार्थे कुर्वती श्रुतिरभिधत्त इति लक्षणस्यापि त्यागः प्रसक्त इत्याह-तत एवेति, अन्यस्याभावादेवेत्यर्थः । अयमप्यभ्युपगमदोष एवेत्याह-एषोऽपीति । तदेवं सदिति सामान्यशब्दार्थे प्रथमा वृत्तिरनङ्गीकृतार्थान्तरवृत्तिरूपा दूषितेत्याह-एवं तावदिति । उक्तविधिनाऽन्याभावादभ्युपगमत्यागप्रसङ्गेनानङ्गीकृतार्थान्तरवृत्तित्वं सामान्यशब्दस्य न सम्भवतीति सामान्योप-20 सर्जनद्वारेण विधिरूपो विशेष एव शब्दार्थ इत्याशयेनाह-विधिरेवेति । नन्वेतावता विधिवाचकत्वं शब्दस्य नाभ्युपगच्छामः किन्तु अङ्गीकृतार्थान्तरवृत्तित्वमुपेम इत्याह-अथैतेभ्य इति । व्याकरोति-अथ मा भूवन्निति, पर्युदासात्मकं यदन्यरूपं शब्दान्तरमर्थान्तरञ्च तदपोहद्वारेण खार्थाभिधानरूपलक्षणस्य योऽयमभ्युपगमः तत्त्यागरूपदोषो मा भूदिति तद्दोषभयादनङ्गीकृतार्थान्तरवृत्तित्वमपहायाङ्गीकृतार्थान्तरवृत्तिपक्षः स्वीक्रियत इति भावः। तत्पक्षेऽपि सदित्यसन्न भवतीति न सङ्घटत इत्याहतत इदमिति । जगति यावन्ति पदार्थजातानि तानि सर्वाणि प्रत्येक सद्रूपाण्येव तेऽसदित्यभिमतान्यपीति सर्व वस्तु सदपि 25 असदपि भवति, नहि किञ्चिदसन्न भवतीत्याह-प्रतिस्वमिति, प्रतिस्खं सर्वस्य सत्त्वात् न भवत्यसन्निति कथं वक्तुं युज्यते प्रागभावप्रध्वंसाभावेतरेतराभावादिभ्यः सत एवासत्त्वात् , स्थासक एव हि कोशकप्रागभावः, कोशक एव स्थासकप्रध्वंसाभावः, घट एव पटेतरेतराभावः, पटश्च घटेतरेतराभाव इत्येवं सत एवासद्रूपतेति भावः । अत्रार्थे दृष्टान्तमाह-घटो घटात्मनेति । अनुमानेनापीदं साधयति-अत्र प्रयोग इति, सताऽसता भवितव्यम् , सत् असदपि स्यादित्यर्थः, तथा केनचिद्रूपेण सताऽसतापि भवितव्यम् , नहि किञ्चित् सर्वथा सद्भवति तथा च येनकेनचिद्रूपेण यत्सत् तदपि असत् स्यादिति साध्यार्थः । एतमेवाह-यो 30
मान्यतः सदसदपीत्यर्थः, येन प्रकारेण भवति सत्त्वेन रूपेण सत् असदपीत्यर्थः । हेतुमाह-प्रत्येकवृत्तित्त्वादिति,
१ सि.क्ष. छा. डे. उक्तइति ।
२ सि.क्ष. छा. डे. सन्नभ० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org